Book 12: Chapter 29
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 12: Chapter 29

The Mahabharata in Sanskrit

Book 12
Chapter 29

1 [वैषम्पायन]
अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे
गुडाकेशॊ हृषीकेशम अभ्यभाषत पाण्डवः
2 जञातिशॊकाभिसंतप्तॊ धर्मराजः परंतपः
एष शॊकार्णवे मग्नस तम आश्वासय माधव
3 सर्वे सम ते संशयिताः पुनर एव जनार्दन
अस्य शॊकं महाबाहॊ परणाशयितुम अर्हसि
4 एवम उक्तस तु गॊविन्दॊ विजयेन महात्मना
पर्यवर्तत राजानं पुण्डरीकेक्षणॊ ऽचयुतः
5 अनतिक्रमणीयॊ हि धर्मराजस्य केशवः
बाल्यात परभृति गॊविन्दः परीत्या चाभ्यधिकॊ ऽरजुनात
6 संप्रगृह्य महाबाहुर भुजं चन्दनभूषितम
शैलस्तम्भॊपमं शौरिर उवाचाभिविनॊदयन
7 शुशुभे वदनं तस्य सुदंष्ट्रं चारुलॊचनम
वयाकॊशम इव विस्पष्टं पद्मं सूर्यविबॊधितम
8 मा कृथाः पुरुषव्याघ्र शॊकं तवं गात्रशॊषणम
न हि ते सुलभा भूयॊ ये हतास्मिन रणाजिरे
9 सवप्नलब्धा यथा लाभा वि तथाः परतिबॊधने
एवं ते कषत्रिया राजन ये वयतीता महारणे
10 सर्वे हय अभिमुखाः शूरा विगता रणशॊभिनः
नैषां कश चित पृष्ठतॊ वा पलायन वापि पातितः
11 सर्वे तयक्त्वात्मनः पराणान युद्ध्वा वीरा महाहवे
शस्त्रपूता दिवं पराप्ता न ताञ शॊचितुम अर्हसि
12 अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम
सृञ्जयं पुत्रशॊकार्तं यथायं पराह नारदः
13 सुखदुःखैर अहं तवं च परजाः सर्वाश च सृञ्जय
अविमुक्तं चरिष्यामस तत्र का परिदेवना
14 महाभाग्यं परं राज्ञां कीर्त्यमानं मया शृणु
गच्छावधानं नृपते ततॊ दुःखं परहास्यसि
15 मृतान महानुभावांस तवं शरुत्वैव तु महीपतीन
शरुत्वापनय संतापं शृणु विस्तरशश च मे
16 आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि
यस्य सेन्द्राः स वरुणा बृहस्पतिपुरॊगमाः
देवा विश्वसृजॊ राज्ञॊ यज्ञम ईयुर महात्मनः
17 यः सपर्धाम अनयच छक्रं देवराजं शतक्रतुम
शक्र परियैषी यं विद्वान परत्याचष्ट बृहस्पतिः
संवर्तॊ याजयाम आस यं पीडार्थं बृहस्पतेः
18 यस्मिन परशासति सतां नृपतौ नृपसत्तम
अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी
19 आविक्षितस्य वै सत्रे विश्वे देवाः सभा सदः
मरुतः परिवेष्टारः साध्याश चासन महात्मनः
20 मरुद्गणा मरुत्तस्य यत सॊमम अपिबन्त ते
देवान मनुष्यान गन्धर्वान अत्यरिच्यन्त दक्षिणाः
21 स चेन ममार सृञ्जय चतुर्भद्रतरस तवया
पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः
22 सुहॊत्रं चेद वैतिथिनं मृतं सृञ्जय शुश्रुम
यस्मै हिरण्यं ववृषे मगह्वान परिवत्सरम
23 सत्यनामा वसुमती यं पराप्यासीज जनाधिप
हिरण्यम अवहन नद्यस तस्मिञ जनपदेश्वरे
24 कूर्मान कर्कटकान नक्रान मकराञ शिंशुकान अपि
