Book 12: Chapter 306
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 12: Chapter 306

The Mahabharata in Sanskrit

Book 12
Chapter 306

1 [या]
अव्यक्तस्थं परं यत तत पृष्टस ते ऽहं नराधिप
परं गुह्यम इमं परश्नं शृणुष्वावहितॊ नृप
2 यथार्षेणेह विधिना चरतावमतेन ह
मयादित्याद अवाप्तानि यजूंसि मिथिलाधिप
3 महता तपसा देवस तपिष्ठः सेवितॊ मया
परीतेन चाहं विभुना सूर्येणॊक्तस तदानघ
4 वरं वृणीष्व विप्रर्षे यद इष्टं ते सुदुर्लभम
तत ते दास्यामि परीतात्मा मत्प्रसादॊ हि दुर्लभः
5 ततः परनम्य शिरसा मयॊक्तस तपतां वरः
यजूंसि नॊपयुक्तानि कषिप्रम इच्छामि वेदितुम
6 ततॊ मां भगवान आह वितरिष्यामि ते दविज
सरस्वतीह वाग भूता शरीरं ते परवेक्ष्यति
7 ततॊ माम आह भगवान आस्यं सवं विवृतं कुरु
विवृतं च ततॊ मे ऽऽसयं परविष्टा च सरस्वती
8 ततॊ विदह्यमानॊ ऽहं परविष्टॊ ऽमभस तदानघ
अविज्ञानाद अमर्षाच च भास्करस्य महात्मनः
9 ततॊ विदह्यमानं माम उवाच भगवान रविः
मुहूर्तं सह्यतां दाहस ततः शीती भविष्यति
10 शीती भूतं च मां दृष्ट्वा भगवान आह भास्करः
परतिष्ठास्यति ते वेदः सॊत्तरः सखिलॊ दविज
11 कृत्स्नं शतपथं चैव परणेष्यसि दविजर्षभ
तस्यान्ते चापुनर्भावे बुद्धिस तव भविष्यति
12 पराप्स्यसे च यद इष्टं तत सांक्य यॊगेप्सितं पदम
एतावद उक्त्वा भगवान अस्तम एवाभ्यवर्तत
13 ततॊ ऽनुव्याहृतं शरुत्वा गते देवे विभावसौ
गृहम आगत्य संहृष्टॊ ऽचिन्तयं वै सरस्वतीम
14 ततः परवृत्तातिशुभा सवरव्यञ्जन भूषिता
ओंकारम आदितः कृत्वा मम देवी सरस्वती
15 ततॊ ऽहम अर्घ्यं विधिवत सरस्वत्यै नयवेदयम
तपतां च वरिष्ठाय निषण्णस तत्परायनः
16 ततः शतपथं कृत्स्नं सहरस्य ससंग्रहम
चक्रे सपरिशेषं च हर्षेण परमेण ह
17 कृत्वा चाध्ययनं तेषां शिष्याणां शतम उत्तमम
विप्रियार्थं सशिष्यस्य मातुलल्स्य महात्मनः
18 ततः सशिष्येण मया सूर्येणेव गभस्तिभिः
वयाप्तॊ यज्ञॊ महाराज पितुस तव महात्मनः
19 मिषतॊ देवलस्यापि ततॊ ऽरधं हृतवान अहम
सववेद दक्षिणायाथ विमर्दे मातुलेन ह
20 सुमन्तु नाथ पैलेन तथ जैमिनिना च वै
पित्रा ते मुनिभिश चैव ततॊ ऽहम अनुमानितः
21 दश पञ्च च पराप्तानि यजूंस्य अर्कान मयानघ
तथैव लॊमहर्षाच च पुराणम अवधारितम
22 बीजम एतत पुरस्कृत्य देवीं चैव सरस्वतीम
सूर्यस्य चानुभावेन परवृत्तॊ ऽहं नराधिप
23 कर्तुं शतपथं वेदम अपूर्वं कारितं च मे
यथाभिलसितं मार्थं तथा तच चॊपपादितम
24 शिष्याणाम अखिलं कृत्स्नम अनुज्ञातं ससंग्रहम
सर्वे च शिष्याः शुचयॊ गताः परमहर्षिताः
25 शाखाः पञ्चदशेमास तु विद्या भास्करदर्शिताः
परतिष्ठाप्य यथाकामं वेद्यं तद अनुचिन्तयम
26 किम अत्र बरह्मण्यम ऋतं किं च वेद्यम अनुत्तमम
चिन्तये तत्र चागत्य गन्धर्वॊ माम अपृच्छत
27 विश्वावसुस ततॊ राजन वेदान्तज्ञानकॊविदः
चतुर्विंशतिकान परश्नान पृष्ट्वा वेदस्य पार्थिव
पञ्चविंशतिमं परश्नं पप्रच्छान्विक्षिकीं तथा
28 विश्वा विश्वं तथाश्वाश्वं मित्रं वरुणम एव च
जञानं जञेयं तथाज्ञॊ ऽजञः कस तपा अपता तथा
सूर्यादः सूर्य इति च विद्याविद्ये तथैव च
29 वेद्यावेद्यं तथा राजन्न अचलं चलम एव च
अपूर्वम अक्षयं कषय्यम एतत परश्नम अनुत्तमम
30 अथॊक्तश च मया राजन राजा गन्धर्वसत्तमः
पृष्टवान अनुपूर्वेण परश्नम उत्तमम अर्थवत
31 मुहूर्तं मृष्यतां तावद यावद एनं विचिन्तये
