Book 12: Chapter 290
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 12: Chapter 290

The Mahabharata in Sanskrit

Book 12
Chapter 290

1 [य]
सम्यक तवयायं नृपते वर्णितः शिष्टसंमतः
यॊगमार्गॊ यथान्यायं शिष्यायेह हितैषिणा
2 सांख्ये तवेदानीं कार्त्स्न्येन विधिं परब्रूहि पृच्छते
तरिषु लॊकेषु यज जञानं सर्वं तद वितिदं हि ते
3 [भी]
शृणु मे तवम इदं शुद्धं सांख्यानां विदितात्मनाम
विहितं यतिभिर बुद्धैः कपिलादिभिर ईश्वरैः
4 यस्मिन न विभ्रमाः के चिद दृश्यन्ते मनुजर्षभ
गुणाश च यस्मिन बहवॊ दॊषहानिश च केवला
5 जञानेन परिसंख्याय सदॊषान विषयान नृप
मानुषान दुर्जयान कृत्स्नान पैशाचान विषयांस तथा
6 राक्षसान विषयाञ जञात्वा यक्षाणां विषयांस तथा
विषयान औरगाञ जञात्वा गान्धर्वविषयांस तथा
7 पितॄणां विषयाञ जञात्वा तिर्यक्षु चरतां नृप
सुपर्णविषयाञ जञात्वा मरुतां विषयांस तथा
8 राजर्षिविषयाञ जञात्वा बरह्मर्षिविषयांस तथा
आसुरान विषयाञ जञात्वा वैश्वदेवांस तथैव च
9 देवर्षिविषयाञ जञात्वा यॊगानान अपि चेश्वरान
विषयांश च परजेशानां बरह्मणॊ विषयांस तथा
10 आयुषश च परं कालं लॊके विज्ञाय तत्त्वतः
सुखस्य च परं तत्त्वं विज्ञाय वदतां वर
11 पराप्ते काले च यद दुःखं पततां विषयैषिणाम
तिर्यक च पततां दुःख्म पततां नरके च यत
12 सवर्गस्य च गुणान कृत्स्नान दॊषान सर्वांश च भारत
वेदवादे च ये दॊषा गुणा ये चापि वैदिकाः
13 जञानयॊगे च ये दॊषा गुणा यॊगे च ये नृप
सांख्यज्ञाने च ये दॊषास तथैव च गुणा नृप
14 सत्त्वं दशगुणं जञात्वा रजॊ नव गुणं तथा
तमश चास्त गुणं जञात्वा बुद्धिं सप्त गुणां तथा
15 सॊ गुणं च नभॊ जञात्वा मनः पञ्च गुणं तथा
बुद्धिं चतुर्गुणां जञात्वा तमश च तरिगुणं महत
16 दविगुणं च रजॊ जञात्वा सत्त्वम एकगुणं पुनः
मार्गं विज्ञाय तत्त्वेन परलये परेक्षणं तथा
17 जञानविज्ञानसंपन्नाः कारणैर भाविताः शुभैः
पराप्नुवन्ति शुभं मॊक्षं सूक्ष्मा इह नभः परम
18 रूपेण दृष्टिं संयुक्तां घराणं गन्धगुणेन च
शब्दे सक्तं तथा शरॊत्रं जिह्वां रसगुणेषु च
19 तनुं सपर्शे तथा सक्तां वायुं नभसि चाश्रितम
मॊहं तमसि संसक्तं लॊभम अर्थेषु संश्रितम
20 विष्णुं करान्ते बले शक्रं कॊष्ठे सक्तं तथानलम
अप्सु देवीं तथा सक्ताम अपस तेजसि चाश्रिताः
21 तेजॊ वायौ तु संसक्तं वायुं नभसि चाश्रितम
नभॊ महति संयुक्तं महद बुद्धौ च संश्रितम
22 बुद्धिं तमसि संसक्तां तमॊ रजसि चाश्रितम
रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि
23 सक्तम आत्मानम ईशे च देवे नारायणे तथा
देवं मॊक्षे च संसक्तं मॊक्षं सक्तं तु न कव चित
24 जञात्वा सत्त्वयुतं देहं वृतं सॊदशभिर गुणैः
सवभावं चेतनां चैव जञात्वा वै देहम आश्रिते
25 मध्यस्थम एकम आत्मानं पापं यस्मिन न विद्यते
दवितीयं कर्म विज्ञाय नृपतौ विषयैषिणाम
26 इन्द्रियाणीन्द्रियार्थाश च सर्वान आत्मनि संशृतान
पराणापानौ समानं च वयानॊदानौ च तत्त्वतः
27 अवाक्चैवानिलं जञात्वा परवहं चानिलं पुनः
सप्त वातांस तथा शेषान सप्तधा विधिवत पुनः
28 परजापतीन ऋषींश चैव मार्गांश च सुबहून वरान
सप्तर्षींश च बहूञ जञात्वा राजर्षींश च परंतप
29 सुरर्षीन महतश चान्यान महर्षीन सूर्यसंनिभान
ऐश्वर्याच चयाविताञ जञात्वा कालेन महता नृप
30 महतां भूतसंघानां शरुत्वा नाशं च पार्थिव
गतिं चाप्य अशुभां जञात्वा नृपते पापकर्मणाम