नदीष्व अपातयद राजन मघवा लॊकपूजितः
25 हैरण्यान पतितान दृष्ट्वा मत्स्यान मकरकच्छपान
सहस्रशॊ ऽथ शतशस ततॊ ऽसमयत वैतिथिः
26 तद धिरण्यम अपर्यन्तम आवृत्तं कुरुजाङ्गले
ईजानॊ वितते यज्ञे बराह्मणेभ्यः समाहितः
27 स चेन ममार सृञ्जय चतुर्भद्रतरस तवया
पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः
अदक्षिणम अयज्वानं शवैत्य संशाम्य मा शुचः
28 अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय
यः सहस्रं सहस्राणां शवेतान अश्वान अवासृजत
29 सहस्रं च सहस्राणां कन्या हेमविभूषिताः
ईजानॊ वितते यज्ञे दक्षिणाम अत्यकालयत
30 शतं शतसहस्राणां वृषाणां हेममालिनाम
गवां सहस्रानुचरं दक्षिणाम अत्यकालयत
31 अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ
अमाद्यद इन्द्रः सॊमेन दक्षिणाभिर दविजातयः
32 यस्य यज्ञेषु राजेन्द्र शतसंख्येषु वै पुनः
देवान मनुष्यान गन्धर्वान अत्यरिच्यन्त दक्षिणाः
33 न जातॊ जनिता चान्यः पुमान यस तत परदास्यति
यद अङ्गः परददौ वित्तं सॊमसंस्थासु सप्तसु
34 स चेन ममार सृञ्जय चतुर्भद्रतरस तवया
पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः
35 शिबिम औशीनरं चैव मृतं शुश्रुम सृञ्जय
य इमां पृथिवीं कृत्स्नां चर्मवत समवेष्टयत
36 महता रथघॊषेण पृथिवीम अनुनादयन
एकछत्रां महीं चक्रे जैत्रेणैक रथेन यः
37 यावद अद्य गवाश्वं सयाद आरण्यैः पशुभिः सह
तावतीः परददौ गाः स शिबिर औशीनरॊ ऽधवरे
38 नॊद्यन्तारं धुरं तस्य कं चिन मेने परजापतिः
न भूतं न भविष्यन्तं सर्वराजसु भारत
अन्यत्रौशीनराच छैब्याद राजर्षेर इन्द्र विक्रमात
39 स चेन ममार सृञ्जय चतुर्भद्रतरस तवया
पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः
अदक्षिणम अयज्वानं तं वै संशाम्य मा शुचः
40 भरतं चैव दौःषन्तिं मृतं सृञ्जय शुश्रुम
शाकुन्तलिं महेष्वासं भूरि दरविण तेजसम
41 यॊ बद्ध्वा तरिंशतॊ हय अश्वान देवैभ्यॊ यमुनाम अनु
सरस्वतीं विंशतिं च गङ्गाम अनु चतुर्दश
42 अश्वमेध सहस्रेण राजसूय शतेन च
इष्टवान स महातेजा दौःषन्तिर भरतः पुरा
43 भरतस्य महत कर्म सर्वराजसु पार्थिवाः
खं मर्त्या इव बाहुभ्यां नानुगन्तुम अशक्नुवन
44 परं सहस्राद यॊ बद्ध्वा हयान वेदीं विचित्य च
सहस्रं यत्र पद्मानां कण्वाय भरतॊ ददौ
45 स चेन ममार सृञ्जय चतुर्भद्रतरस तवया
पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः
46 रामं दाशरथिं चैव मृतं शुश्रुम सृञ्जय
यॊ ऽनवकम्पत वै नित्यं परजाः पुत्रान इवौरसान
47 विधवा यस्य विषये नानाथाः काश चनाभवन
सर्वस्यासीत पितृसमॊ रामॊ राज्यं यदान्वशात
48 कालवर्षाश च पर्जन्याः सस्यानि रसवन्ति च
नित्यं सुभिक्षम एवासीद रामे राज्यं परशासति