बाधम इत्य एव कृत्वा स तूस्नीं गन्धर्व आस्थितः
32 ततॊ ऽनवचिन्तयम अहं भूयॊ देवीं सरस्वतीम
मनसा स च मे परश्नॊ दध्नॊ घृतम इवॊद्धृतम
33 तत्रॊपनिषदं चैव परिशेषं च पार्थिव
मघ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम
34 चतुर्थी राजशार्दूल विद्यैषा साम्परायिकी
उदीरिता मया तुभ्यं पञ्चविंशे ऽधि धिष्ठिता
35 अथॊतस तु मया राजन राजा विश्वावसुस तदा
शरूयतां यद भवान अस्मान परश्नं संपृष्टवान इह
36 विश्वा विश्वेति यद इदं गन्धर्वेन्द्रानुपृच्छसि
विश्वाव्यक्तं परं विद्याद भूतभव्य भयंकरम
37 तरिगुणं गुणकर्तृत्वाद अशिश्वॊ निष्कलस तथा
अश्वस तथैव मिथुनम एवम एवानुदृश्यते
38 अव्यक्तं परकृतिं पराहुः पुरुषेति च निर्गुणम
तथैव मित्रं पुरुषं वरुणं परकृतिं तथा
39 जञानं तु परकृतिं पराहुर जञेयं निष्कलम एव च
अज्ञश च जञश च पुरुषस तस्मान निष्कल उच्यते
40 कस तपा अतपाः परॊक्ताः कॊ ऽसौ पुरुष उच्यते
तपाः परकृतिर इत्य आहुर अतपा निष्कलः समृतः
41 तथैवावेद्यम अव्यक्तं वेधः पुरुष उच्यते
चलाचलम इति परॊक्तं तवया तद अपि मे शृणु
42 चलां तु परकृतिं पराहुः कारणं कषेप सर्गयॊः
अक्षेप सर्गयॊः कर्ता निश्चलः पुरुषः समृतः
43 अजाव उभाव अप्रजनुचाक्षयौ चाप्य उभाव अपि
अजौनित्याव उभौ पराहुर अध्यात्मगतिनिश्चयाः
44 अक्षयत्वात परजनने अजम अत्राहुर अव्ययम
अक्षयं पुरुषं पराहुः कषयॊ हय अस्य न विद्यते
45 गुणक्षयत्वात परकृतिः कर्तृत्वाद अक्षयं बुधाः
एषा ते ऽऽनवीक्षिकी विद्या चतुर्थी साम्परायिकी
46 विद्यॊपेतं धनं कृत्वा कर्मणा नित्यकर्मणि
एकान्तदर्शना वेदाः सर्वे विश्वावसॊ समृताः
47 जायन्ते च मरियन्ते च यस्मिन्न एते यतश चयुताः
वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम
48 साङ्गॊपाङ्गान अपि यदि पञ्च वेदान अधीयते
वेद वेद्यं न जानीते वेद भारवहॊ हि सः
49 यॊ घृतार्थी खरी कषीरं मथेद गन्धर्वसत्तम
विष्ठां तत्रानुपश्येत न मन्दं नापि वा घृतम
50 तथा वेद्यम अवेद्यं च वेद विद्यॊ न विन्दति
स केवलं मूढ मतिर जञानभार वहः समृतः
51 दरष्टव्यौ नित्यम एवैतौ तत्परेणान्तर आत्मना
यथास्य जन्म निधने न भवेतां पुनः पुनः
52 अजस्रं जन्म निधनं चिन्तयित्वा तरयीम इमाम
परित्यज्य कषयम इह अक्षयं धर्मम आस्थितः
53 यदा तु पश्यते ऽतयन्तम अहन्य अहनि काश्यप
तदा स केवली भूतः सद्विंसम अनुपश्यति
54 अन्यश च शश्वद अव्यक्तस तथान्यः पञ्चविंशकः
तस्य दवाव अनुपश्येत तम एकम इति साधवः
55 तेनैतन नाभिजानन्ति पञ्चविंशकम अच्युतम
जन्ममृत्युभयाद यॊगाः सांख्याश च परमैषिणः
56 [विष्वावसु]
पञ्चविंशं यद एतत ते परॊक्तं बराह्मणसत्तम
तथा तन न तथा वेति तद भवान वक्तुम अर्हति
57 जैगीसव्यस्यासितस्य देवलस्य च मे शरुतम
पराशरस्य विप्रर्षेर वार्षगण्यस्य धीमतः
58 भिक्षॊः पञ्चशिखस्याथ कपिलस्य शुकस्य च
गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः
59 नारदस्यासुरेश चैव पुलस्त्यस्य च धीमतः
सनत्कुमारस्य ततः शुक्रस्य च महात्मनः
60 कश्यपस्य पितुश चैव पूर्वम एव मया शरुतम
तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः
61 दैवतेभ्यः पितृभ्यश च दैत्येभ्यश च ततस ततः
पराप्तम एतन मया कृत्स्नं वेद्यं नित्यं वदन्त्य उत
62 तस्मात तद वै भवद बुद्ध्या शरॊतुम इच्छामि बराह्मण
