Book 12: Chapter 336
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 12: Chapter 336

The Mahabharata in Sanskrit

Book 12
Chapter 336

1 अहॊ हय एकान्तिनः सर्वान परीणाति भगवान हरिः
विधिप्रयुक्तां पूजां च गृह्णाति भगवान सवयम
2 ये तु दग्धेन्धना लॊके पुण्यपापविवर्जिताः
तेषां तवयाभिनिर्दिष्टा पारम्पर्यागता गतिः
3 चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषॊत्तमम
एकान्तिनस तु पुरुषा गच्छन्ति परमं पदम
4 नूनम एकान्तधर्मॊ ऽयं शरेष्ठॊ नारायण परियः
अगत्वा गतयस तिस्रॊ यद गच्छन्त्य अव्ययं हरिम
5 सहॊपनिषदान वेदान ये विप्राः सम्यग आस्थिताः
पथन्ति विधिम आस्थाय ये चापि यति धर्मिणः
6 तेभ्यॊ विशिष्टां जानामि गतिम एकान्तिनां नृणाम
केनैष धर्मः कथितॊ देवेन ऋषिणापि वा
7 एकान्तिनां च का चर्या कदा चॊत्पादिता विभॊ
एतन मे संशयं छिन्धि परं कौतूहलं हि मे
8 [वैषम्पायन]
समुपॊधेष्व अनीकेषु कुरु पाण्डवयॊर मृधे
अर्जुने विमनस्के च गीता भगवता सवयम
9 आगतिश च गतिश चैव पूर्वं ते कथिता मया
गहनॊ हय एष धर्मॊ वै दुर्विज्ञेयॊ ऽकृतात्मभिः
10 संमितः सामवेदेन पुरैवादि युगे कृतः
धार्यते सवयम ईशेन राजन नारायणेन ह
11 एतम अर्थं महाराज पृष्ठः पार्थेन नारदः
ऋषिमध्ये महाभागः शृण्वतॊः कृष्ण भीस्मयॊः
12 गुरुणा च ममाप्य एष कथितॊ नृपसत्तम
यथा तु कथितस तत्र नारदेन तथा शृणु
13 यदासीन मानसं जन्म नारायण मुखॊद्गतम
बरह्मणः पृथिवीपाल तदा नारायणः सवयम
तेन धर्मेण कृतवान दैवं पित्र्यं च भारत
14 फेनपा ऋषयश चैव तं धर्मं परतिपेदिरे
वैखानसाः फेनपेभ्यॊ धर्मम एतं परपेदिरे
वैखानसेभ्यः सॊमस तु ततः सॊ ऽनतर्दधे पुनः
15 यदासीच चाक्षुषं जन्म दवितीयं बरह्मणॊ नृप
तदा पितामहात सॊमाद एतं धर्मम अजानत
नारायणात्मकं राजन रुद्राय परददौ च सः
16 ततॊ यॊगस्थितॊ रुद्रः पुरा कृतयुगे नृप
वालखिल्यान ऋषीन सर्वान धर्मम एतम अपाथयत
अन्तर्दधे ततॊ भूयस तस्य देवस्य मायया
17 तृतीयं बरह्मणॊ जन्म यदासीद वाचिकं महत
तत्रैष धर्मः संभूतः सवयं नारायणान नृप
18 सुपर्णॊ नाम तम ऋषिः पराप्तवान पुरुषॊत्तमात
तपसा वै सुतप्तेन दमेन नियमेन च
19 तरिः परिक्रान्तवान एतत सुपर्णॊ धर्मम उत्तमम
यस्मात तस्माद वरतं हय एतत तरिसौपर्णम इहॊच्यते
20 ऋग्वेदपाठपठितं वरतम एतद धि दुश्चरम
सुपर्णाच चाप्य अधिगतॊ धर्म एष सनातनः
21 वायुना दविपदां शरेष्ठ परथितॊ जगद आयुषा
वायॊः सकाशात पराप्तश च ऋषिभिर विघसाशिभिः
22 तेभ्यॊ महॊदधिश चैनं पराप्तवान धर्मम उत्तमम
ततः सॊ ऽनतर्दधे भूयॊ नारायण समाहितः
23 यदा भूयः शरवणजा सृष्टिर आसीन महात्मनः
बरह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु
24 जगत सरष्टुमना देवॊ हरिर नारायणः सवयम
चिन्तयाम आस पुरुषं जगत सर्ग करं परभुः
