Book 12: Chapter 326
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 12: Chapter 326

The Mahabharata in Sanskrit

Book 12
Chapter 326

1 [भीस्म]
एवं सतुतः स भगवान गुह्यैस तथ्यैश च नामभिः
तं मुनिं दर्शयाम आस नारदं विश्वरूपधृक
2 किं चिच चन्द्र विशुद्धात्मा किं चिच चन्द्राद विशेषवान
कृशानु वर्णः किं चिच च किं चिद धिष्न्याकृतिः परभुः
3 शुकपत्रवर्णः किं चिच च किं चित सफतिक सप्रभः
नीलाञ्जनचय परख्यॊ जातरूपप्रभः कव चित
4 परवालाङ्कुर वर्णश च शवेतवर्णः कव चिद बभौ
कव चित सुवर्णवर्णाभॊ वैदूर्यसदृशः कव चित
5 नीलवैदूर्य सदृश इन्द्रनीलनिभः कव चित
मयूरग्रीव वर्णाभॊ मुक्ताहार निभः कव चित
6 एतान वर्णान बहुविधान रूपे बिभ्रत सनातनः
सहस्रनयनः शरीमाञ शतशीर्षः सहस्रपात
7 सहस्रॊदर बाहुश च अव्यक्त इति च कव चित
ओंकारम उद्गिरन वक्त्रात सावित्रीं च तद अन्वयाम
8 शेषेभ्यश चैव वक्त्रेभ्यश चतुर्वेदॊद्गतं वसु
आरण्यकं जगौ देवॊ हरिर नारायणॊ वशी
9 वेदीं कमन्दलुं दर्भान मनि रूपान अथॊपलान
अजिनं दन्द काष्ठं च जवलितं च हुताशनम
धारयाम आस देवेशॊ हस्तैर यज्ञपतिस तदा
10 तं परसन्नं परसन्नात्मा नारदॊ दविजसत्तमः
वाग्यतः परयतॊ भूत्वा ववन्दे परमेश्वरम
तम उवाच नतं मूर्ध्ना देवानाम आदिर अव्ययः
11 एकतश च दवितश चैव तरितश चैव महर्षयः
इमं देशम अनुप्राप्ता मम दर्शनलालसाः
12 न च मां ते ददृशिरे न च दरक्ष्यति कश चन
ऋते हय एकान्तिक शरेष्ठात तवं चैवैकान्तिकॊ मतः
13 ममैतास तनवः शरेष्ठा जाता धर्मगृहे दविज
तास तवं भजस्व सततं साधयस्व यथागतम
14 वृणीष्व च वरं विप्र मत्तस तवं यम इहेच्छसि
परसन्नॊ ऽहं तवाद्येह विश्वमूर्तिर इहाव्ययः
15 [नारद]
अद्य मे तपसॊ देव यमस्य नियमस्य च
सद्यः फलम अवाप्तं वै दृष्टॊ यद भगवान मया
16 वर एष ममात्यन्तं दृष्टस तवं यत सनातनः
भगवान विश्वदृक सिंहः सर्वमूर्तिर महाप्रभुः
17 [भीस्म]
एवं संदर्शयित्वा तु नारदं परमेष्ठिजम
उवाच वचनं भूयॊ गच्छ नारद माचिरम
18 इमे हय अनिन्द्रियाहारा मद्भक्ताश चन्द्र वर्चसः
एकाग्राश चिन्तयेयुर मां नैषां विघ्नॊ भवेद इति
19 सिद्धाश चैते महाभागाः पुरा हय एकान्तिनॊ ऽभवन
तमॊ रजॊ विनिर्मुक्ता मां परवेक्ष्यन्त्य असंशयम
20 न दृश्यश चक्षुषा यॊ ऽसौ न सपृश्यः सपर्शनेन च
न घरेयश चैव गन्धेन रसेन च विवर्जितः
21 सत्त्वं रजस तमश चैव न गुणास तं भजन्ति वै
यश च सर्वगतः साक्षी लॊकस्यात्मेति कथ्यते
22 भूतग्राम शरीरेषु नश्यत्सु न विनश्यति
अजॊ नित्यः शाश्वतश च निर्गुणॊ निष्कलस तथा
23 दविर दवादशेभ्यस तत्त्वेभ्यः खयातॊ यः पञ्चविंशकः
पुरुषॊ निष्क्रियश चैव जञानदृश्यश च कथ्यते
24 यं परविश्य भवन्तीह मुक्ता वै दविजसत्तम
स वासुदेवॊ विज्ञेयः परमात्मा सनातनः
25 पश्य देवस्य माहात्म्यं महिमानं च नारद
शुभाशुभैः कर्मभिर यॊ न लिप्यति कदा चन
26 सत्त्वं रजस तमश चैव गुणान एतान परचक्षते
एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च
27 एतान गुणांस तु कषेत्रज्ञॊ भुङ्क्ते नैभिः स भुज्यते
निर्गुणॊ गुणभुक चैव गुणस्रष्टा गुणाधिकः
28 जगत परतिष्ठा देवर्षे पृथिव्य अप्सु परलीयते
जयॊतिष्य आपः परलीयन्ते जयॊतिर वायौ परलीयते
29 खे वायुः परलयं याति मनस्य आकाशम एव च
मनॊ हि परमं भूतं तद अव्यक्ते परलीयते
30 अव्यक्तं पुरुषे बरह्मन निष्क्रिये संप्रलीयते
नास्ति तस्मात परतरं पुरुषाद वै सनातनात
31 नित्यं हि नास्ति जगति भूतं सथावरजङ्गमम
ऋते तम एकं पुरुषं वासुदेवं सनातनम
सर्वभूतात्मभूतॊ हि वासुदेवॊ महाबलः
32 पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम
ते समेता महात्मानः शरीरम इति संज्ञितम
33 तद आविशति यॊ बरह्मन्न अदृश्यॊ लघुविक्रमः