31 वैतरण्यां च यद दुःखं पतितानां यमक्षये
यॊनीषु च विचित्रासु संसारान अशुभांस तथा
32 जथरे चाशुभे वासं शॊनितॊदक भाजने
शलेष्म मूत्र पुरीषे च तीव्रगन्धसमन्विते
33 शुक्रशॊनित संघाते मज्जास्नायुपरिग्रहे
सिरा शतसमाकीर्णे नवद्वारे पुरे ऽशुचौ
34 विज्ञायाहितम आत्मानं यॊगांश च विविधान नृप
तामसानां च जन्तूनां रमणीयावृतात्मनाम
35 सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ
गर्हितं महताम अर्थे सांख्यानां विदितात्मनाम
36 उपप्लवांस तथा घॊराञ शशिनस तेजसस तथा
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम
37 दवन्द्वानां विप्रयॊगं च विज्ञाय कृपणं नृप
अन्यॊन्यभक्षणं दृष्ट्वा भूतानाम अपि चाशुभम
38 बाल्ये मॊहं च विज्ञाय कषयं देहस्य चाशुभम
रागे मॊहे च संप्राप्ते कव चित सत्त्वं समाश्रितम
39 सहस्रेषु नरः कश चिन मॊक्षबुद्धिं समाश्रितः
दुर्लभत्वं च मॊक्षस्य विज्ञाय शरुतिपूर्वकम
40 बहुमानम अलब्धेषु लब्धे मध्यस्थतां पुनः
विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः
41 गतासूनां च कौन्तेय देहान दृष्ट्वा तथाशुभान
वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत
42 बरह्मघ्नानां गतिं जञात्वा पतितानां सुदारुणाम
सुरा पाने च सक्तानां बराह्मणानां दुरात्मनाम
गुरु दारप्रसक्तानां गतिं विज्ञाय चाशुभाम
43 जननीषु च वर्तन्ते ये न सम्यग युधिष्ठिर
सदेवकेषु लॊकेषु ये न वर्तन्ति मानवाः
44 तेन जञानेन विज्ञाय गतिं चाशुभ कर्मणाम
तिर्यग्यॊनिगतानां च विज्ञाय गतयः पृथक
45 वेदवादांस तथा चित्रान ऋतूनां पर्ययांस तथा
कषयं संवत्सराणां च मासानां परक्षयं तथा
46 पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम
कषयं वृद्धिं च चन्द्रस्य दृष्ट्वा परत्यक्षतस तथा
47 वृद्धिं दृष्ट्वा समुद्राणां कषयं तेषां तथा पुनः
कषयं धनानां च तथा पुनर वृद्धिं तथैव च
48 समॊगानां कषयं दृष्ट्वा युगानां च विशेषतः
कषयं च दृष्ट्वा शैलानां कषयं च सरितां तथा
49 वर्णानां च कषयं दृष्ट्वा कषयान्तं च पुनः पुनः
जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह
50 देहदॊषांस तथा जञात्वा तेषां दुःखं च तत्त्वतः
देव विक्लवतां चैव सम्यग विज्ञाय भारत
51 आत्मदॊषांश च विज्ञाय सर्वान आत्मनि संश्रितान
सवदेहाद उत्थितान गन्धांस तथा विज्ञाय चाशुभम
52 [य]
कान सवगात्रॊद्भवान दॊषान पश्यस्य अमितविक्रम
एतन मे संशयं कृत्स्नं वक्तुम अर्हसि तत्त्वतः
53 [भी]
पञ्च दॊषान परभॊ देहे परवदन्ति मनीषिणः
मार्गज्ञाः कापिलाः सांख्याः शृणु तान अरिसूदन
54 कामक्रॊधौ भयं निद्रा पञ्चमः शवास उच्यते
एते दॊषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम
55 छिन्दन्ति कषमया करॊधं कामं संकल्पवर्जनात
सत्त्वसंशीलनान निद्राम अप्रमादाद भयं तथा
छिन्दन्ति पञ्चमं शवासं लघ्व आहारतया नृप
56 गुणान गुणशतैर जञात्वा दॊषान दॊषशतैर अपि
हेतून हेतुशतैश चित्रैश चित्रान विज्ञाय तत्त्वतः
57 अपां फेनॊपमं लॊकं विष्णॊर माया शतैर वृतम
चित्तभित्ति परतीकाशं नल सारम अनर्थकम
58 तमः शवभ्र निभं दृष्ट्वा वर्षबुद्बुद संनिभम
नाश परायं सुखाद धीनं नाशॊत्तरम अभावगम
रजस तमसि संमग्नं पङ्के दविपम इवावशम
59 सांख्या राजन महाप्राज्ञास तयक्त्वा देहं परजा कृतम
जञानज्ञेयेन सांख्येन वयापिना महता नृप
60 राजसान अशुभान गन्धांस तामसांश च तथाविधान