25 अथ चिन्तयतस तस्य कर्णाभ्यां पुरुषः सृतः
परजा सर्ग करॊ बरह्मा तम उवाच जगत्पतिः
26 सृज परजाः पुत्र सर्वा मुखतः पादतस तथा
शरेयस तव विधास्यामि बलं तेजश च सुव्रत
27 धर्मं च मत्तगृह्णीश्व सात्वतं नाम नामतः
तेन सर्वं कृतयुगं सथापयस्व यथाविधि
28 ततॊ बरह्मा नमश चक्रे देवाय हरि मेधसे
धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम
आरण्यकेन सहितं नारायण मुखॊद्गतम
29 उपदिश्य ततॊ धर्मं बरह्मणे ऽमिततेजसे
तं कार्तयुगधर्माणं निराशीः कर्मसंज्ञितम
जगाम तमसः पारं यत्राव्यक्तं वयवस्थितम
30 ततॊ ऽथ वरदॊ देवॊ बरह्मलॊकपितामहः
असृजत स तदा लॊकान कृष्ट्नान सथावरजङ्गमान
31 ततः परावर्तत तदा आदौ कृतयुगं शुभम
ततॊ हि सात्वतॊ धर्मव्याप्य लॊकान अवस्थितः
32 तेनैवाद्येन धर्मेण बरह्मा लॊकविसर्ग कृत
पूजयाम आस देवेशं हरिं नारायणं परभुम
33 धर्मप्रतिष्ठा हेतॊश च मनुं सवारॊचिषं ततः
अध्यापयाम आस तदा लॊकानां हितकाम्यया
34 ततः सवारॊचिषः पुत्रं सवयं शङ्खपदं नृप
अध्यापयत पुराव्यग्रः सर्वलॊकपतिर विभुः
35 ततः शङ्खपदश चापि पुत्रम आत्मजम औरसम
दिशापालं सुधर्माणम अध्यापयत भारत
ततः सॊ ऽनतर्दधे भूयः पराप्ते तरेतायुगे पुनः
36 नासिक्य जन्मनि पुरा बरह्मणः पार्थिवॊत्तमम
धर्मम एतं सवयं देवॊ हरिर नारायणः परभुः
उज्जगारारविन्दाक्षॊ बरह्मणः पश्यतस तदा
37 सनत्कुमारॊ भगवांस ततः पराधीतवान नृप
सनत्कुमाराद अपि च वीरणॊ वै परजापतिः
कृतादौ कुरुशार्दूल धर्मम एतम अधीतवान
38 वीरणश चाप्य अधीत्यैनं रौच्याय मनवे ददौ
रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे
39 कुक्षि नाम्ने ऽथ परददौ दिशां पालाय धर्मिणे
ततः सॊ ऽनतर्दधे भूयॊ नारायण मुखॊद्गतः
40 अन्दजे जन्मनि पुनर बरह्मणे हरि यॊनये
एष धर्मः समुद्भूतॊ नारायण मुखात पुनः
41 गृहीतॊ बरह्मणा राजन परयुक्तश च यथाविधि
अध्यापिताश च मुनयॊ नाम्ना बर्हिषदॊ नृप
42 बर्हिषद्भ्यश च संक्रान्तः सामवेदान्तगं दविजम
जयेष्ठं नाम्नाभिविख्यातं जयेष्ठ साम वरतॊ हरिः
43 जयेष्ठाच चाप्य अनुसंक्रान्तॊ राजानम अविकम्पनम
अन्तर्दधे ततॊ राजन एष धर्मः परभॊर हरेः
44 यद इदं सप्तमं जन्म पद्मजं बरह्मणॊ नृप
तत्रैष धर्मः कथितः सवयं नारायणेन हि
45 पितामहाय शुद्धाय युगादौ लॊकधारिणे
पितामहश च दक्षाय धर्मम एतं पुरा ददौ
46 ततॊ जयेष्ठे तु दौहित्रे परादाद दक्षॊ नृपॊत्तम
आदित्ये सवितुर जयेष्ठे विवस्वाञ जगृहे ततः
47 तरेतायुगादौ च पुनर विवस्वान मनवे ददौ
मनुश च लॊकभूत्य अर्थं सुतायेक्ष्वाकवे ददौ
48 इक्ष्वाकुणा च कथितॊ वयाप्य लॊकान अवस्थितः
गमिष्यति कषयान्ते च पुनर नारायणं नृप
49 वरतिनां चापि यॊ धर्मः स ते पूर्वं नृपॊत्तम
कथितॊ हरि गीतासु समासविधि कल्पितः
50 नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः
एष धर्मॊ जगन्नाथात साक्षान नारायणान नृप
51 एवम एष महान धर्म आद्यॊ राजन सनातनः
दुर्विज्ञेयॊ दुष्करश च सात्वतैर धार्यते सदा
52 धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा
अहिंसा धर्मयुक्तेन परीयते हरिर ईश्वरः
53 एकव्यूह विभागॊ वा कव चिद दविव्यूह संज्ञितः
तरिव्यूहश चापि संख्यातश चतुर्व्यूहश च दृश्यते
54 हरिर एव हि कषेत्रज्ञॊ निर्ममॊ निष्कलस तथा
जीवश च सर्वभूतेषु पञ्च भूतगुणातिगः
55 मनश च परथितं राजन पञ्चेन्द्रिय समीरणम
एष लॊकनिधिर धीमान एष लॊकविसर्ग कृत
56 अकर्ता चैव कर्ता च कार्यं कारणम एव च
यथेच्छति तथा राजन करीदते पुरुषॊ ऽवययः
57 एष एकान्ति धर्मस ते कीर्तितॊ नृपसत्तम
मया गुरु परसादेन दुर्विज्ञेयॊ ऽकृतात्मभिः
एकान्तिनॊ हि पुरुषा दुर्लभा बहवॊ नृप
58 यद्य एकान्तिभिर आकीर्णं जगत सयात कुरुनन्दन
अहिंसकैर आत्मविद्भिः सर्वभूतहिते रतैः
भवेत कृतयुगप्राप्तिर आशीः कर्म विवर्जितैः
59 एवं स भगवान वयासॊ गुरुर मम विशां पते
कथयाम आस धर्मज्ञॊ धर्मराज्ञे दविजॊत्तमः
60 ऋषीणां संनिधौ राजञ शृण्वतॊः कृष्ण भीस्मयॊः
तस्याप्य अकथयत पूर्वं नारदः सुमहातपः
61 देवं परमकं बरह्म शवेतं चन्द्राभम अच्युतम
यत्र चैकान्तिनॊ यान्ति नारायण परायनाः
62 [जनमेजय]
एवं बहुविधं धर्मं परतिबुद्धैर निषेवितम
न कुर्वन्ति कथं विप्रा अन्ये नाना वरते सथिताः
63 [वैषम्पायन]
तिस्रः परकृतयॊ राजन देहबन्धेषु निर्मिताः
सात्त्विकी राजसी चैव तामसी चेति भारत
64 देहबन्धेषु पुरुषः शरेष्ठः कुरुकुलॊद्वह
सात्त्विकः पुरुषव्याघ्र भवेन मॊक्षार्थ निश्चितः
65 अत्रापि स विजानाति पुरुषं बरह्म वर्तिनम
नारायण परॊ मॊक्षस ततॊ वै सात्त्विकः समृतः
66 मनीसितं च पराप्नॊति चिन्तयन पुरुषॊत्तमम
एकान्तभक्तिः सततं नारायण परायनः
67 मनीसिनॊ हि ये के चिद यतयॊ मॊक्षकाङ्क्षिणः
तेषां वै छिन्नतृष्णानां यॊगक्षेम वहॊ हरिः
68 जायमानं हि पुरुषं यं पश्येन मधुसूदनः
सात्त्विकस तु स विज्ञेयॊ भवेन मॊक्षे च निश्चितः
69 सांख्ययॊगेन तुल्यॊ हि धर्म एकान्तसेवितः
नारायणात्मके मॊक्षे ततॊ यान्ति परां गतिम
70 नारायणेन दृष्टश च परतिबुद्धॊ भवेत पुमान
एवम आत्मेच्छया राजन परतिबुद्धॊ न जायते
71 राजसी तामसी चैव वयामिश्रे परकृतीस्मृते
तद आत्मकं हि पुरुषं जायमानं विशां पते
परवृत्ति लक्षणैर युक्तं नावेक्षति हरिः सवयम
72 पश्यत्य एनं जायमानं बरह्मा लॊकपितामहः
रजसा तमसा चैव मानुषं समभिप्लुतम
73 कामं देवाश च ऋषयः सत्त्वस्था नृपसत्तम
हीनाः सत्त्वेन सूक्ष्मेण ततॊ वैकारिकाः समृताः
74 [जनमेजय]
कथं वैकारिकॊ गच्छेत पुरुषः पुरुषॊत्तमम
75 [वैषम्पायन]
सुसूक्ष्म सत्त्वसंयुक्तं संयुक्क्तं तरिभिर अक्षरैः
पुरुषः पुरुषं गच्छेन निष्क्रियः पञ्चविंशकम