उत्पन्न एव भवति शरीरं चेष्टयन परभुः
34 न विना धातुसंघातं शरीरं भवति कव चित
न च जीवं विना बरह्मन धातवश चेष्टयन्त्य उत
35 स जीवः परिसंख्यातः शेषः संकर्षणः परभुः
तस्मात सनत्कुमारत्वं यॊ लभेत सवकर्मणा
36 यस्मिंश च सर्वभूतानि परलयं यान्ति संक्षये
स मनः सर्वभूतानां परद्युम्नः परिपथ्यते
37 तस्मात परसूतॊ यः कर्ता कार्यं कारणम एव च
यस्मात सर्वं परभवति जगत सथावरजङ्गमम
सॊ ऽनिरुद्धः स ईशानॊ वयक्तिः सा सर्वकर्मसु
38 यॊ वासुदेवॊ भगवान कषेत्रज्ञॊ निर्गुणात्मकः
जञेयः स एव भगवाञ जीवः संकर्षणः परभुः
39 संकर्षणाच च परद्युम्नॊ मनॊ भूतः स उच्यते
परद्युम्नाद यॊ ऽनिरुद्धस तु सॊ ऽहंकारॊ महेश्वरः
40 मत्तः सर्वं संभवति जगत सथावरजङ्गमम
अक्षरं च कषरं चैव सच चासच चैव नारद
41 मां परविश्य भवन्तीह मुक्ता भक्तास तु ये मम
अहं हि पुरुषॊ जञेयॊ निष्क्रियः पञ्चविंशकः
42 निर्गुणॊ निष्कलश चैव निर्द्वन्द्वॊ निष्परिग्रहः
एतत तवया न विज्ञेयं रूपवान इति दृश्यते
इच्छन मुहूर्तान नश्येयम ईशॊ ऽहं जगतॊ गुरुः
43 माया हय एषा मया सृष्टा यन मां पश्यसि नारद
सर्वभूतगुणैर युक्तं नैवं तवं जञातुम अर्हसि
मयैतत कथितं सम्यक तव मूर्ति चतुष्टयम
44 सिद्धा हय एते महाभागा नरा हय एकान्तिनॊ ऽभवन
तमॊ रजॊ भयां निर्मुक्ताः परवेक्ष्यन्ति च मां मुने
45 अहं कर्ता च कार्यं च कारणं चापि नारद
अहं हि जीव संज्ञॊ वै मयि जीवः समाहितः
मैवं ते बुद्धिर अत्राभूद दृष्टॊ जीवॊ मयेति च
46 अहं सर्वत्रगॊ बरह्मन भूतग्रामान्तर आत्मकः
भूतग्राम शरीरेषु नश्यत्सु न नशाम्य अहम
47 हिरण्यगर्भॊ लॊकादिश चतुर्वक्त्रॊ निरुक्तगः
बरह्मा सनातनॊ देवॊ मम बह्व अर्थचिन्तकः
48 पश्यैकादश मे रुद्रान दक्षिणं पार्श्वम आस्थितान
दवादशैव तथादित्यान वामं पार्श्वं समास्थितान
49 अग्रतश चैव मे पश्य वसून अस्तौ सुरॊत्तमान
नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः
50 सर्वान परजापतीन पश्य पश्य सप्त ऋषीन अपि
वेदान यज्ञांश च शतशः पश्यामृतम अथौषधीः
51 तपांसि नियमांश चैव यमान अपि पृथग्विधान
तथास्त गुणम ऐश्वर्यम एकस्थं पश्य मूर्तिमत
52 शरियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम
वेदानां मातरं पश्य मत सथां देवीं सरस्वतीम
53 धरुवं च जयॊतिषां शरेष्ठं पश्य नारद खेचरम
अम्भॊ धरान समुद्रांश च सरांसि सरितस तथा
54 मूर्तिमन्तः पितृगणांश चतुरः पश्य सत्तम
तरींश चैवेमान गुणान पश्य मत्स्थान मूर्ति विवर्जितान
55 देवकार्याद अपि मुने पितृकार्यं विशिष्यते
देवानां च पितॄणां च पिता हय एकॊ ऽहम आदितः
56 अहं हयशिरॊ भूत्वा समुद्रे पश्चिमॊत्तरे
पिबामि सुहुतं हव्यं कव्यं च शरद्धयान्वितम
57 मया सृष्टः पुरा बरह्मा मद यज्ञम अयजत सवयम
ततस तस्मै वरान परीतॊ ददाव अहम अनुत्तमान
58 मत पुत्रत्वं च कल्पादौ लॊकाध्यक्षत्वम एव च
अहंकारकृतं चैव नाम पर्याय वाचकम
59 तवया कृतां च मर्यादां नातिक्राम्यति कश चन
तवं चैव वरदॊ बरह्मन वरेप्सूनां भविष्यसि
60 सुरासुरगणानां च ऋषीणां च तपॊधन
पितॄणां च महाभाग सततं संशितव्रत
विविधानां च भूतानां तवम उपास्यॊ भविष्यसि
61 परादुर्भावगतश चाहं सुरकार्येषु नित्यदा
अनुशास्यस तवया बरह्मण्णियॊज्यश च सुतॊ यथा
62 एतांश चान्यांश च रुचिरान बरह्मणे ऽमिततेजसे
अहं दत्त्वा वरान परीतॊ निवृत्ति परमॊ ऽभवम
63 निर्वानं सर्वधर्माणां निवृत्तिः परमा समृता
तस्मान निवृत्तिम आपन्नश चरेत सर्वाङ्गनिर्वृतः
64 विद्या सहायवन्तं माम आदित्यस्थं सनातनम
कपिलं पराहुर आचार्याः सांख्यनिश्चित निश्चयाः
65 हिरण्यगर्भॊ भगवान एष छन्दसि सुष्टुतः
सॊ ऽहं यॊगगतिर बरह्मन यॊगशास्त्रेषु शब्दितः
66 एषॊ ऽहं वयक्तिम आगम्य तिष्ठामि दिवि शाश्वतः