पुण्यांश च सात्त्विकान गन्धान सपर्शजान देहसंश्रितान
छित्त्वाशु जञानशस्त्रेण तपॊ दन्देन भारत
61 ततॊ दुःखॊदकं घॊरं चिन्ताशॊकमहाह्रदम
वयाधिमृत्युमहाग्राहं महाभयमहॊरगम
62 तमः कूर्मं रजॊ मीनं परज्ञया संतरन्त्य उत
सनेहपङ्कं जरा दुर्गं सपर्शद्वीपम अरिंदम
63 कर्मागाधं सत्यतीरं सथितव्रतम इदं नृप
हिंसा शीघ्रमहावेगं नाना रसमहाकरम
64 नाना परीतिमहारत्नं दुःखज्वर समीरणम
शॊकतृष्णा महावर्तं तीस्क्न वयाधिमहागजम
65 अस्थि संघातसंघातं शलेष्म फेनम अरिंदम
दानम उक्ताकरं भीमं शॊनित हरद विद्रुतम
66 हसितॊत्क्रुष्ट निर्घॊषं नाना जञानसुदुस्तरम
रॊदनाश्रु मलक्षारं सङ्गत्यागपरायनम
67 पुनर आ जन्म लॊकौघं पुत्र बान्धवपत्तनम
अहिंसा सत्यमर्यादं पराण तयागमहॊर्मिणम
68 वेदान्तगमन दवीपं सर्वभूतदयॊदधिम
मॊक्षदुष्प्राप विषयं वदवा मुखसागरम
69 तरन्ति मुनयः सिद्धा जञानयॊगेन भारत
तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः
70 ततस तान सुकृतीन सांख्यान सूर्यॊ वहति रश्मिभिः
पद्मतन्तुवद आविश्य परवहन विषयान नृप
71 तत्र तान परवहॊ वायुः परतिगृह्णाति भारत
वीतरागान यतीन सिद्धान वीर्ययुक्तांस तपॊधनान
72 सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश च भारत
सप्तानां मरुतां शरेष्ठॊ लॊकान गच्छति यः शुभान
स तान वहति कौन्तेय नभसः परमां गतिम
73 नभॊ वहति लॊकेश रजसः परमां गतिम
रजॊ वहति राजेन्द्र सत्त्वस्य परमां गतिम
74 सत्त्वं वहति शुद्धात्मन परं नारायणं परभुम
परभुर वहति शुद्धात्मा परमात्मानम आत्मना
75 परमात्मानम आसाद्य तद भूतायतनामलाः
अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभिभॊ
परमा सा गतिः पार्थ निर्द्वन्द्वानां महात्मनाम
76 [य]
सथानम उत्तमम आसाद्य भगवन्तं सथिरव्रताः
आजन्म मरणं वा ते समरन्त्य उप न वानघ
77 यद अत्र तथ्यं तन मे तवं यथावद वक्तुम अर्हसि
तवदृते मानवं नान्यं परस्तुम अर्हामि कौरव
78 मॊक्षदॊषॊ महान एष पराप्य सिद्धिं गतान ऋषीन
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे
79 परवृत्ति लक्षणं धर्मं पश्यामि परमं नृप
मग्नस्य हि परे जञाने किं नु दुःखतरं भवेत
80 [भी]
यथान्यायं तवया तात परश्नः पृष्टः सुसंकटः
बुद्धानाम अपि संमॊहः परश्ने ऽसमिन भरतर्षभ
अत्रापि तत्त्वं परमं शृणु सम्यग भयेरितम
81 बुद्धिश च परमा यत्र कापिलानां महात्मनाम
इन्द्रियाण्य अपि बुध्यन्ते सवदेहं देहिनॊ नृप
कारणाय आत्मनस तानि सूक्ष्मः पश्यति तैस तु सः
82 आत्मना विप्रहीनानि काष्ठ कुन्द्य समानि तु
विनश्यन्ति न संदेहः फेना इव महार्णवे
83 इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन
सूक्ष्मश चरति सर्वत्र नभसीव समीरणः
84 स पश्यति यथान्यायं सपर्शान सपृशति चाभिभॊ
बुध्यमानॊ यथापूर्वम अखिलेनेह भारत
85 इन्द्रियाणीह सर्वाणि सवे सवे सथाने यथाविधि
अनीशत्वात परलीयन्ते सर्पा हतविषा इव
86 इन्द्रियाणां तु सर्वेषां सवस्थानेष्व एव सर्वशः
आक्रम्य गतयः सूक्ष्माश चरत्य आत्मा न संशयः
87 सत्त्वस्य च गुणान कृत्स्नान रजसश च गुणान पुनः
गुणांश च तमसः सर्वान गुणान बुद्धेश च भारत
88 गुणांश च मनसस तद्वन नभसश च गुणांस तथा
गुणान वायॊश च धर्मात्मंस तेजसश च गुणान पुनः
89 अपां गुणांस तथा पार्थ पार्थिवांश च गुणान अपि
सर्वात्मना गुणैर वयाप्य कषेत्रज्ञः स युधिष्ठिर
90 आत्मा च याति कषेत्रज्ञं कर्मणी च शुभाशुभे