भवान परवर्हः शास्त्राणां परगल्भश चातिबुद्धिमान
63 न तवाविदितं किं चिद भवाञ शरुतिनिधिः समृतः
कथ्यते देवलॊके च पितृलॊके च बराह्मण
64 बरह्मलॊकगताश चैव कथयन्ति महर्षयः
पतिश च तपतां शश्वद आदित्यस तव भासते
65 सांख्यज्ञानं तवया बरह्मन्न अवाप्तं कृत्स्नम एव च
तथैव यॊगज्ञानं च याज्ञवल्क्य विशेषतः
66 निःसंदिग्धं परबुद्धस तवं बुध्यमानश चराचरम
शरॊतुम इच्छामि तज जञानं घृतं मन्दमयं यथा
67 [या]
कृत्स्नधारिणम एव तवां मन्ये गन्धर्वसत्तम
जिज्ञाससि च मां राजंस तन निबॊध यथा शरुतम
68 अबुध्यमानां परकृतिं बुध्यते पञ्चविंशकः
न तु बुध्यति गन्धर्व परकृतिः पञ्चविंशकम
69 अनेनाप्रतिबॊधेन परधानं परवदन्ति तम
सांख्ययॊगाश च तत्त्वज्ञा यथा शरुतिनिदर्शनात
70 पश्यंस तथैवापश्यंश च पश्यत्य अन्यस तथानघ
सद्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति
न तु पश्यति पश्यंस तु यश चैनम अनुपश्यति
71 पञ्चविंशॊ ऽभिमन्येत नान्यॊ ऽसति परमॊ मम
न चतुर्विंशकॊ ऽगराह्यॊ मनुजैर जञानदर्शिभिः
72 मत्स्येवॊदकम अन्वेति परवर्तति परवर्तनात
यथैव बुध्यते मत्स्यस तथैषॊ ऽपय अनुबुध्यते
सस्नेहः सह वासाच च साभिमानश चनित्यशः
73 स निमज्जति कालस्य यदैकत्वं न बुध्यते
उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः
74 यदा तु मन्यते ऽनयॊ ऽहम अन्य एष इति दविजः
तदा स केवली भूतः सद्विंशम अनुपश्यति
75 अन्यश च राजन्न अवरस तथान्यः पञ्चविंशकः
तत्स्थत्वाद अनुपश्यन्ति एक एवेति साधवः
76 तेनैतन नाभिनन्दन्ति पञ्चविंशकम अच्युतम
जन्ममृत्युभयाद भीता यॊगाः सांख्याश च काश्यप
सद्विंसम अनुपश्यन्ति शुचयस तत्परायनाः
77 यदा स केवली भूतः सद्विंशम अनुपश्यति
तदा स सर्वविद विद्वान न पुनर्जन्म विन्दति
78 एवम अप्रतिबुद्धश च बुध्यमानश च ते ऽनघ
बुद्धश चॊक्तॊ यथातत्त्वं मया शरुतिनिदर्शनात
79 पश्यापश्यं यॊ ऽनुपश्येत कषेमं तत्त्वं च काश्यप
केवलाकेवलं चाद्यं पञ्चविंशात परं च यत
80 [विष्वावसु]
तथ्यं शुभं चैतद उक्तं तवया भॊः; सम्यक कषेम्यं देवताद्यं यथावत
सवस्त्य कषयं भवतश चास्तु नित्यं; बुद्ध्या सदा बुधि युक्तं नमस ते
81 [या]
एवम उक्त्वा संप्रयातॊ दिवं स; विभ्राजन वै शरीमत दर्शनेन
तुष्टश च तुष्ट्या परयाभिनन्द्य; परदक्षिणं मम कृत्वा महात्मा
82 बरह्मादीनां खेचराणां कषितौ च; ये चाधस्तात संवसन्ते नरेन्द्र
तत्रैव तद दर्शनं दर्शयन वै; सम्यक कषेम्यं ये पथं संश्रिता वै
83 सांख्याः सर्वे सांख्यधर्मे रताश च; तद्वद यॊगा यॊगधर्मे रताश च
ये चाप्य अन्ये मॊक्षकामा मनुष्यास; तेषाम एतद दर्शनंज्ञान दृष्टम
84 जञानान मॊक्षॊ जायते पूरुषानां; नास्त्य अज्ञानाद एवम आहुर नरेन्द्र
तस्माज जञानं तत्त्वतॊ ऽनवेषितव्यं; येनात्मानं मॊक्षयेज जन्ममृत्यॊः
85 पराप्य जञानं बराह्मणात कषत्रियाद वा; वैश्याच छूद्राद अपि नीचाद अभीक्ष्णम
शरद्धातव्यं शरद्दधानेन नित्यं; न शरद्धिनं जन्ममृत्यू विशेताम
86 सर्वे वर्णा बराह्मणा बरह्मजाश च; सर्वे नित्यं वयाहरन्ते च बरह्म
तत्त्वं शास्त्रं बरह्म बुद्ध्या बरवीमि; सर्वं विश्वं बरह्म चैतत समस्तम
87 बरह्मास्यतॊ बराह्मणाः संप्रसूता; बाहुभ्यां वै कषत्रियाः संप्रसूताः
नाभ्यां वैश्याः पादतश चापि शूद्राः; सर्वे वर्णा नान्यथा वेदितव्याः
88 अज्ञानतः कर्म यॊनिं भजन्ते; तां तां राजंस ते यथा यान्त्य अभावम