76 एवम एकं सांक्य यॊगं वेदारण्यकम एव च
परस्पराङ्गान्य एतानि पञ्चरात्रं च कथ्यते
एष एकान्तिनां धर्मॊ नारायण परात्मकः
77 यथा समुद्रात परसृता जलौघास; तम एव राजन पुनर आविशन्ति
इमे तथा जञानमहाजलौघा; नारायणं वै पुनर आविशन्ति
78 एष ते कथितॊ धर्मः सात्वतॊ यदुबान्धव
कुरुष्वैनं यथान्यायं यदि शक्नॊषि भारत
79 एवं हि सुमहाभागॊ नारदॊ गुरवे मम
शवेतानां यतिनाम आह एकान्तगतिम अव्ययाम
80 वयासश चाकथयत परीत्या धर्मपुत्राय धीमते
स एवायं मया तुभ्यम आख्यातः परसृतॊ गुरॊः
81 इत्थं हि दुश्चरॊ धर्म एष पार्थिव सत्तम
यथैव तवं तथैवान्ये न भजन्ति विमॊहिताः
82 कृष्ण एव हि लॊकानां भावनॊ मॊहनस तथा
संहार कारकश चैव कारणं च विशां पते
1 aho hy ekāntinaḥ sarvān prīṇāti bhagavān hariḥ
vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam
2 ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ
teṣāṃ tvayābhinirdiṣṭā pāramparyāgatā gatiḥ
3 caturthyāṃ caiva te gatyāṃ gacchanti puruṣottamam
ekāntinas tu puruṣā gacchanti paramaṃ padam
4 nūnam ekāntadharmo 'yaṃ śreṣṭho nārāyaṇa priyaḥ
agatvā gatayas tisro yad gacchanty avyayaṃ harim
5 sahopaniṣadān vedān ye viprāḥ samyag āsthitāḥ
pathanti vidhim āsthāya ye cāpi yati dharmiṇaḥ
6 tebhyo viśiṣṭāṃ jānāmi gatim ekāntināṃ nṛṇām
kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā
7 ekāntināṃ ca kā caryā kadā cotpāditā vibho
etan me saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me
8 [vaiṣampāyana]
samupodheṣv anīkeṣu kuru pāṇḍavayor mṛdhe
arjune vimanaske ca gītā bhagavatā svayam
9 āgatiś ca gatiś caiva pūrvaṃ te kathitā mayā
gahano hy eṣa dharmo vai durvijñeyo 'kṛtātmabhiḥ
10 saṃmitaḥ sāmavedena puraivādi yuge kṛtaḥ
dhāryate svayam īśena rājan nārāyaṇena ha
11 etam arthaṃ mahārāja pṛṣṭhaḥ pārthena nāradaḥ
ṛṣimadhye mahābhāgaḥ śṛṇvatoḥ kṛṣṇa bhīsmayoḥ
12 guruṇā ca mamāpy eṣa kathito nṛpasattama
yathā tu kathitas tatra nāradena tathā śṛṇu
13 yadāsīn mānasaṃ janma nārāyaṇa mukhodgatam
brahmaṇaḥ pṛthivīpāla tadā nārāyaṇaḥ svayam
tena dharmeṇa kṛtavān daivaṃ pitryaṃ ca bhārata
14 phenapā ṛṣayaś caiva taṃ dharmaṃ pratipedire
vaikhānasāḥ phenapebhyo dharmam etaṃ prapedire
vaikhānasebhyaḥ somas tu tataḥ so 'ntardadhe punaḥ
15 yadāsīc cākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa
tadā pitāmahāt somād etaṃ dharmam ajānata
nārāyaṇātmakaṃ rājan rudrāya pradadau ca saḥ
16 tato yogasthito rudraḥ purā kṛtayuge nṛpa