शिष्या इव महात्मानम इन्द्रियाणि च तं विभॊ
91 परकृतिं चाप्य अतिक्रम्य गच्छत्य आत्मानम अव्ययम
परं नारायणात्मानं निर्द्वन्द्वं परकृतेः परम
92 विमुक्तः पुण्यपापेभ्यः परविष्टस तम अनामयम
परमात्मानम अगुणं न निवर्तति भारत
93 शिष्टं तव अत्र मनस तात इन्द्रियाणि च भारत
आगच्छन्ति यथाकालं गुरॊः संदेशकारिणः
94 शक्यं चाल्पेन कालेन शान्तिं पराप्तुं गुणार्थिना
एवं युक्तेन कौन्तेय युक्तज्ञानेन मॊक्षिणा
95 सांख्या राजन महाप्राज्ञा गच्छन्ति परमां गतिम
जञानेनानेन कौन्तेय तुल्यं जञानं न विद्यते
96 अत्र ते संशयॊ मा भूज जञानं सांख्यं परं मतम
अक्षरं धरुवम अव्यक्तं पूर्वं बरह्म सनातनम
97 अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम
कूतस्थं चैव नित्यं च यद वदन्ति शमात्मकाः
98 यतः सर्वाः परवर्तन्ते सर्ग परलय विक्रियाः
यच च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः
99 सर्वे विप्राश च देवाश च तथागमविदॊ जनाः
बरह्मण्यं परमं देवम अनन्तं परतॊ ऽचयुतम
100 परार्थयन्तश च तं विप्रा वदन्ति गुणबुद्दयः
सम्यग युक्तास तथा यॊगाः सांख्याश चामितदर्शनाः
101 अमूर्तेस तस्य कौन्तेय सांख्यं मूर्तिर इति शरुतिः
अभिज्ञानानि तस्याहुर मतं हि भरतर्षभ
102 दविविधानीह भूतानि पृथिव्यां पृथिवीपते
जङ्गमागम संज्ञानि जङ्गमं तु विशिष्यते
103 जञानं महद यद धि महत्सु राजन; वेदेषु सांख्येषु तथैव यॊगे
यच चापि दृष्टं विविधं पुराणं; सांख्यागतं तन निखिलं नरेन्द्र
104 यच चेतिहासेषु महत्सु दृष्टं; यच चार्थशास्त्रे नृप शिष्टजुष्टे
जञानं च लॊके यद इहास्ति किं चित; सांख्यागतं तच च महन महात्मन
105 शमश च दृष्टः परमं बलं च; जञानं च सूक्ष्मं च यथावद उक्तम
तपांसि सूक्ष्माणि सुखानि चैव; सांख्ये यथावद विहितानि राजन
106 विपर्यये तस्य हि पार्थ देवान; गच्छन्ति सांख्याः सततं सुखेन
तांश चानुसंचार्य ततः कृतार्थाः; पतन्ति विप्रेषु यतेषु भूयः
107 हित्वा च देहं परविशन्ति मॊक्षं; दिवौकसॊ दयाम इव पार्थ सांख्याः
ततॊ ऽधिकं ते ऽभिरता महार्हे; सांख्ये दविजाः पार्थिव शिष्टजुष्टे
108 तेषां न तिर्यग गमनं हि दृष्टं; नावाग गतिः पापकृतां निवासः
न चाबुधानाम अपि ते दविजातयॊ; ये जञानम एतन नृपते ऽनुरक्ताः
109 सांक्यं विशालं परमं पुराणं; महार्णवं विमलम उदारकान्तम
कृत्स्नं च सांख्यं नृपते महात्मा; नारायणॊ धारयते ऽपरमेयम
110 एतन मयॊक्तं नरदेव तत्त्वं; नारायणॊ विश्वम इदं पुराणम
स सर्ग काले च करॊति सर्गं; संहार काले च तद अत्ति भूयः
1 [y]
samyak tvayāyaṃ nṛpate varṇitaḥ śiṣṭasaṃmataḥ
yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā
2 sāṃkhye tvedānīṃ kārtsnyena vidhiṃ prabrūhi pṛcchate
triṣu lokeṣu yaj jñānaṃ sarvaṃ tad vitidaṃ hi te
3 [bhī]
śṛṇu me tvam idaṃ śuddhaṃ sāṃkhyānāṃ viditātmanām
vihitaṃ yatibhir buddhaiḥ kapilādibhir īśvaraiḥ
4 yasmin na vibhramāḥ ke cid dṛśyante manujarṣabha
guṇāś ca yasmin bahavo doṣahāniś ca kevalā
5 jñānena parisaṃkhyāya sadoṣān viṣayān nṛpa
mānuṣān durjayān kṛtsnān paiśācān viṣayāṃs tathā
6 rākṣasān viṣayāñ jñātvā yakṣāṇāṃ viṣayāṃs tathā
viṣayān auragāñ jñātvā gāndharvaviṣayāṃs tathā
7 pitṝṇāṃ viṣayāñ jñātvā tiryakṣu caratāṃ nṛpa
suparṇaviṣayāñ jñātvā marutāṃ viṣayāṃs tathā