तथा वर्णा जञानहीनाः पतन्ते; घॊराद अज्ञानात पराकृतं यॊनिजालम
89 तस्माज जञानं सर्वतॊ मार्गितव्यं; सर्वत्रस्थ चैतद उक्तं मया ते
तस्थौ बरह्मा तस्थिवांश चापरॊ यस; तस्मै नित्यं मॊक्षम आहुर दविजेन्द्राः
90 यत ते पृष्ठं तन मया चॊपदिष्टं; याथातथ्यं तद विशॊकॊ भवस्व
राजन गच्छस्वैतद अर्थस्य पारं; सम्यक परॊक्तं सवस्ति ते ऽसत्व अत्र नित्यम
91 [भी]
स एवम अनुशास्तस तु याज्ञवल्क्येन धीमता
परीतिमान अभवद राजा मिथिलाधिपतिस तदा
92 गते मुनिवरे तस्मिन कृते चापि परदक्षिणे
दैवरातिर नरपतिर आसीनस तत्र मॊक्षवित
93 गॊकॊतिं सपर्शयाम आस हिरण्यस्य तथैव च
रत्नाञ्जलिम अथैकं च बराह्मणेभ्यॊ ददौ तदा
94 विदेहराज्यं च तथा परतिष्ठाप्य सुतस्य वै
यति धर्मम उपासंश चाप्य अवसन मिथिलाधिपः
95 सांख्यज्ञानम अधीयानॊ यॊगशास्त्रं च कृत्स्नशः
धर्माधर्मौ च राजेन्द्र पराकृतं परिगर्हयन
96 अनन्तम इति कृत्वा स नित्यं केवलम एव च
धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च
97 जन्ममृत्यू च राजेन्द्र पराकृतं तद अचिन्तयत
बरह्माव्यक्तस्य कर्मेदम इति नित्यं नराधिप
98 पश्यन्ति यॊगाः सांख्याश च सवशास्त्रकृतलक्षणाः
इष्टानिष्ट वियुक्तं हि तस्थौ बरह्म परात परम
नित्यं तम आहुर विद्वांसः शुचिस तस्माच छुचिर भव
99 दीयते यच च लभते दत्तं यच चानुमन्यते
ददाति च नरश्रेष्ठ परतिगृह्णाति यच च ह
ददात्य अव्यक्तम एवैतत परतिगृह्णाति तच च वै
100 आत्मा हय एवात्मनॊ हय एकः कॊ ऽनयस तवत्तॊ ऽधिकॊ भवेत
एवं मन्यस्व सततम अन्यथा मा विचिन्तय
101 यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः
तेन तीर्थानि यज्ञाश च सेवितव्याविपश्चिता
102 न सवाध्यायैस तपॊभिर वा यज्ञैर वा कुरुनन्दन
लभते ऽवयक्तसंस्थानं जञात्वाव्यक्तं महीपते
103 तथैव महतः सथानम आहंकारिकम एव च
अहंकारात परं चापि सथानानि समवाप्नुयात
104 ये तव अव्यक्तात परं नित्यं जानते शास्त्रतत्पराः
जन्ममृत्युवियुक्तं च वियुक्तं सद असच च यत
105 एतन मयाप्तं जनकात पुरस्तात; तेनापि चाप्तं नृप याज्ञवल्क्यात
जञानं विशिष्टं न तथा हि यज्ञा; जञानेन दुर्गं तरते न यज्ञैः
106 दुर्गं जन्म निधनं चापि राजन; न भूतिकं जञानविदॊ वदन्ति
यज्ञैस तपॊभिर नियमैर वरतैश च; दिवं समासाद्य पतन्ति भूमौ
107 तस्माद उपासस्व परं महच छुचि; शिवं विमॊक्षं विमलं पवित्रम
कषेत्रज्ञवित पार्थिव जञानयज्ञम; उपास्य वै तत्त्वम ऋषिर भविष्यसि
108 उपनिषदम उपाकरॊत तदा वै जनक नृपस्य पुरा हि याज्ञवल्क्यः
यद उपगणितशाश्वताव्ययं तच; छुभम अमृतत्वम अशॊकम ऋच्छतीति
1 [yā]
avyaktasthaṃ paraṃ yat tat pṛṣṭas te 'haṃ narādhipa
paraṃ guhyam imaṃ praśnaṃ śṛṇuṣvāvahito nṛpa
2 yathārṣeṇeha vidhinā caratāvamatena ha
mayādityād avāptāni yajūṃsi mithilādhipa
3 mahatā tapasā devas tapiṣṭhaḥ sevito mayā
prītena cāhaṃ vibhunā sūryeṇoktas tadānagha
4 varaṃ vṛṇīṣva viprarṣe yad iṣṭaṃ te sudurlabham
tat te dāsyāmi prītātmā matprasādo hi durlabhaḥ
5 tataḥ pranamya śirasā mayoktas tapatāṃ varaḥ
yajūṃsi nopayuktāni kṣipram icchāmi veditum
6 tato māṃ bhagavān āha vitariṣyāmi te dvija
sarasvatīha vāg bhūtā śarīraṃ te pravekṣyati
7 tato mām āha bhagavān āsyaṃ svaṃ vivṛtaṃ kuru