vālakhilyān ṛṣīn sarvān dharmam etam apāthayat
antardadhe tato bhūyas tasya devasya māyayā
17 tṛtīyaṃ brahmaṇo janma yadāsīd vācikaṃ mahat
tatraiṣa dharmaḥ saṃbhūtaḥ svayaṃ nārāyaṇān nṛpa
18 suparṇo nāma tam ṛṣiḥ prāptavān puruṣottamāt
tapasā vai sutaptena damena niyamena ca
19 triḥ parikrāntavān etat suparṇo dharmam uttamam
yasmāt tasmād vrataṃ hy etat trisauparṇam ihocyate
20 ṛgvedapāṭhapaṭhitaṃ vratam etad dhi duścaram
suparṇāc cāpy adhigato dharma eṣa sanātanaḥ
21 vāyunā dvipadāṃ śreṣṭha prathito jagad āyuṣā
vāyoḥ sakāśāt prāptaś ca ṛṣibhir vighasāśibhiḥ
22 tebhyo mahodadhiś cainaṃ prāptavān dharmam uttamam
tataḥ so 'ntardadhe bhūyo nārāyaṇa samāhitaḥ
23 yadā bhūyaḥ śravaṇajā sṛṣṭir āsīn mahātmanaḥ
brahmaṇaḥ puruṣavyāghra tatra kīrtayataḥ śṛṇu
24 jagat sraṣṭumanā devo harir nārāyaṇaḥ svayam
cintayām āsa puruṣaṃ jagat sarga karaṃ prabhuḥ
25 atha cintayatas tasya karṇābhyāṃ puruṣaḥ sṛtaḥ
prajā sarga karo brahmā tam uvāca jagatpatiḥ
26 sṛja prajāḥ putra sarvā mukhataḥ pādatas tathā
śreyas tava vidhāsyāmi balaṃ tejaś ca suvrata
27 dharmaṃ ca mattagṛhṇīśva sātvataṃ nāma nāmataḥ
tena sarvaṃ kṛtayugaṃ sthāpayasva yathāvidhi
28 tato brahmā namaś cakre devāya hari medhase
dharmaṃ cāgryaṃ sa jagrāha sarahasyaṃ sasaṃgraham
āraṇyakena sahitaṃ nārāyaṇa mukhodgatam
29 upadiśya tato dharmaṃ brahmaṇe 'mitatejase
taṃ kārtayugadharmāṇaṃ nirāśīḥ karmasaṃjñitam
jagāma tamasaḥ pāraṃ yatrāvyaktaṃ vyavasthitam
30 tato 'tha varado devo brahmalokapitāmahaḥ
asṛjat sa tadā lokān kṛṣṭnān sthāvarajaṅgamān
31 tataḥ prāvartata tadā ādau kṛtayugaṃ śubham
tato hi sātvato dharmavyāpya lokān avasthitaḥ
32 tenaivādyena dharmeṇa brahmā lokavisarga kṛt
pūjayām āsa deveśaṃ hariṃ nārāyaṇaṃ prabhum
33 dharmapratiṣṭhā hetoś ca manuṃ svārociṣaṃ tataḥ
adhyāpayām āsa tadā lokānāṃ hitakāmyayā
34 tataḥ svārociṣaḥ putraṃ svayaṃ śaṅkhapadaṃ nṛpa
adhyāpayat purāvyagraḥ sarvalokapatir vibhuḥ
35 tataḥ śaṅkhapadaś cāpi putram ātmajam aurasam
diśāpālaṃ sudharmāṇam adhyāpayata bhārata
tataḥ so 'ntardadhe bhūyaḥ prāpte tretāyuge punaḥ
36 nāsikya janmani purā brahmaṇaḥ pārthivottamam
dharmam etaṃ svayaṃ devo harir nārāyaṇaḥ prabhuḥ
ujjagārāravindākṣo brahmaṇaḥ paśyatas tadā
37 sanatkumāro bhagavāṃs tataḥ prādhītavān nṛpa
sanatkumārād api ca vīraṇo vai prajāpatiḥ
kṛtādau kuruśārdūla dharmam etam adhītavān