8 rājarṣiviṣayāñ jñātvā brahmarṣiviṣayāṃs tathā
āsurān viṣayāñ jñātvā vaiśvadevāṃs tathaiva ca
9 devarṣiviṣayāñ jñātvā yogānān api ceśvarān
viṣayāṃś ca prajeśānāṃ brahmaṇo viṣayāṃs tathā
10 āyuṣaś ca paraṃ kālaṃ loke vijñāya tattvataḥ
sukhasya ca paraṃ tattvaṃ vijñāya vadatāṃ vara
11 prāpte kāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām
tiryak ca patatāṃ duḥkhma patatāṃ narake ca yat
12 svargasya ca guṇān kṛtsnān doṣān sarvāṃś ca bhārata
vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ
13 jñānayoge ca ye doṣā guṇā yoge ca ye nṛpa
sāṃkhyajñāne ca ye doṣās tathaiva ca guṇā nṛpa
14 sattvaṃ daśaguṇaṃ jñātvā rajo nava guṇaṃ tathā
tamaś cāsta guṇaṃ jñātvā buddhiṃ sapta guṇāṃ tathā
15 so guṇaṃ ca nabho jñātvā manaḥ pañca guṇaṃ tathā
buddhiṃ caturguṇāṃ jñātvā tamaś ca triguṇaṃ mahat
16 dviguṇaṃ ca rajo jñātvā sattvam ekaguṇaṃ punaḥ
mārgaṃ vijñāya tattvena pralaye prekṣaṇaṃ tathā
17 jñānavijñānasaṃpannāḥ kāraṇair bhāvitāḥ śubhaiḥ
prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iha nabhaḥ param
18 rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca
śabde saktaṃ tathā śrotraṃ jihvāṃ rasaguṇeṣu ca
19 tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam
mohaṃ tamasi saṃsaktaṃ lobham artheṣu saṃśritam
20 viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam
apsu devīṃ tathā saktām apas tejasi cāśritāḥ
21 tejo vāyau tu saṃsaktaṃ vāyuṃ nabhasi cāśritam
nabho mahati saṃyuktaṃ mahad buddhau ca saṃśritam
22 buddhiṃ tamasi saṃsaktāṃ tamo rajasi cāśritam
rajaḥ sattve tathā saktaṃ sattvaṃ saktaṃ tathātmani
23 saktam ātmānam īśe ca deve nārāyaṇe tathā
devaṃ mokṣe ca saṃsaktaṃ mokṣaṃ saktaṃ tu na kva cit
24 jñātvā sattvayutaṃ dehaṃ vṛtaṃ sodaśabhir guṇaiḥ
svabhāvaṃ cetanāṃ caiva jñātvā vai deham āśrite
25 madhyastham ekam ātmānaṃ pāpaṃ yasmin na vidyate
dvitīyaṃ karma vijñāya nṛpatau viṣayaiṣiṇām
26 indriyāṇīndriyārthāś ca sarvān ātmani saṃśṛtān
prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ
27 avākcaivānilaṃ jñātvā pravahaṃ cānilaṃ punaḥ
sapta vātāṃs tathā śeṣān saptadhā vidhivat punaḥ
28 prajāpatīn ṛṣīṃś caiva mārgāṃś ca subahūn varān
saptarṣīṃś ca bahūñ jñātvā rājarṣīṃś ca paraṃtapa
29 surarṣīn mahataś cānyān maharṣīn sūryasaṃnibhān
aiśvaryāc cyāvitāñ jñātvā kālena mahatā nṛpa
30 mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca pārthiva
gatiṃ cāpy aśubhāṃ jñātvā nṛpate pāpakarmaṇām
31 vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye
yonīṣu ca vicitrāsu saṃsārān aśubhāṃs tathā
32 jathare cāśubhe vāsaṃ śonitodaka bhājane
śleṣma mūtra purīṣe ca tīvragandhasamanvite
33 śukraśonita saṃghāte majjāsnāyuparigrahe
sirā śatasamākīrṇe navadvāre pure 'śucau
34 vijñāyāhitam ātmānaṃ yogāṃś ca vividhān nṛpa
tāmasānāṃ ca jantūnāṃ ramaṇīyāvṛtātmanām
35 sāttvikānāṃ ca jantūnāṃ kutsitaṃ bharatarṣabha