49 पराणिनॊ नाप्सु मज्जन्ति नानर्थे पावकॊ ऽदहत
न वयालजं भयं चासीद रामे राज्यं परशासति
50 आसन वर्षसहस्राणि तथा पुत्रसहस्रिकाः
अरॊगाः सर्वसिद्धार्थाः परजा रामे परशासति
51 नान्यॊन्येन विवादॊ ऽभूत सत्रीणाम अपि कुतॊ नृणाम
धर्मनित्याः परजाश चासन रामे राज्यं परशासति
52 नित्यपुष्पफलाश चैव पादपा निरुपद्रवाः
सर्वा दरॊण दुघा गावॊ रामे राज्यं परशासति
53 स चतुर्दश वर्षाणि वने परॊष्य महातपाः
दशाश्वमेधाञ जारूथ्यान आजहार निरर्गलान
54 शयामॊ युवा लॊहिताक्षॊ मत्तवारणविक्रमः
दशवर्षसहस्राणि रामॊ राज्यम अकारयत
55 स चेन ममार सृञ्जय चतुर्भद्रतरस तवया
पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः
56 भगीरथं च राजानं मृतं शुश्रुम सृञ्जय
यस्येद्न्रॊ वितते यज्ञे सॊमं पीत्वा मदॊत्कटः
57 असुराणां सहस्राणि बहूनि सुरसत्तमः
अजयद बाहुवीर्येण भगवान पाकशासनः
58 यः सहस्रं सहस्राणां कन्या हेमविभूषिताः
ईजानॊ वितते यज्ञे दक्षिणाम अत्यकालयत
59 सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः
रथे रथे शतं नागाः पद्मिनॊ हेममालिनः
60 सहस्रम अश्वा एकैकं हस्तिनं पृष्ठतॊ ऽनवयुः
गवां सहस्रम अश्वे ऽशवे सहस्रं गव्य अजाविकम
61 उपह्वरे निवसतॊ यस्याङ्के निषसाद ह
गङ्गा भागीरथी तस्माद उर्वशी हय अभवत पुरा
62 भूरिदक्षिणम इक्ष्वाकुं यजमानं भगीरथम
तरिलॊकपथ गा गङ्गा दुहितृत्वम उपेयिषी
63 स चेन ममार सृञ्जय चतुर्भद्रतरस तवया
पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः
64 दिलीपं चैवैलविलं मृतं शुश्रुम सृञ्जय
यस्य कर्माणि भूरीणि कथयन्ति दविजातयः
65 इमां वै वसु संपन्नां वसुधां वसुधाधिपः
ददौ तस्मिन महायज्ञे बराह्मणैभ्यः समाहितः
66 तस्येह यजमानस्य यज्ञे यज्ञे पुरॊहितः
सहस्रं वारणान हैमान दक्षिणाम अत्यकालयत
67 यस्य यज्ञे महान आसीद यूपः शरीमान हिरण्मयः
तं देवाः कर्म कुर्वाणाः शक्र जयेष्ठा उपाश्रयन
68 चषालॊ यस्य सौवर्णस तस्मिन यूपे हिरण्मये
ननृतुर देवगन्धर्वाः षट सहस्राणि सप्तधा
69 अवादयत तत्र वीणां मध्ये विश्वावसुः सवयम
सर्वभूतान्य अमन्यन्त मम वादयतीत्य अयम
70 एतद राज्ञॊ दिलीपस्य राजानॊ नानुचक्रिरे
यत सत्रियॊ हेमसंपन्नाः पथि मत्ताः सम शेरते
71 राजानम उग्रधन्वानं दिलीपं सत्यवादिनम
ये ऽपश्यन सुमहात्मानं ते ऽपि सवर्गजितॊ नराः
72 तरयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने
सवाध्यायघॊषॊ जयाघॊषॊ दीयताम इति चैव हि
73 स चेन ममार सृञ्जय चतुर्भद्रतरस तवया
पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः
74 मांधातारं यौवनाश्वं मृतं शुश्रुम सृञ्जय
यं देवा मरुतॊ गर्भं पितुः पार्श्वाद अपाहरन
75 संवृद्धॊ युवनाश्वस्य जठरे यॊ महात्मनः