vivṛtaṃ ca tato me ''syaṃ praviṣṭā ca sarasvatī
8 tato vidahyamāno 'haṃ praviṣṭo 'mbhas tadānagha
avijñānād amarṣāc ca bhāskarasya mahātmanaḥ
9 tato vidahyamānaṃ mām uvāca bhagavān raviḥ
muhūrtaṃ sahyatāṃ dāhas tataḥ śītī bhaviṣyati
10 śītī bhūtaṃ ca māṃ dṛṣṭvā bhagavān āha bhāskaraḥ
pratiṣṭhāsyati te vedaḥ sottaraḥ sakhilo dvija
11 kṛtsnaṃ śatapathaṃ caiva praṇeṣyasi dvijarṣabha
tasyānte cāpunarbhāve buddhis tava bhaviṣyati
12 prāpsyase ca yad iṣṭaṃ tat sāṃkya yogepsitaṃ padam
etāvad uktvā bhagavān astam evābhyavartata
13 tato 'nuvyāhṛtaṃ śrutvā gate deve vibhāvasau
gṛham āgatya saṃhṛṣṭo 'cintayaṃ vai sarasvatīm
14 tataḥ pravṛttātiśubhā svaravyañjana bhūṣitā
oṃkāram āditaḥ kṛtvā mama devī sarasvatī
15 tato 'ham arghyaṃ vidhivat sarasvatyai nyavedayam
tapatāṃ ca variṣṭhāya niṣaṇṇas tatparāyanaḥ
16 tataḥ śatapathaṃ kṛtsnaṃ saharasya sasaṃgraham
cakre sapariśeṣaṃ ca harṣeṇa parameṇa ha
17 kṛtvā cādhyayanaṃ teṣāṃ śiṣyāṇāṃ śatam uttamam
vipriyārthaṃ saśiṣyasya mātulalsya mahātmanaḥ
18 tataḥ saśiṣyeṇa mayā sūryeṇeva gabhastibhiḥ
vyāpto yajño mahārāja pitus tava mahātmanaḥ
19 miṣato devalasyāpi tato 'rdhaṃ hṛtavān aham
svaveda dakṣiṇāyātha vimarde mātulena ha
20 sumantu nātha pailena tatha jaimininā ca vai
pitrā te munibhiś caiva tato 'ham anumānitaḥ
21 daśa pañca ca prāptāni yajūṃsy arkān mayānagha
tathaiva lomaharṣāc ca purāṇam avadhāritam
22 bījam etat puraskṛtya devīṃ caiva sarasvatīm
sūryasya cānubhāvena pravṛtto 'haṃ narādhipa
23 kartuṃ śatapathaṃ vedam apūrvaṃ kāritaṃ ca me
yathābhilasitaṃ mārthaṃ tathā tac copapāditam
24 śiṣyāṇām akhilaṃ kṛtsnam anujñātaṃ sasaṃgraham
sarve ca śiṣyāḥ śucayo gatāḥ paramaharṣitāḥ
25 śākhāḥ pañcadaśemās tu vidyā bhāskaradarśitāḥ
pratiṣṭhāpya yathākāmaṃ vedyaṃ tad anucintayam
26 kim atra brahmaṇyam ṛtaṃ kiṃ ca vedyam anuttamam
cintaye tatra cāgatya gandharvo mām apṛcchata
27 viśvāvasus tato rājan vedāntajñānakovidaḥ
caturviṃśatikān praśnān pṛṣṭvā vedasya pārthiva
pañcaviṃśatimaṃ praśnaṃ papracchānvikṣikīṃ tathā
28 viśvā viśvaṃ tathāśvāśvaṃ mitraṃ varuṇam eva ca
jñānaṃ jñeyaṃ tathājño 'jñaḥ kas tapā apatā tathā
sūryādaḥ sūrya iti ca vidyāvidye tathaiva ca
29 vedyāvedyaṃ tathā rājann acalaṃ calam eva ca
apūrvam akṣayaṃ kṣayyam etat praśnam anuttamam
30 athoktaś ca mayā rājan rājā gandharvasattamaḥ
pṛṣṭavān anupūrveṇa praśnam uttamam arthavat
31 muhūrtaṃ mṛṣyatāṃ tāvad yāvad enaṃ vicintaye
bādham ity eva kṛtvā sa tūsnīṃ gandharva āsthitaḥ
32 tato 'nvacintayam ahaṃ bhūyo devīṃ sarasvatīm
manasā sa ca me praśno dadhno ghṛtam ivoddhṛtam
33 tatropaniṣadaṃ caiva pariśeṣaṃ ca pārthiva
maghnāmi manasā tāta dṛṣṭvā cānvīkṣikīṃ parām
34 caturthī rājaśārdūla vidyaiṣā sāmparāyikī
udīritā mayā tubhyaṃ pañcaviṃśe 'dhi dhiṣṭhitā
35 athotas tu mayā rājan rājā viśvāvasus tadā