ततॊ युगसहस्रान्ते संहरिष्ये जगत पुनः
कृत्वात्म सथानि भूतानि सथावराणि चराणि च
67 एकाकी विद्यया सार्धं विहरिष्ये दविजॊत्तम
ततॊ भूयॊ जगत सर्वं करिष्यामीह विद्यया
68 अस्मन मूर्तिश चतुर्थी या सासृजच छेषम अव्ययम
स हि संकर्षणः परॊक्तः परद्युम्नं सॊ ऽपय अजीजनत
69 परद्युम्नाद अनिरुद्धॊ ऽहं सर्गॊ मम पुनः पुनः
अनिरुद्धात तथा बरह्मा तत्रादि कमलॊद्भवः
70 बरह्मणः सर्वभूतानि चराणि सथावराणि च
एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः
71 यथा सूर्यस्य गगनाद उदयास्त मयाव इह
नस्तौ पुनर बलात काल आनयत्य अमितद्युतिः
तथा बलाद अहं पृथ्वीं सर्वभूतहिताय वै
72 सत्त्वैर आक्रान्त सर्वाङ्गां नस्तां सागरमेखलाम
आनयिष्यामि सवं सथानं वाराहं रूपम आस्थितः
73 हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम
नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः
सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम
74 विरॊचनस्य बलवान बलिः पुत्रॊ महासुरः
भविष्यति स शक्रं च सवराज्याच चयावयिष्यति
75 तरैलॊक्ये ऽपहृते तेन विमुखे च शचीपतौ
अदित्यां दवादशः पुत्रः संभविष्यामि कश्यपात
76 ततॊ राज्यं परदास्यामि शक्रायामित तेजसे
देवताः सथापयिष्यामि सवेषु सथानेषु नारद
बलिं चैव करिष्यामि पातालतलवासिनम
77 तरेतायुगे भविष्यामि रामॊ भृगुकुलॊद्वहः
कषत्रं चॊत्सादयिष्यामि समृद्धबलवाहनम
78 संधौ तु समनुप्राप्ते तरेतायां दवापरस्य च
रामॊ दाशरथिर भूत्वा भविष्यामि जगत्पतिः
79 तरितॊपघाताद वैरूप्यम एकतॊ ऽथ दवितस तथा
पराप्स्यतॊ वारणत्वं हि परजापतिसुताव ऋषी
80 तयॊर ये तव अन्वये जाता भविष्यन्ति वनौकसः
ते सहाया भविष्यन्ति सुरकार्ये मम दविज
81 ततॊ रक्षःपतिं घॊरं पुलस्त्य कुलपांसनम
हनिष्ये रावणं संख्ये सगणं लॊककन्तकम
82 दवापरस्य कलेश चैव संधौ पर्यवसानिके
परादुर्भावः कंस हेतॊर मथुरायां भविष्यति
83 तत्राहं दानवान हत्वा सुबहून देवकन्तकान
कुशस्थलीं करिष्यामि निवासं दवारकां पुरीम
84 वसानस तत्र वै पुर्याम अदितेर विप्रियं करम
हनिष्ये नरकं भौमं मुरं पीथं च दानवम
85 पराग्ज्यॊतिष पुरं रम्यं नाना धनसमन्वितम
कुशस्थलीं नयिष्यामि हत्वा वै दानवॊत्तमान
86 शंकरं च महासेनं बान परियहितैषिणम
पराजेष्याम्य अथॊद्युक्तौ देवलॊकनमस्कृतौ
87 ततः सुतं बलेर जित्वा बानं बाहुसहस्रिणम
विनाशयिष्यामि ततः सर्वान सौभनिवासिनः
88 यः कालयवनः खयातॊ गर्ग तेजॊ ऽभिसंवृतः
भविष्यति वधस तस्य मत्त एव दविजॊत्तम
89 जरासंधश च बलवान सर्वराजविरॊधकः
भविष्यत्य असुरः सफीतॊ भूमिपालॊ गिरिव्रजे
मम बुद्धिपरिस्पन्दाद वधस तस्य भविष्यति
90 समागतेषु बलिषु पृथिव्यां सर्वराजसु
वासविः सुसहायॊ वै मम हय एकॊ भविष्यति
91 एवं लॊका वदिष्यन्ति नरनारायणाव ऋषी
उद्युक्तौ दहतः कषत्रं लॊककार्यार्थम ईश्वरौ
92 कृत्वा भावावतरणं वसुधाया यथेप्सितम
सर्वसात्वत मुख्यानां दवारकायाश च सत्तम
करिष्ये परलयं घॊरम आत्मज्ञाति विनाशनम
93 कर्माण्य अपरिमेयानि चतुर्मूर्ति धरॊ हय अहम
कृत्वा लॊकान गमिष्यामि सवान अहं बरह्म सत्कृतान
94 हंसॊ हयशिराश चैव परादुर्भावा दविजॊत्तम
यदा वेदश्रुतिर नस्ता मया परत्याहृता तदा
सवेदाः सश्रुतीकाश च कृताः पूर्वं कृते युगे
95 अतिक्रान्ताः पुराणेषु शरुतास ते यदि वा कव चित
अतिक्रान्ताश च बहवः परादुर्भावा ममॊत्तमाः
लॊककार्याणि कृत्वा च पुनः सवां परकृतिं गताः
96 न हय एतद बरह्मणा पराप्तम ईदृशं मम दर्शनम
यत तवया पराप्तम अद्येह एकान्तगतबुद्धिना
97 एतत ते सर्वम आख्यातं बरह्मन भक्तिमतॊ मया
पुराणं च भविष्यं च सरहस्यं च सत्तम
98 एवं स भगवान देवॊ विश्वमूर्ति धरॊ ऽवययः
एतावद उक्त्वा वचनं तत्रैवान्तरधीयत
99 नारदॊ ऽपि महातेजाः पराप्यानुग्रहम ईप्सितम