38 vīraṇaś cāpy adhītyainaṃ raucyāya manave dadau
raucyaḥ putrāya śuddhāya suvratāya sumedhase
39 kukṣi nāmne 'tha pradadau diśāṃ pālāya dharmiṇe
tataḥ so 'ntardadhe bhūyo nārāyaṇa mukhodgataḥ
40 andaje janmani punar brahmaṇe hari yonaye
eṣa dharmaḥ samudbhūto nārāyaṇa mukhāt punaḥ
41 gṛhīto brahmaṇā rājan prayuktaś ca yathāvidhi
adhyāpitāś ca munayo nāmnā barhiṣado nṛpa
42 barhiṣadbhyaś ca saṃkrāntaḥ sāmavedāntagaṃ dvijam
jyeṣṭhaṃ nāmnābhivikhyātaṃ jyeṣṭha sāma vrato hariḥ
43 jyeṣṭhāc cāpy anusaṃkrānto rājānam avikampanam
antardadhe tato rājan eṣa dharmaḥ prabhor hareḥ
44 yad idaṃ saptamaṃ janma padmajaṃ brahmaṇo nṛpa
tatraiṣa dharmaḥ kathitaḥ svayaṃ nārāyaṇena hi
45 pitāmahāya śuddhāya yugādau lokadhāriṇe
pitāmahaś ca dakṣāya dharmam etaṃ purā dadau
46 tato jyeṣṭhe tu dauhitre prādād dakṣo nṛpottama
āditye savitur jyeṣṭhe vivasvāñ jagṛhe tataḥ
47 tretāyugādau ca punar vivasvān manave dadau
manuś ca lokabhūty arthaṃ sutāyekṣvākave dadau
48 ikṣvākuṇā ca kathito vyāpya lokān avasthitaḥ
gamiṣyati kṣayānte ca punar nārāyaṇaṃ nṛpa
49 vratināṃ cāpi yo dharmaḥ sa te pūrvaṃ nṛpottama
kathito hari gītāsu samāsavidhi kalpitaḥ
50 nāradena tu saṃprāptaḥ sarahasyaḥ sasaṃgrahaḥ
eṣa dharmo jagannāthāt sākṣān nārāyaṇān nṛpa
51 evam eṣa mahān dharma ādyo rājan sanātanaḥ
durvijñeyo duṣkaraś ca sātvatair dhāryate sadā
52 dharmajñānena caitena suprayuktena karmaṇā
ahiṃsā dharmayuktena prīyate harir īśvaraḥ
53 ekavyūha vibhāgo vā kva cid dvivyūha saṃjñitaḥ
trivyūhaś cāpi saṃkhyātaś caturvyūhaś ca dṛśyate
54 harir eva hi kṣetrajño nirmamo niṣkalas tathā
jīvaś ca sarvabhūteṣu pañca bhūtaguṇātigaḥ
55 manaś ca prathitaṃ rājan pañcendriya samīraṇam
eṣa lokanidhir dhīmān eṣa lokavisarga kṛt
56 akartā caiva kartā ca kāryaṃ kāraṇam eva ca
yathecchati tathā rājan krīdate puruṣo 'vyayaḥ
57 eṣa ekānti dharmas te kīrtito nṛpasattama
mayā guru prasādena durvijñeyo 'kṛtātmabhiḥ
ekāntino hi puruṣā durlabhā bahavo nṛpa
58 yady ekāntibhir ākīrṇaṃ jagat syāt kurunandana
ahiṃsakair ātmavidbhiḥ sarvabhūtahite rataiḥ
bhavet kṛtayugaprāptir āśīḥ karma vivarjitaiḥ
59 evaṃ sa bhagavān vyāso gurur mama viśāṃ pate
kathayām āsa dharmajño dharmarājñe dvijottamaḥ
60 ṛṣīṇāṃ saṃnidhau rājañ śṛṇvatoḥ kṛṣṇa bhīsmayoḥ
tasyāpy akathayat pūrvaṃ nāradaḥ sumahātapaḥ