śrūyatāṃ yad bhavān asmān praśnaṃ saṃpṛṣṭavān iha
36 viśvā viśveti yad idaṃ gandharvendrānupṛcchasi
viśvāvyaktaṃ paraṃ vidyād bhūtabhavya bhayaṃkaram
37 triguṇaṃ guṇakartṛtvād aśiśvo niṣkalas tathā
aśvas tathaiva mithunam evam evānudṛśyate
38 avyaktaṃ prakṛtiṃ prāhuḥ puruṣeti ca nirguṇam
tathaiva mitraṃ puruṣaṃ varuṇaṃ prakṛtiṃ tathā
39 jñānaṃ tu prakṛtiṃ prāhur jñeyaṃ niṣkalam eva ca
ajñaś ca jñaś ca puruṣas tasmān niṣkala ucyate
40 kas tapā atapāḥ proktāḥ ko 'sau puruṣa ucyate
tapāḥ prakṛtir ity āhur atapā niṣkalaḥ smṛtaḥ
41 tathaivāvedyam avyaktaṃ vedhaḥ puruṣa ucyate
calācalam iti proktaṃ tvayā tad api me śṛṇu
42 calāṃ tu prakṛtiṃ prāhuḥ kāraṇaṃ kṣepa sargayoḥ
akṣepa sargayoḥ kartā niścalaḥ puruṣaḥ smṛtaḥ
43 ajāv ubhāv aprajanucākṣayau cāpy ubhāv api
ajaunityāv ubhau prāhur adhyātmagatiniścayāḥ
44 akṣayatvāt prajanane ajam atrāhur avyayam
akṣayaṃ puruṣaṃ prāhuḥ kṣayo hy asya na vidyate
45 guṇakṣayatvāt prakṛtiḥ kartṛtvād akṣayaṃ budhāḥ
eṣā te ''nvīkṣikī vidyā caturthī sāmparāyikī
46 vidyopetaṃ dhanaṃ kṛtvā karmaṇā nityakarmaṇi
ekāntadarśanā vedāḥ sarve viśvāvaso smṛtāḥ
47 jāyante ca mriyante ca yasminn ete yataś cyutāḥ
vedārthaṃ ye na jānanti vedyaṃ gandharvasattama
48 sāṅgopāṅgān api yadi pañca vedān adhīyate
veda vedyaṃ na jānīte veda bhāravaho hi saḥ
49 yo ghṛtārthī kharī kṣīraṃ mathed gandharvasattama
viṣṭhāṃ tatrānupaśyeta na mandaṃ nāpi vā ghṛtam
50 tathā vedyam avedyaṃ ca veda vidyo na vindati
sa kevalaṃ mūḍha matir jñānabhāra vahaḥ smṛtaḥ
51 draṣṭavyau nityam evaitau tatpareṇāntar ātmanā
yathāsya janma nidhane na bhavetāṃ punaḥ punaḥ
52 ajasraṃ janma nidhanaṃ cintayitvā trayīm imām
parityajya kṣayam iha akṣayaṃ dharmam āsthitaḥ
53 yadā tu paśyate 'tyantam ahany ahani kāśyapa
tadā sa kevalī bhūtaḥ sadviṃsam anupaśyati
54 anyaś ca śaśvad avyaktas tathānyaḥ pañcaviṃśakaḥ
tasya dvāv anupaśyeta tam ekam iti sādhavaḥ
55 tenaitan nābhijānanti pañcaviṃśakam acyutam
janmamṛtyubhayād yogāḥ sāṃkhyāś ca paramaiṣiṇaḥ
56 [viṣvāvasu]
pañcaviṃśaṃ yad etat te proktaṃ brāhmaṇasattama
tathā tan na tathā veti tad bhavān vaktum arhati
57 jaigīsavyasyāsitasya devalasya ca me śrutam
parāśarasya viprarṣer vārṣagaṇyasya dhīmataḥ
58 bhikṣoḥ pañcaśikhasyātha kapilasya śukasya ca
gautamasyārṣṭiṣeṇasya gargasya ca mahātmanaḥ
59 nāradasyāsureś caiva pulastyasya ca dhīmataḥ
sanatkumārasya tataḥ śukrasya ca mahātmanaḥ
60 kaśyapasya pituś caiva pūrvam eva mayā śrutam
tadanantaraṃ ca rudrasya viśvarūpasya dhīmataḥ
61 daivatebhyaḥ pitṛbhyaś ca daityebhyaś ca tatas tataḥ
prāptam etan mayā kṛtsnaṃ vedyaṃ nityaṃ vadanty uta
62 tasmāt tad vai bhavad buddhyā śrotum icchāmi brāhmaṇa
bhavān pravarhaḥ śāstrāṇāṃ pragalbhaś cātibuddhimān
63 na tavāviditaṃ kiṃ cid bhavāñ śrutinidhiḥ smṛtaḥ