नरनारायणौ दरष्टुं पराद्रवद बदराश्रमम
100 इदं महॊपनिषदं चतुर्वेद समन्वितम
सांख्ययॊगकृतं तेन पञ्चरात्रानुशब्दितम
101 नारायण मुखॊद्गीतं नारदॊ ऽशरावयत पुनः
बरह्मणः सदने तात यथादृष्टं यथा शरुतम
102 [युधिस्थिर]
एतद आश्चर्यभूतं हि माहात्म्यं तस्य धीमतः
किं बरह्मा न विजानीते यतः शुश्राव नारदात
103 पितामहॊ हि भगवांस तस्माद देवाद अनन्तरः
कथं स न विजानीयात परभावम अमितौजसः
104 [भीस्म]
महाकल्पसहस्राणि महाकल्पशतानि च
समतीतानि राजेन्द्र सर्गाश च परलयाश च ह
105 सर्गस्यादौ समृतॊ बरह्मा परजा सर्ग करः परभुः
जानाति देवप्रवरं भूयश चातॊ ऽधिकं नृप
परमात्मानम ईशानम आत्मनः परभवं तथा
106 ये तव अन्ये बरह्म सदने सिद्धसंघाः समागताः
तेभ्यस तच छरावयाम आस पुराणं वेद संमितम
107 तेषां सकाशात सूर्यश च शरुत्वा वै भावितात्मनाम
आत्मानुगामिनां बरह्म शरावयाम आस भारत
108 षट षष्टिर हि सहस्राणि ऋषीणां भावितात्मनाम
सूर्यस्य तपतॊ लॊकान निर्मिता ये पुरःसराः
तेषाम अकथयत सूर्यः सर्वेषां भावितात्मनाम
109 सूर्यानुगामिभिस तात ऋषिभिस तैर महात्मभिः
मेरौ समागता देवाः शराविताश चेदम उत्तमम
110 देवानां तु सकाशाद वै ततः शरुत्वासितॊ दविजः
शरावयाम आस राजेन्द्र पितॄणां मुनिसत्तमः
111 मम चापि पिता तात कथयाम आस शंतनुः
ततॊ मयैतच छरुत्वा च कीर्तितं तव भारत
112 सुरैर वा मुनिभिर वापि पुराणं यैर इदं शरुतम
सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः
113 इदम आख्यानम आर्षेयं पारम्पर्यागतं नृप
नावासुदेव भक्ताय तवया देयं कथं चन
114 मत्तॊ ऽनयानि च ते राजन्न उपाख्यान शतानि वै
यानि शरुतानि धर्म्याणि तेषां सारॊ ऽयम उद्धृतः
115 सुरासुरैर यथा राजन निर्मथ्यामृतम उद्धृतम
एवम एतत पुरा विप्रैः कथामृतम इहॊद्धृतम
116 यश चेदं पथते नित्यं यश चेदं शृणुयान नरः
एकान्तभावॊपगत एकान्ते सुसमाहितः
117 पराप्य शवेतं महाद्वीपं भूत्वा चन्द्रप्रभॊ नरः
स सहस्रार्चिषं देवं परविशेन नात्र संशयः
118 मुच्येतार्तस तथा रॊगाच छरुत्वेमाम आदितः कथाम
जिज्ञासुर लभते कामान भक्तॊ भक्त गतिं वरजेत
119 तवयापि सततं राजन्न अभ्यर्च्यः पुरुषॊत्तमः
स हि माता पिता चैव कृत्स्नस्य जगतॊ गुरुः
120 बरह्मण्य देवॊ भगवान परीयतां ते सनातनः
युधिष्ठिर महाबाहॊ महाबाहुर जनार्दनः
121 [वैषम्पायन]
शरुत्वैतद आख्यान वरं धर्मराज जनमेजय
भरातरश चास्य ते सर्वे नारायण पराभवन
122 जितं भगवता तेन पुरुषेणेति भारत
नित्यं जप्यपरा भूत्वा सरस्वतीम उदीरयन
123 यॊ हय अस्माकं गुरुः शरेष्ठः कृष्ण दवैपयनॊ मुनिः
स जगौ परमं जप्यं नारायणम उदीरयन
124 गत्वान्तरिक्षात सततं कषीरॊदम अमृताशयम
पूजयित्वा च देवेशं पुनर आयात सवम आश्रमम
1 [bhīsma]
evaṃ stutaḥ sa bhagavān guhyais tathyaiś ca nāmabhiḥ
taṃ muniṃ darśayām āsa nāradaṃ viśvarūpadhṛk
2 kiṃ cic candra viśuddhātmā kiṃ cic candrād viśeṣavān
kṛśānu varṇaḥ kiṃ cic ca kiṃ cid dhiṣnyākṛtiḥ prabhuḥ
3 śukapatravarṇaḥ kiṃ cic ca kiṃ cit sphatika saprabhaḥ
nīlāñjanacaya prakhyo jātarūpaprabhaḥ kva cit
4 pravālāṅkura varṇaś ca śvetavarṇaḥ kva cid babhau
kva cit suvarṇavarṇābho vaidūryasadṛśaḥ kva cit
5 nīlavaidūrya sadṛśa indranīlanibhaḥ kva cit
mayūragrīva varṇābho muktāhāra nibhaḥ kva cit
6 etān varṇān bahuvidhān rūpe bibhrat sanātanaḥ
sahasranayanaḥ śrīmāñ śataśīrṣaḥ sahasrapāt
7 sahasrodara bāhuś ca avyakta iti ca kva cit
oṃkāram udgiran vaktrāt sāvitrīṃ ca tad anvayām
8 śeṣebhyaś caiva vaktrebhyaś caturvedodgataṃ vasu
āraṇyakaṃ jagau devo harir nārāyaṇo vaśī