garhitaṃ mahatām arthe sāṃkhyānāṃ viditātmanām
36 upaplavāṃs tathā ghorāñ śaśinas tejasas tathā
tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam
37 dvandvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ nṛpa
anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham
38 bālye mohaṃ ca vijñāya kṣayaṃ dehasya cāśubham
rāge mohe ca saṃprāpte kva cit sattvaṃ samāśritam
39 sahasreṣu naraḥ kaś cin mokṣabuddhiṃ samāśritaḥ
durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam
40 bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ
viṣayāṇāṃ ca daurātmyaṃ vijñāya nṛpate punaḥ
41 gatāsūnāṃ ca kaunteya dehān dṛṣṭvā tathāśubhān
vāsaṃ kuleṣu jantūnāṃ duḥkhaṃ vijñāya bhārata
42 brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām
surā pāne ca saktānāṃ brāhmaṇānāṃ durātmanām
guru dāraprasaktānāṃ gatiṃ vijñāya cāśubhām
43 jananīṣu ca vartante ye na samyag yudhiṣṭhira
sadevakeṣu lokeṣu ye na vartanti mānavāḥ
44 tena jñānena vijñāya gatiṃ cāśubha karmaṇām
tiryagyonigatānāṃ ca vijñāya gatayaḥ pṛthak
45 vedavādāṃs tathā citrān ṛtūnāṃ paryayāṃs tathā
kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ prakṣayaṃ tathā
46 pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam
kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatas tathā
47 vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ
kṣayaṃ dhanānāṃ ca tathā punar vṛddhiṃ tathaiva ca
48 samogānāṃ kṣayaṃ dṛṣṭvā yugānāṃ ca viśeṣataḥ
kṣayaṃ ca dṛṣṭvā śailānāṃ kṣayaṃ ca saritāṃ tathā
49 varṇānāṃ ca kṣayaṃ dṛṣṭvā kṣayāntaṃ ca punaḥ punaḥ
jarāmṛtyuṃ tathā janma dṛṣṭvā duḥkhāni caiva ha
50 dehadoṣāṃs tathā jñātvā teṣāṃ duḥkhaṃ ca tattvataḥ
deva viklavatāṃ caiva samyag vijñāya bhārata
51 ātmadoṣāṃś ca vijñāya sarvān ātmani saṃśritān
svadehād utthitān gandhāṃs tathā vijñāya cāśubham
52 [y]
kān svagātrodbhavān doṣān paśyasy amitavikrama
etan me saṃśayaṃ kṛtsnaṃ vaktum arhasi tattvataḥ
53 [bhī]
pañca doṣān prabho dehe pravadanti manīṣiṇaḥ
mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇu tān arisūdana
54 kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate
ete doṣāḥ śarīreṣu dṛśyante sarvadehinām
55 chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt
sattvasaṃśīlanān nidrām apramādād bhayaṃ tathā
chindanti pañcamaṃ śvāsaṃ laghv āhāratayā nṛpa
56 guṇān guṇaśatair jñātvā doṣān doṣaśatair api
hetūn hetuśataiś citraiś citrān vijñāya tattvataḥ
57 apāṃ phenopamaṃ lokaṃ viṣṇor māyā śatair vṛtam
cittabhitti pratīkāśaṃ nala sāram anarthakam
58 tamaḥ śvabhra nibhaṃ dṛṣṭvā varṣabudbuda saṃnibham
nāśa prāyaṃ sukhād dhīnaṃ nāśottaram abhāvagam
rajas tamasi saṃmagnaṃ paṅke dvipam ivāvaśam
59 sāṃkhyā rājan mahāprājñās tyaktvā dehaṃ prajā kṛtam
jñānajñeyena sāṃkhyena vyāpinā mahatā nṛpa
60 rājasān aśubhān gandhāṃs tāmasāṃś ca tathāvidhān