kathyate devaloke ca pitṛloke ca brāhmaṇa
64 brahmalokagatāś caiva kathayanti maharṣayaḥ
patiś ca tapatāṃ śaśvad ādityas tava bhāsate
65 sāṃkhyajñānaṃ tvayā brahmann avāptaṃ kṛtsnam eva ca
tathaiva yogajñānaṃ ca yājñavalkya viśeṣataḥ
66 niḥsaṃdigdhaṃ prabuddhas tvaṃ budhyamānaś carācaram
śrotum icchāmi taj jñānaṃ ghṛtaṃ mandamayaṃ yathā
67 [yā]
kṛtsnadhāriṇam eva tvāṃ manye gandharvasattama
jijñāsasi ca māṃ rājaṃs tan nibodha yathā śrutam
68 abudhyamānāṃ prakṛtiṃ budhyate pañcaviṃśakaḥ
na tu budhyati gandharva prakṛtiḥ pañcaviṃśakam
69 anenāpratibodhena pradhānaṃ pravadanti tam
sāṃkhyayogāś ca tattvajñā yathā śrutinidarśanāt
70 paśyaṃs tathaivāpaśyaṃś ca paśyaty anyas tathānagha
sadviṃśaḥ pañcaviṃśaṃ ca caturviṃśaṃ ca paśyati
na tu paśyati paśyaṃs tu yaś cainam anupaśyati
71 pañcaviṃśo 'bhimanyeta nānyo 'sti paramo mama
na caturviṃśako 'grāhyo manujair jñānadarśibhiḥ
72 matsyevodakam anveti pravartati pravartanāt
yathaiva budhyate matsyas tathaiṣo 'py anubudhyate
sasnehaḥ saha vāsāc ca sābhimānaś canityaśaḥ
73 sa nimajjati kālasya yadaikatvaṃ na budhyate
unmajjati hi kālasya mamatvenābhisaṃvṛtaḥ
74 yadā tu manyate 'nyo 'ham anya eṣa iti dvijaḥ
tadā sa kevalī bhūtaḥ sadviṃśam anupaśyati
75 anyaś ca rājann avaras tathānyaḥ pañcaviṃśakaḥ
tatsthatvād anupaśyanti eka eveti sādhavaḥ
76 tenaitan nābhinandanti pañcaviṃśakam acyutam
janmamṛtyubhayād bhītā yogāḥ sāṃkhyāś ca kāśyapa
sadviṃsam anupaśyanti śucayas tatparāyanāḥ
77 yadā sa kevalī bhūtaḥ sadviṃśam anupaśyati
tadā sa sarvavid vidvān na punarjanma vindati
78 evam apratibuddhaś ca budhyamānaś ca te 'nagha
buddhaś cokto yathātattvaṃ mayā śrutinidarśanāt
79 paśyāpaśyaṃ yo 'nupaśyet kṣemaṃ tattvaṃ ca kāśyapa
kevalākevalaṃ cādyaṃ pañcaviṃśāt paraṃ ca yat
80 [viṣvāvasu]
tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ; samyak kṣemyaṃ devatādyaṃ yathāvat
svastya kṣayaṃ bhavataś cāstu nityaṃ; buddhyā sadā budhi yuktaṃ namas te
81 [yā]
evam uktvā saṃprayāto divaṃ sa; vibhrājan vai śrīmata darśanena
tuṣṭaś ca tuṣṭyā parayābhinandya; pradakṣiṇaṃ mama kṛtvā mahātmā
82 brahmādīnāṃ khecarāṇāṃ kṣitau ca; ye cādhastāt saṃvasante narendra
tatraiva tad darśanaṃ darśayan vai; samyak kṣemyaṃ ye pathaṃ saṃśritā vai
83 sāṃkhyāḥ sarve sāṃkhyadharme ratāś ca; tadvad yogā yogadharme ratāś ca
ye cāpy anye mokṣakāmā manuṣyās; teṣām etad darśanaṃjñāna dṛṣṭam
84 jñānān mokṣo jāyate pūruṣānāṃ; nāsty ajñānād evam āhur narendra
tasmāj jñānaṃ tattvato 'nveṣitavyaṃ; yenātmānaṃ mokṣayej janmamṛtyoḥ
85 prāpya jñānaṃ brāhmaṇāt kṣatriyād vā; vaiśyāc chūdrād api nīcād abhīkṣṇam
śraddhātavyaṃ śraddadhānena nityaṃ; na śraddhinaṃ janmamṛtyū viśetām
86 sarve varṇā brāhmaṇā brahmajāś ca; sarve nityaṃ vyāharante ca brahma