पृषद आज्यॊद्भवः शरीमांस तरिलॊकविजयी नृपः
76 यं दृष्ट्वा पितुर उत्सङ्गे शयानं देवरूपिणम
अन्यॊन्यम अब्रुवन देवाः कम अयं धास्यतीति वै
77 माम एव धास्यतीत्य एवम इन्द्रॊ अभ्यवपद्यत
मांधातेति ततस तस्य नाम चक्रे शतक्रतुः
78 ततस तु पयसॊ धारां पुष्टि हेतॊर महात्मनः
तस्यास्ये यौवनाश्वस्य पाणिर इन्द्रस्य चास्रवत
79 तं पिबन पाणिम इन्द्रस्य समाम अह्ना वयवर्धत
स आसीद दवादश समॊ दवादशाहेन पार्थिव
80 तम इयं पृथिवी सर्वा एकाह्ना समपद्यत
धर्मात्मानं महात्मानं शूरम इन्द्रसमं युधि
81 य आङ्गारं हि नृपतिं मरुत्तम असितं गयम
अङ्गं बृहद्रथं चैव मांधाता समरे ऽजयत
82 यौवनाश्वॊ यदाङ्गारं समरे समयॊधयत
विस्फारैर धनुषॊ देवा दयौर अभेदीति मेनिरे
83 यतः सूर्य उदेति सम यत्र च परतितिष्ठति
सर्वं तद यौवनाश्वस्य मांधातुः कषेत्रम उच्यते
84 अश्वमेध शतेनेष्ट्वा राजसूय शतेन च
अददाद रॊहितान मत्स्यान बराह्मणैभ्यॊ महीपतिः
85 हैरण्यान यॊजनॊत्सेधान आयतान दशयॊजनम
अतिरिक्तान दविजातिभ्यॊ वयभजन्न इतरे जनाः
86 स चेन ममार सृञ्जय चतुर्भद्रतरस तवया
पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः
87 ययातिं नाहुषं चैव मृतं शुश्रुम सृञ्जय
य इमां पृथिवीं सर्वां विजित्य सह सागराम
88 शम्या पातेनाभ्यतीयाद वेदीभिश चित्रयन नृप
ईजानः करतुभिः पुण्यैः पर्यगच्छद वसुंधराम
89 इष्ट्वा करतुसहस्रेण वाजिमेधशतेन च
तर्पयाम आस देवेन्द्रं तरिभिः काञ्चनपर्वतैः
90 वयूढे देवासुरे युद्धे हत्वा दैतेय दानवान
वयभजत पृथिवीं कृत्स्नां ययातिर नहुषात्मजः
91 अन्तेषु पुत्रान निक्षिप्य यदुद्रुह्यु पुरॊगमान
पूरुं राज्ये ऽभिषिच्य सवे सदारः परस्थितॊ वनम
92 स चेन ममार सृञ्जय चतुर्भद्रतरस तवया
पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः
93 अम्बरीषं च नाभागं मृतं शुश्रुम सृञ्जय
यं परजा वव्रिरे पुण्यं गॊप्तारं नृपसत्तम
94 यः सहस्रं सहस्राणां राज्ञाम अयुत याजिनाम
ईजानॊ वितते यज्ञे बराह्मणैभ्यः समाहितः
95 नैतत पूर्वे जनाश चक्रुर न करिष्यन्ति चापरे
इत्य अम्बरीषं नाभागम अन्वमॊदन्त दक्षिणाः
96 शतं राजसहस्राणि शतं राजशतानि च
सर्वे ऽशवमेधैर ईजानास ते ऽभययुर दक्षिणायनम
97 स चेन ममार सृञ्जय चतुर्भद्र तरस तवया
पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः
98 शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय
यस्य भार्या सहस्राणां शतम आसीन महात्मनः
99 सहस्रं तु सहस्राणां यस्यासञ शाश बिन्दवः
हिरण्यकवचाः सर्वे सर्वे चॊत्तमधन्विनः
100 शतं कन्या राजपुत्रम एकैकं पृष्ठतॊ ऽनवयुः
कन्यां कन्यां शतं नागा नागं नागं शतं रथाः
101 रथं रथं शतं चाश्वा देशजा हेममालिनः