puṇyāṃś ca sāttvikān gandhān sparśajān dehasaṃśritān
chittvāśu jñānaśastreṇa tapo dandena bhārata
61 tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam
vyādhimṛtyumahāgrāhaṃ mahābhayamahoragam
62 tamaḥ kūrmaṃ rajo mīnaṃ prajñayā saṃtaranty uta
snehapaṅkaṃ jarā durgaṃ sparśadvīpam ariṃdama
63 karmāgādhaṃ satyatīraṃ sthitavratam idaṃ nṛpa
hiṃsā śīghramahāvegaṃ nānā rasamahākaram
64 nānā prītimahāratnaṃ duḥkhajvara samīraṇam
śokatṛṣṇā mahāvartaṃ tīskna vyādhimahāgajam
65 asthi saṃghātasaṃghātaṃ śleṣma phenam ariṃdama
dānam uktākaraṃ bhīmaṃ śonita hrada vidrutam
66 hasitotkruṣṭa nirghoṣaṃ nānā jñānasudustaram
rodanāśru malakṣāraṃ saṅgatyāgaparāyanam
67 punar ā janma lokaughaṃ putra bāndhavapattanam
ahiṃsā satyamaryādaṃ prāṇa tyāgamahormiṇam
68 vedāntagamana dvīpaṃ sarvabhūtadayodadhim
mokṣaduṣprāpa viṣayaṃ vadavā mukhasāgaram
69 taranti munayaḥ siddhā jñānayogena bhārata
tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ
70 tatas tān sukṛtīn sāṃkhyān sūryo vahati raśmibhiḥ
padmatantuvad āviśya pravahan viṣayān nṛpa
71 tatra tān pravaho vāyuḥ pratigṛhṇāti bhārata
vītarāgān yatīn siddhān vīryayuktāṃs tapodhanān
72 sūkṣmaḥ śītaḥ sugandhī ca sukhasparśaś ca bhārata
saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān
sa tān vahati kaunteya nabhasaḥ paramāṃ gatim
73 nabho vahati lokeśa rajasaḥ paramāṃ gatim
rajo vahati rājendra sattvasya paramāṃ gatim
74 sattvaṃ vahati śuddhātman paraṃ nārāyaṇaṃ prabhum
prabhur vahati śuddhātmā paramātmānam ātmanā
75 paramātmānam āsādya tad bhūtāyatanāmalāḥ
amṛtatvāya kalpante na nivartanti cābhibho
paramā sā gatiḥ pārtha nirdvandvānāṃ mahātmanām
76 [y]
sthānam uttamam āsādya bhagavantaṃ sthiravratāḥ
ājanma maraṇaṃ vā te smaranty upa na vānagha
77 yad atra tathyaṃ tan me tvaṃ yathāvad vaktum arhasi
tvadṛte mānavaṃ nānyaṃ prastum arhāmi kaurava
78 mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn
yadi tatraiva vijñāne vartante yatayaḥ pare
79 pravṛtti lakṣaṇaṃ dharmaṃ paśyāmi paramaṃ nṛpa
magnasya hi pare jñāne kiṃ nu duḥkhataraṃ bhavet
80 [bhī]
yathānyāyaṃ tvayā tāta praśnaḥ pṛṣṭaḥ susaṃkaṭaḥ
buddhānām api saṃmohaḥ praśne 'smin bharatarṣabha
atrāpi tattvaṃ paramaṃ śṛṇu samyag bhayeritam
81 buddhiś ca paramā yatra kāpilānāṃ mahātmanām
indriyāṇy api budhyante svadehaṃ dehino nṛpa
kāraṇāy ātmanas tāni sūkṣmaḥ paśyati tais tu saḥ
82 ātmanā viprahīnāni kāṣṭha kundya samāni tu
vinaśyanti na saṃdehaḥ phenā iva mahārṇave
83 indriyaiḥ saha suptasya dehinaḥ śatrutāpana
sūkṣmaś carati sarvatra nabhasīva samīraṇaḥ
84 sa paśyati yathānyāyaṃ sparśān spṛśati cābhibho
budhyamāno yathāpūrvam akhileneha bhārata
85 indriyāṇīha sarvāṇi sve sve sthāne yathāvidhi
anīśatvāt pralīyante sarpā hataviṣā iva
86 indriyāṇāṃ tu sarveṣāṃ svasthāneṣv eva sarvaśaḥ
ākramya gatayaḥ sūkṣmāś caraty ātmā na saṃśayaḥ