61 devaṃ paramakaṃ brahma śvetaṃ candrābham acyutam
yatra caikāntino yānti nārāyaṇa parāyanāḥ
62 [janamejaya]
evaṃ bahuvidhaṃ dharmaṃ pratibuddhair niṣevitam
na kurvanti kathaṃ viprā anye nānā vrate sthitāḥ
63 [vaiṣampāyana]
tisraḥ prakṛtayo rājan dehabandheṣu nirmitāḥ
sāttvikī rājasī caiva tāmasī ceti bhārata
64 dehabandheṣu puruṣaḥ śreṣṭhaḥ kurukulodvaha
sāttvikaḥ puruṣavyāghra bhaven mokṣārtha niścitaḥ
65 atrāpi sa vijānāti puruṣaṃ brahma vartinam
nārāyaṇa paro mokṣas tato vai sāttvikaḥ smṛtaḥ
66 manīsitaṃ ca prāpnoti cintayan puruṣottamam
ekāntabhaktiḥ satataṃ nārāyaṇa parāyanaḥ
67 manīsino hi ye ke cid yatayo mokṣakāṅkṣiṇaḥ
teṣāṃ vai chinnatṛṣṇānāṃ yogakṣema vaho hariḥ
68 jāyamānaṃ hi puruṣaṃ yaṃ paśyen madhusūdanaḥ
sāttvikas tu sa vijñeyo bhaven mokṣe ca niścitaḥ
69 sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ
nārāyaṇātmake mokṣe tato yānti parāṃ gatim
70 nārāyaṇena dṛṣṭaś ca pratibuddho bhavet pumān
evam ātmecchayā rājan pratibuddho na jāyate
71 rājasī tāmasī caiva vyāmiśre prakṛtīsmṛte
tad ātmakaṃ hi puruṣaṃ jāyamānaṃ viśāṃ pate
pravṛtti lakṣaṇair yuktaṃ nāvekṣati hariḥ svayam
72 paśyaty enaṃ jāyamānaṃ brahmā lokapitāmahaḥ
rajasā tamasā caiva mānuṣaṃ samabhiplutam
73 kāmaṃ devāś ca ṛṣayaḥ sattvasthā nṛpasattama
hīnāḥ sattvena sūkṣmeṇa tato vaikārikāḥ smṛtāḥ
74 [janamejaya]
kathaṃ vaikāriko gacchet puruṣaḥ puruṣottamam
75 [vaiṣampāyana]
susūkṣma sattvasaṃyuktaṃ saṃyukktaṃ tribhir akṣaraiḥ
puruṣaḥ puruṣaṃ gacchen niṣkriyaḥ pañcaviṃśakam
76 evam ekaṃ sāṃkya yogaṃ vedāraṇyakam eva ca
parasparāṅgāny etāni pañcarātraṃ ca kathyate
eṣa ekāntināṃ dharmo nārāyaṇa parātmakaḥ
77 yathā samudrāt prasṛtā jalaughās; tam eva rājan punar āviśanti
ime tathā jñānamahājalaughā; nārāyaṇaṃ vai punar āviśanti
78 eṣa te kathito dharmaḥ sātvato yadubāndhava
kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata
79 evaṃ hi sumahābhāgo nārado gurave mama
śvetānāṃ yatinām āha ekāntagatim avyayām
80 vyāsaś cākathayat prītyā dharmaputrāya dhīmate
sa evāyaṃ mayā tubhyam ākhyātaḥ prasṛto guroḥ
81 itthaṃ hi duścaro dharma eṣa pārthiva sattama
yathaiva tvaṃ tathaivānye na bhajanti vimohitāḥ
82 kṛṣṇa eva hi lokānāṃ bhāvano mohanas tathā
saṃhāra kārakaś caiva kāraṇaṃ ca viśāṃ pate

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1676 of 2013 Book 83% ~10 min left