अश्वम अश्वं शतं गावॊ गां गां तद्वद अजाविकम
102 एतद धनम अपर्यन्तम अश्वमेधे महामखे
शशबिन्दुर महाराज बराह्मणैभ्यः समादिशत
103 स चेन ममार सृञ्जय चतुर्भद्रतरस तवया
पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः
104 गयम आमूर्तरयसं मृतं शुश्रुम सृञ्जय
यः स वर्षशतं राजा हुतशिष्टाशनॊ ऽभवत
105 यस्मै वह्निर वरान परादात ततॊ वव्रे वरान गयः
ददतॊ मे ऽकषया चास्तु धर्मे शरद्धा च वर्धताम
106 मनॊ मे रमतां सत्ये तवत्प्रसादाद धुताशन
लेभे च कामांस तान सर्वान पावकाद इति नः शरुतम
107 दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः
अयजत स महातेजाः सहस्रं परिवत्सरान
108 शतं गवां सहस्राणि शतम अश्वशतानि च
उत्थायॊत्थाय वै परादात सहस्रं परिवत्सरान
109 तर्पयाम आस सॊमेन देवान वित्तैर दविजान अपि
पितॄन सवधाभिः कामैश च सत्रियः सवाः पुरुषर्षभ
110 सौवर्णां पृथिवीं कृत्वा दशव्यामां दविर आयताम
दक्षिमाम अददद राजा वाजिमेधमहामखे
111 यावत्यः सिकता राजन गङ्गायाः पुरुषर्षभ
तावतीर एव गाः परादाद आमूर्तरयसॊ गयः
112 स चेन ममार सृञ्जय चतुर्भद्रतरस तवया
पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः
113 रन्ति देवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय
सम्यग आराध्य यः शक्रं वरं लेभे महायशाः
114 अन्नं च नॊ बहु भवेद अतिथींश च लभेमहि
शरद्धा च नॊ मा वयगमन मा च याचिष्म कं चन
115 उपातिष्ठन्त पशवः सवयं तं संशितव्रतम
गराम्यारण्या महात्मानं रन्ति देवं यशस्विनम
116 महानदी चर्म राशेर उत्क्लेदात सुस्रुवे यतः
ततश चर्मण्वतीत्य एवं विख्याता सा महानदी
117 बराह्मणैभ्यॊ ददौ निष्कान सदसि परतते नृपः
तुभ्यं तुभ्यं निष्कम इति यत्राक्रॊशन्ति वै दविजाः
सहस्रं तुभ्यम इत्य उक्त्वा बराह्मणान सम परपद्यते
118 अन्वाहार्यॊपकरणं दरव्यॊपकरणं च यत
घटाः सथाल्यः कटाहाश च पात्र्यश च पिठरा अपि
न तत किं चिद असौवर्णं रन्ति देवस्य धीमतः
119 साङ्कृते रन्ति देवस्य यां रात्रिम अवसद गृहे
आलभ्यन्त शतं गावः सहस्राणि च विंशतिः
120 तत्र सम सूदाः करॊशन्ति सुमृष्टमणिकुण्डलाः
सूपभूयिष्ठम अश्नीध्वं नाद्य मांसं यथा पुरा
121 स चेन ममार सृञ्जय चतुर्भद्रतरस तवया
पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः
122 सगरं च महात्मानं मृतं शुश्रुम सृञ्जय
ऐक्ष्वाकं पुरुषव्याघ्रम अति मानुषविक्रमम
123 षष्टिः पुत्रसहस्राणि यं यान्तं पृष्ठतॊ ऽनवयुः
नक्षत्रराजं वर्षान्ते वयभ्रे जयॊतिर गणा इव
124 एकछत्रा मही यस्य परणता हय अभवत पुरा
यॊ ऽशवमेध सहस्रेण तर्पयाम आस देवताः
125 यः परादात काञ्चनस्तम्भं परासादं सर्वकाञ्चनम
पूर्णं पद्मदलाक्षीणां सत्रीणां शयनसंकुलम