87 sattvasya ca guṇān kṛtsnān rajasaś ca guṇān punaḥ
guṇāṃś ca tamasaḥ sarvān guṇān buddheś ca bhārata
88 guṇāṃś ca manasas tadvan nabhasaś ca guṇāṃs tathā
guṇān vāyoś ca dharmātmaṃs tejasaś ca guṇān punaḥ
89 apāṃ guṇāṃs tathā pārtha pārthivāṃś ca guṇān api
sarvātmanā guṇair vyāpya kṣetrajñaḥ sa yudhiṣṭhira
90 ātmā ca yāti kṣetrajñaṃ karmaṇī ca śubhāśubhe
śiṣyā iva mahātmānam indriyāṇi ca taṃ vibho
91 prakṛtiṃ cāpy atikramya gacchaty ātmānam avyayam
paraṃ nārāyaṇātmānaṃ nirdvandvaṃ prakṛteḥ param
92 vimuktaḥ puṇyapāpebhyaḥ praviṣṭas tam anāmayam
paramātmānam aguṇaṃ na nivartati bhārata
93 śiṣṭaṃ tv atra manas tāta indriyāṇi ca bhārata
āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ
94 śakyaṃ cālpena kālena śāntiṃ prāptuṃ guṇārthinā
evaṃ yuktena kaunteya yuktajñānena mokṣiṇā
95 sāṃkhyā rājan mahāprājñā gacchanti paramāṃ gatim
jñānenānena kaunteya tulyaṃ jñānaṃ na vidyate
96 atra te saṃśayo mā bhūj jñānaṃ sāṃkhyaṃ paraṃ matam
akṣaraṃ dhruvam avyaktaṃ pūrvaṃ brahma sanātanam
97 anādimadhyanidhanaṃ nirdvandvaṃ kartṛ śāśvatam
kūtasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ
98 yataḥ sarvāḥ pravartante sarga pralaya vikriyāḥ
yac ca śaṃsanti śāstreṣu vadanti paramarṣayaḥ
99 sarve viprāś ca devāś ca tathāgamavido janāḥ
brahmaṇyaṃ paramaṃ devam anantaṃ parato 'cyutam
100 prārthayantaś ca taṃ viprā vadanti guṇabuddayaḥ
samyag yuktās tathā yogāḥ sāṃkhyāś cāmitadarśanāḥ
101 amūrtes tasya kaunteya sāṃkhyaṃ mūrtir iti śrutiḥ
abhijñānāni tasyāhur mataṃ hi bharatarṣabha
102 dvividhānīha bhūtāni pṛthivyāṃ pṛthivīpate
jaṅgamāgama saṃjñāni jaṅgamaṃ tu viśiṣyate
103 jñānaṃ mahad yad dhi mahatsu rājan; vedeṣu sāṃkhyeṣu tathaiva yoge
yac cāpi dṛṣṭaṃ vividhaṃ purāṇaṃ; sāṃkhyāgataṃ tan nikhilaṃ narendra
104 yac cetihāseṣu mahatsu dṛṣṭaṃ; yac cārthaśāstre nṛpa śiṣṭajuṣṭe
jñānaṃ ca loke yad ihāsti kiṃ cit; sāṃkhyāgataṃ tac ca mahan mahātman
105 śamaś ca dṛṣṭaḥ paramaṃ balaṃ ca; jñānaṃ ca sūkṣmaṃ ca yathāvad uktam
tapāṃsi sūkṣmāṇi sukhāni caiva; sāṃkhye yathāvad vihitāni rājan
106 viparyaye tasya hi pārtha devān; gacchanti sāṃkhyāḥ satataṃ sukhena
tāṃś cānusaṃcārya tataḥ kṛtārthāḥ; patanti vipreṣu yateṣu bhūyaḥ
107 hitvā ca dehaṃ praviśanti mokṣaṃ; divaukaso dyām iva pārtha sāṃkhyāḥ
tato 'dhikaṃ te 'bhiratā mahārhe; sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe
108 teṣāṃ na tiryag gamanaṃ hi dṛṣṭaṃ; nāvāg gatiḥ pāpakṛtāṃ nivāsaḥ
na cābudhānām api te dvijātayo; ye jñānam etan nṛpate 'nuraktāḥ
109 sāṃkyaṃ viśālaṃ paramaṃ purāṇaṃ; mahārṇavaṃ vimalam udārakāntam
kṛtsnaṃ ca sāṃkhyaṃ nṛpate mahātmā; nārāyaṇo dhārayate 'prameyam
110 etan mayoktaṃ naradeva tattvaṃ; nārāyaṇo viśvam idaṃ purāṇam
sa sarga kāle ca karoti sargaṃ; saṃhāra kāle ca tad atti bhūyaḥ

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1630 of 2013 Book 81% ~13 min left