9 vedīṃ kamandaluṃ darbhān mani rūpān athopalān
ajinaṃ danda kāṣṭhaṃ ca jvalitaṃ ca hutāśanam
dhārayām āsa deveśo hastair yajñapatis tadā
10 taṃ prasannaṃ prasannātmā nārado dvijasattamaḥ
vāgyataḥ prayato bhūtvā vavande parameśvaram
tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ
11 ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ
imaṃ deśam anuprāptā mama darśanalālasāḥ
12 na ca māṃ te dadṛśire na ca drakṣyati kaś cana
ṛte hy ekāntika śreṣṭhāt tvaṃ caivaikāntiko mataḥ
13 mamaitās tanavaḥ śreṣṭhā jātā dharmagṛhe dvija
tās tvaṃ bhajasva satataṃ sādhayasva yathāgatam
14 vṛṇīṣva ca varaṃ vipra mattas tvaṃ yam ihecchasi
prasanno 'haṃ tavādyeha viśvamūrtir ihāvyayaḥ
15 [nārada]
adya me tapaso deva yamasya niyamasya ca
sadyaḥ phalam avāptaṃ vai dṛṣṭo yad bhagavān mayā
16 vara eṣa mamātyantaṃ dṛṣṭas tvaṃ yat sanātanaḥ
bhagavān viśvadṛk siṃhaḥ sarvamūrtir mahāprabhuḥ
17 [bhīsma]
evaṃ saṃdarśayitvā tu nāradaṃ parameṣṭhijam
uvāca vacanaṃ bhūyo gaccha nārada māciram
18 ime hy anindriyāhārā madbhaktāś candra varcasaḥ
ekāgrāś cintayeyur māṃ naiṣāṃ vighno bhaved iti
19 siddhāś caite mahābhāgāḥ purā hy ekāntino 'bhavan
tamo rajo vinirmuktā māṃ pravekṣyanty asaṃśayam
20 na dṛśyaś cakṣuṣā yo 'sau na spṛśyaḥ sparśanena ca
na ghreyaś caiva gandhena rasena ca vivarjitaḥ
21 sattvaṃ rajas tamaś caiva na guṇās taṃ bhajanti vai
yaś ca sarvagataḥ sākṣī lokasyātmeti kathyate
22 bhūtagrāma śarīreṣu naśyatsu na vinaśyati
ajo nityaḥ śāśvataś ca nirguṇo niṣkalas tathā
23 dvir dvādaśebhyas tattvebhyaḥ khyāto yaḥ pañcaviṃśakaḥ
puruṣo niṣkriyaś caiva jñānadṛśyaś ca kathyate
24 yaṃ praviśya bhavantīha muktā vai dvijasattama
sa vāsudevo vijñeyaḥ paramātmā sanātanaḥ
25 paśya devasya māhātmyaṃ mahimānaṃ ca nārada
śubhāśubhaiḥ karmabhir yo na lipyati kadā cana
26 sattvaṃ rajas tamaś caiva guṇān etān pracakṣate
ete sarvaśarīreṣu tiṣṭhanti vicaranti ca
27 etān guṇāṃs tu kṣetrajño bhuṅkte naibhiḥ sa bhujyate
nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ
28 jagat pratiṣṭhā devarṣe pṛthivy apsu pralīyate
jyotiṣy āpaḥ pralīyante jyotir vāyau pralīyate
29 khe vāyuḥ pralayaṃ yāti manasy ākāśam eva ca
mano hi paramaṃ bhūtaṃ tad avyakte pralīyate
30 avyaktaṃ puruṣe brahman niṣkriye saṃpralīyate
nāsti tasmāt parataraṃ puruṣād vai sanātanāt
31 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam
ṛte tam ekaṃ puruṣaṃ vāsudevaṃ sanātanam
sarvabhūtātmabhūto hi vāsudevo mahābalaḥ
32 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
te sametā mahātmānaḥ śarīram iti saṃjñitam
33 tad āviśati yo brahmann adṛśyo laghuvikramaḥ
utpanna eva bhavati śarīraṃ ceṣṭayan prabhuḥ
34 na vinā dhātusaṃghātaṃ śarīraṃ bhavati kva cit
na ca jīvaṃ vinā brahman dhātavaś ceṣṭayanty uta
35 sa jīvaḥ parisaṃkhyātaḥ śeṣaḥ saṃkarṣaṇaḥ prabhuḥ
tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā
36 yasmiṃś ca sarvabhūtāni pralayaṃ yānti saṃkṣaye
sa manaḥ sarvabhūtānāṃ pradyumnaḥ paripathyate
37 tasmāt prasūto yaḥ kartā kāryaṃ kāraṇam eva ca
yasmāt sarvaṃ prabhavati jagat sthāvarajaṅgamam
so 'niruddhaḥ sa īśāno vyaktiḥ sā sarvakarmasu