tattvaṃ śāstraṃ brahma buddhyā bravīmi; sarvaṃ viśvaṃ brahma caitat samastam
87 brahmāsyato brāhmaṇāḥ saṃprasūtā; bāhubhyāṃ vai kṣatriyāḥ saṃprasūtāḥ
nābhyāṃ vaiśyāḥ pādataś cāpi śūdrāḥ; sarve varṇā nānyathā veditavyāḥ
88 ajñānataḥ karma yoniṃ bhajante; tāṃ tāṃ rājaṃs te yathā yānty abhāvam
tathā varṇā jñānahīnāḥ patante; ghorād ajñānāt prākṛtaṃ yonijālam
89 tasmāj jñānaṃ sarvato mārgitavyaṃ; sarvatrastha caitad uktaṃ mayā te
tasthau brahmā tasthivāṃś cāparo yas; tasmai nityaṃ mokṣam āhur dvijendrāḥ
90 yat te pṛṣṭhaṃ tan mayā copadiṣṭaṃ; yāthātathyaṃ tad viśoko bhavasva
rājan gacchasvaitad arthasya pāraṃ; samyak proktaṃ svasti te 'stv atra nityam
91 [bhī]
sa evam anuśāstas tu yājñavalkyena dhīmatā
prītimān abhavad rājā mithilādhipatis tadā
92 gate munivare tasmin kṛte cāpi pradakṣiṇe
daivarātir narapatir āsīnas tatra mokṣavit
93 gokotiṃ sparśayām āsa hiraṇyasya tathaiva ca
ratnāñjalim athaikaṃ ca brāhmaṇebhyo dadau tadā
94 videharājyaṃ ca tathā pratiṣṭhāpya sutasya vai
yati dharmam upāsaṃś cāpy avasan mithilādhipaḥ
95 sāṃkhyajñānam adhīyāno yogaśāstraṃ ca kṛtsnaśaḥ
dharmādharmau ca rājendra prākṛtaṃ parigarhayan
96 anantam iti kṛtvā sa nityaṃ kevalam eva ca
dharmādharmau puṇyapāpe satyāsatye tathaiva ca
97 janmamṛtyū ca rājendra prākṛtaṃ tad acintayat
brahmāvyaktasya karmedam iti nityaṃ narādhipa
98 paśyanti yogāḥ sāṃkhyāś ca svaśāstrakṛtalakṣaṇāḥ
iṣṭāniṣṭa viyuktaṃ hi tasthau brahma parāt param
nityaṃ tam āhur vidvāṃsaḥ śucis tasmāc chucir bhava
99 dīyate yac ca labhate dattaṃ yac cānumanyate
dadāti ca naraśreṣṭha pratigṛhṇāti yac ca ha
dadāty avyaktam evaitat pratigṛhṇāti tac ca vai
100 ātmā hy evātmano hy ekaḥ ko 'nyas tvatto 'dhiko bhavet
evaṃ manyasva satatam anyathā mā vicintaya
101 yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ
tena tīrthāni yajñāś ca sevitavyāvipaścitā
102 na svādhyāyais tapobhir vā yajñair vā kurunandana
labhate 'vyaktasaṃsthānaṃ jñātvāvyaktaṃ mahīpate
103 tathaiva mahataḥ sthānam āhaṃkārikam eva ca
ahaṃkārāt paraṃ cāpi sthānāni samavāpnuyāt
104 ye tv avyaktāt paraṃ nityaṃ jānate śāstratatparāḥ
janmamṛtyuviyuktaṃ ca viyuktaṃ sad asac ca yat
105 etan mayāptaṃ janakāt purastāt; tenāpi cāptaṃ nṛpa yājñavalkyāt
jñānaṃ viśiṣṭaṃ na tathā hi yajñā; jñānena durgaṃ tarate na yajñaiḥ
106 durgaṃ janma nidhanaṃ cāpi rājan; na bhūtikaṃ jñānavido vadanti
yajñais tapobhir niyamair vrataiś ca; divaṃ samāsādya patanti bhūmau
107 tasmād upāsasva paraṃ mahac chuci; śivaṃ vimokṣaṃ vimalaṃ pavitram
kṣetrajñavit pārthiva jñānayajñam; upāsya vai tattvam ṛṣir bhaviṣyasi
108 upaniṣadam upākarot tadā vai janaka nṛpasya purā hi yājñavalkyaḥ
yad upagaṇitaśāśvatāvyayaṃ tac; chubham amṛtatvam aśokam ṛcchatīti

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1646 of 2013 Book 82% ~13 min left