38 yo vāsudevo bhagavān kṣetrajño nirguṇātmakaḥ
jñeyaḥ sa eva bhagavāñ jīvaḥ saṃkarṣaṇaḥ prabhuḥ
39 saṃkarṣaṇāc ca pradyumno mano bhūtaḥ sa ucyate
pradyumnād yo 'niruddhas tu so 'haṃkāro maheśvaraḥ
40 mattaḥ sarvaṃ saṃbhavati jagat sthāvarajaṅgamam
akṣaraṃ ca kṣaraṃ caiva sac cāsac caiva nārada
41 māṃ praviśya bhavantīha muktā bhaktās tu ye mama
ahaṃ hi puruṣo jñeyo niṣkriyaḥ pañcaviṃśakaḥ
42 nirguṇo niṣkalaś caiva nirdvandvo niṣparigrahaḥ
etat tvayā na vijñeyaṃ rūpavān iti dṛśyate
icchan muhūrtān naśyeyam īśo 'haṃ jagato guruḥ
43 māyā hy eṣā mayā sṛṣṭā yan māṃ paśyasi nārada
sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi
mayaitat kathitaṃ samyak tava mūrti catuṣṭayam
44 siddhā hy ete mahābhāgā narā hy ekāntino 'bhavan
tamo rajo bhyāṃ nirmuktāḥ pravekṣyanti ca māṃ mune
45 ahaṃ kartā ca kāryaṃ ca kāraṇaṃ cāpi nārada
ahaṃ hi jīva saṃjño vai mayi jīvaḥ samāhitaḥ
maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca
46 ahaṃ sarvatrago brahman bhūtagrāmāntar ātmakaḥ
bhūtagrāma śarīreṣu naśyatsu na naśāmy aham
47 hiraṇyagarbho lokādiś caturvaktro niruktagaḥ
brahmā sanātano devo mama bahv arthacintakaḥ
48 paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān
dvādaśaiva tathādityān vāmaṃ pārśvaṃ samāsthitān
49 agrataś caiva me paśya vasūn astau surottamān
nāsatyaṃ caiva dasraṃ ca bhiṣajau paśya pṛṣṭhataḥ
50 sarvān prajāpatīn paśya paśya sapta ṛṣīn api
vedān yajñāṃś ca śataśaḥ paśyāmṛtam athauṣadhīḥ
51 tapāṃsi niyamāṃś caiva yamān api pṛthagvidhān
tathāsta guṇam aiśvaryam ekasthaṃ paśya mūrtimat
52 śriyaṃ lakṣmīṃ ca kīrtiṃ ca pṛthivīṃ ca kakudminīm
vedānāṃ mātaraṃ paśya mat sthāṃ devīṃ sarasvatīm
53 dhruvaṃ ca jyotiṣāṃ śreṣṭhaṃ paśya nārada khecaram
ambho dharān samudrāṃś ca sarāṃsi saritas tathā
54 mūrtimantaḥ pitṛgaṇāṃś caturaḥ paśya sattama
trīṃś caivemān guṇān paśya matsthān mūrti vivarjitān
55 devakāryād api mune pitṛkāryaṃ viśiṣyate
devānāṃ ca pitṝṇāṃ ca pitā hy eko 'ham āditaḥ
56 ahaṃ hayaśiro bhūtvā samudre paścimottare
pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam
57 mayā sṛṣṭaḥ purā brahmā mad yajñam ayajat svayam
tatas tasmai varān prīto dadāv aham anuttamān
58 mat putratvaṃ ca kalpādau lokādhyakṣatvam eva ca
ahaṃkārakṛtaṃ caiva nāma paryāya vācakam
59 tvayā kṛtāṃ ca maryādāṃ nātikrāmyati kaś cana
tvaṃ caiva varado brahman varepsūnāṃ bhaviṣyasi
60 surāsuragaṇānāṃ ca ṛṣīṇāṃ ca tapodhana
pitṝṇāṃ ca mahābhāga satataṃ saṃśitavrata
vividhānāṃ ca bhūtānāṃ tvam upāsyo bhaviṣyasi
61 prādurbhāvagataś cāhaṃ surakāryeṣu nityadā
anuśāsyas tvayā brahmaṇṇiyojyaś ca suto yathā
62 etāṃś cānyāṃś ca rucirān brahmaṇe 'mitatejase
ahaṃ dattvā varān prīto nivṛtti paramo 'bhavam
63 nirvānaṃ sarvadharmāṇāṃ nivṛttiḥ paramā smṛtā
tasmān nivṛttim āpannaś caret sarvāṅganirvṛtaḥ
64 vidyā sahāyavantaṃ mām ādityasthaṃ sanātanam
kapilaṃ prāhur ācāryāḥ sāṃkhyaniścita niścayāḥ
65 hiraṇyagarbho bhagavān eṣa chandasi suṣṭutaḥ
so 'haṃ yogagatir brahman yogaśāstreṣu śabditaḥ
66 eṣo 'haṃ vyaktim āgamya tiṣṭhāmi divi śāśvataḥ
tato yugasahasrānte saṃhariṣye jagat punaḥ
kṛtvātma sthāni bhūtāni sthāvarāṇi carāṇi ca
67 ekākī vidyayā sārdhaṃ vihariṣye dvijottama
tato bhūyo jagat sarvaṃ kariṣyāmīha vidyayā
68 asman mūrtiś caturthī yā sāsṛjac cheṣam avyayam
sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'py ajījanat
69 pradyumnād aniruddho 'haṃ sargo mama punaḥ punaḥ
aniruddhāt tathā brahmā tatrādi kamalodbhavaḥ
70 brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca
etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ punaḥ
71 yathā sūryasya gaganād udayāsta mayāv iha
nastau punar balāt kāla ānayaty amitadyutiḥ
tathā balād ahaṃ pṛthvīṃ sarvabhūtahitāya vai
72 sattvair ākrānta sarvāṅgāṃ nastāṃ sāgaramekhalām
ānayiṣyāmi svaṃ sthānaṃ vārāhaṃ rūpam āsthitaḥ
73 hiraṇyākṣaṃ haniṣyāmi daiteyaṃ balagarvitam
nārasiṃhaṃ vapuḥ kṛtvā hiraṇyakaśipuṃ punaḥ
surakārye haniṣyāmi yajñaghnaṃ ditinandanam
74 virocanasya balavān baliḥ putro mahāsuraḥ
bhaviṣyati sa śakraṃ ca svarājyāc cyāvayiṣyati
75 trailokye 'pahṛte tena vimukhe ca śacīpatau
adityāṃ dvādaśaḥ putraḥ saṃbhaviṣyāmi kaśyapāt
76 tato rājyaṃ pradāsyāmi śakrāyāmita tejase
devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada
baliṃ caiva kariṣyāmi pātālatalavāsinam
77 tretāyuge bhaviṣyāmi rāmo bhṛgukulodvahaḥ
kṣatraṃ cotsādayiṣyāmi samṛddhabalavāhanam
78 saṃdhau tu samanuprāpte tretāyāṃ dvāparasya ca
rāmo dāśarathir bhūtvā bhaviṣyāmi jagatpatiḥ
79 tritopaghātād vairūpyam ekato 'tha dvitas tathā
prāpsyato vāraṇatvaṃ hi prajāpatisutāv ṛṣī
80 tayor ye tv anvaye jātā bhaviṣyanti vanaukasaḥ
te sahāyā bhaviṣyanti surakārye mama dvija
81 tato rakṣaḥpatiṃ ghoraṃ pulastya kulapāṃsanam
haniṣye rāvaṇaṃ saṃkhye sagaṇaṃ lokakantakam
82 dvāparasya kaleś caiva saṃdhau paryavasānike
prādurbhāvaḥ kaṃsa hetor mathurāyāṃ bhaviṣyati
83 tatrāhaṃ dānavān hatvā subahūn devakantakān
kuśasthalīṃ kariṣyāmi nivāsaṃ dvārakāṃ purīm
84 vasānas tatra vai puryām aditer vipriyaṃ karam
haniṣye narakaṃ bhaumaṃ muraṃ pīthaṃ ca dānavam
85 prāgjyotiṣa puraṃ ramyaṃ nānā dhanasamanvitam
kuśasthalīṃ nayiṣyāmi hatvā vai dānavottamān
86 śaṃkaraṃ ca mahāsenaṃ bāna priyahitaiṣiṇam
parājeṣyāmy athodyuktau devalokanamaskṛtau
87 tataḥ sutaṃ baler jitvā bānaṃ bāhusahasriṇam
vināśayiṣyāmi tataḥ sarvān saubhanivāsinaḥ
88 yaḥ kālayavanaḥ khyāto garga tejo 'bhisaṃvṛtaḥ
bhaviṣyati vadhas tasya matta eva dvijottama
89 jarāsaṃdhaś ca balavān sarvarājavirodhakaḥ
bhaviṣyaty asuraḥ sphīto bhūmipālo girivraje
mama buddhiparispandād vadhas tasya bhaviṣyati
90 samāgateṣu baliṣu pṛthivyāṃ sarvarājasu
vāsaviḥ susahāyo vai mama hy eko bhaviṣyati
91 evaṃ lokā vadiṣyanti naranārāyaṇāv ṛṣī
udyuktau dahataḥ kṣatraṃ lokakāryārtham īśvarau
92 kṛtvā bhāvāvataraṇaṃ vasudhāyā yathepsitam
sarvasātvata mukhyānāṃ dvārakāyāś ca sattama
kariṣye pralayaṃ ghoram ātmajñāti vināśanam
93 karmāṇy aparimeyāni caturmūrti dharo hy aham
kṛtvā lokān gamiṣyāmi svān ahaṃ brahma satkṛtān
94 haṃso hayaśirāś caiva prādurbhāvā dvijottama
yadā vedaśrutir nastā mayā pratyāhṛtā tadā
savedāḥ saśrutīkāś ca kṛtāḥ pūrvaṃ kṛte yuge
95 atikrāntāḥ purāṇeṣu śrutās te yadi vā kva cit
atikrāntāś ca bahavaḥ prādurbhāvā mamottamāḥ
lokakāryāṇi kṛtvā ca punaḥ svāṃ prakṛtiṃ gatāḥ
96 na hy etad brahmaṇā prāptam īdṛśaṃ mama darśanam
yat tvayā prāptam adyeha ekāntagatabuddhinā
97 etat te sarvam ākhyātaṃ brahman bhaktimato mayā
purāṇaṃ ca bhaviṣyaṃ ca sarahasyaṃ ca sattama
98 evaṃ sa bhagavān devo viśvamūrti dharo 'vyayaḥ
etāvad uktvā vacanaṃ tatraivāntaradhīyata
99 nārado 'pi mahātejāḥ prāpyānugraham īpsitam
naranārāyaṇau draṣṭuṃ prādravad badarāśramam
100 idaṃ mahopaniṣadaṃ caturveda samanvitam
sāṃkhyayogakṛtaṃ tena pañcarātrānuśabditam
101 nārāyaṇa mukhodgītaṃ nārado 'śrāvayat punaḥ
brahmaṇaḥ sadane tāta yathādṛṣṭaṃ yathā śrutam
102 [yudhisthira]
etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ
kiṃ brahmā na vijānīte yataḥ śuśrāva nāradāt
103 pitāmaho hi bhagavāṃs tasmād devād anantaraḥ
kathaṃ sa na vijānīyāt prabhāvam amitaujasaḥ
104 [bhīsma]
mahākalpasahasrāṇi mahākalpaśatāni ca
samatītāni rājendra sargāś ca pralayāś ca ha
105 sargasyādau smṛto brahmā prajā sarga karaḥ prabhuḥ
jānāti devapravaraṃ bhūyaś cāto 'dhikaṃ nṛpa
paramātmānam īśānam ātmanaḥ prabhavaṃ tathā
106 ye tv anye brahma sadane siddhasaṃghāḥ samāgatāḥ
tebhyas tac chrāvayām āsa purāṇaṃ veda saṃmitam
107 teṣāṃ sakāśāt sūryaś ca śrutvā vai bhāvitātmanām
ātmānugāmināṃ brahma śrāvayām āsa bhārata
108 ṣaṭ ṣaṣṭir hi sahasrāṇi ṛṣīṇāṃ bhāvitātmanām
sūryasya tapato lokān nirmitā ye puraḥsarāḥ
teṣām akathayat sūryaḥ sarveṣāṃ bhāvitātmanām
109 sūryānugāmibhis tāta ṛṣibhis tair mahātmabhiḥ
merau samāgatā devāḥ śrāvitāś cedam uttamam
110 devānāṃ tu sakāśād vai tataḥ śrutvāsito dvijaḥ
śrāvayām āsa rājendra pitṝṇāṃ munisattamaḥ
111 mama cāpi pitā tāta kathayām āsa śaṃtanuḥ
tato mayaitac chrutvā ca kīrtitaṃ tava bhārata
112 surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam
sarve te paramātmānaṃ pūjayanti punaḥ punaḥ
113 idam ākhyānam ārṣeyaṃ pāramparyāgataṃ nṛpa
nāvāsudeva bhaktāya tvayā deyaṃ kathaṃ cana
114 matto 'nyāni ca te rājann upākhyāna śatāni vai
yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛtaḥ
115 surāsurair yathā rājan nirmathyāmṛtam uddhṛtam
evam etat purā vipraiḥ kathāmṛtam ihoddhṛtam
116 yaś cedaṃ pathate nityaṃ yaś cedaṃ śṛṇuyān naraḥ
ekāntabhāvopagata ekānte susamāhitaḥ
117 prāpya śvetaṃ mahādvīpaṃ bhūtvā candraprabho naraḥ
sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśayaḥ
118 mucyetārtas tathā rogāc chrutvemām āditaḥ kathām
jijñāsur labhate kāmān bhakto bhakta gatiṃ vrajet
119 tvayāpi satataṃ rājann abhyarcyaḥ puruṣottamaḥ
sa hi mātā pitā caiva kṛtsnasya jagato guruḥ
120 brahmaṇya devo bhagavān prīyatāṃ te sanātanaḥ
yudhiṣṭhira mahābāho mahābāhur janārdanaḥ
121 [vaiṣampāyana]
śrutvaitad ākhyāna varaṃ dharmarāj janamejaya
bhrātaraś cāsya te sarve nārāyaṇa parābhavan
122 jitaṃ bhagavatā tena puruṣeṇeti bhārata
nityaṃ japyaparā bhūtvā sarasvatīm udīrayan
123 yo hy asmākaṃ guruḥ śreṣṭhaḥ kṛṣṇa dvaipayano muniḥ
sa jagau paramaṃ japyaṃ nārāyaṇam udīrayan
124 gatvāntarikṣāt satataṃ kṣīrodam amṛtāśayam
pūjayitvā ca deveśaṃ punar āyāt svam āśramam

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1666 of 2013 Book 83% ~15 min left