126 दविजातिभ्यॊ ऽनुरूपैभ्यः कामान उच्चावचांस तथा
यस्यादेशेन तद वित्तं वयभजन्त दविजातयः
127 खानयाम आस यः कॊपात पृथिवीं सागराङ्किताम
यस्य नाम्ना समुद्रश च सागरत्वम उपागतः
128 स चेन ममार सृञ्जय चतुर्भद्रतरस तवया
पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः
129 राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय
यम अभ्यषिञ्चन संभूय महारण्ये महर्षयः
130 परथयिष्यति वै लॊकान पृथुर इत्य एव शब्दितः
कषताच च नस तरायतीति स तस्मात कषत्रियः समृतः
131 पृथुं वैन्यं परजा दृष्ट्वा रक्ताः समेति यद अब्रुवन
ततॊ राजेति नामास्य अनुरागाद अजायत
132 अकृष्टपच्या पृथिवी पुटके पुटके मधु
सर्वा दरॊण दुघा गावॊ वैन्यस्यासन परशासतः
133 अरॊगाः सर्वसिद्धार्था मनुष्या अकुतॊभयाः
यथाभिकामम अवसन कषेत्रेषु च गृहेषु च
134 आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः
सरितश चानुदीर्यन्त धवजसङ्गश च नाभवत
135 हैरण्यांस तरिनलॊत्सेधान पर्वतान एकविंशतिम
बराह्मणैभ्यॊ ददौ राजा यॊ ऽशवमेधे महामखे
136 स चेन ममार सृञ्जय चतुर्भद्रतरस तवया
पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः
137 किं वै तूष्णीं धयायसि सृञ्जय तवं; न मे राजन वाचम इमां शृणॊषि
न चेन मॊघं विप्रलप्तं मयेदं; पथ्यं मुमूर्षॊर इव सम्यग उक्तम
138 [सृन्जय]
शृणॊमि ते नारद वाचम एतां; विचित्रार्थां सरजम इव पुण्यगन्धाम
राजर्षीणां पुण्यकृतां महात्मनां; कीर्त्या युक्तां शॊकनिर्णाशनार्थम
139 न ते मॊघं विप्रलप्तं महर्षे; दृष्ट्वैव तवां नारदाहं वि शॊकः
शुश्रूषे ते वचनं बरह्मवादिन; न ते तृप्याम्य अमृतस्येव पानात
140 अमॊघदर्शिन मम चेत परसादं; सुताघ दग्धस्य विभॊ परकुर्याः
मृतस्य संजीवनम अद्य मे सयात; तव परसादात सुत संगमश च
141 [नारद]
यस ते पुत्रॊ दयितॊ ऽयं वियातः; सवर्णष्ठीवी यम अदात पर्वतस ते
पुनस ते तं पुत्रम अहं ददामि; हिरण्यनाभं वर्षसहस्रिणं च
1 [vaiṣampāyana]
avyāharati kaunteye dharmaputre yudhiṣṭhire
guḍākeśo hṛṣīkeśam abhyabhāṣata pāṇḍavaḥ
2 jñātiśokābhisaṃtapto dharmarājaḥ paraṃtapaḥ
eṣa śokārṇave magnas tam āśvāsaya mādhava
3 sarve sma te saṃśayitāḥ punar eva janārdana
asya śokaṃ mahābāho praṇāśayitum arhasi
4 evam uktas tu govindo vijayena mahātmanā
paryavartata rājānaṃ puṇḍarīkekṣaṇo 'cyutaḥ
5 anatikramaṇīyo hi dharmarājasya keśavaḥ
bālyāt prabhṛti govindaḥ prītyā cābhyadhiko 'rjunāt
6 saṃpragṛhya mahābāhur bhujaṃ candanabhūṣitam
śailastambhopamaṃ śaurir uvācābhivinodayan
7 śuśubhe vadanaṃ tasya sudaṃṣṭraṃ cārulocanam
vyākośam iva vispaṣṭaṃ padmaṃ sūryavibodhitam
8 mā kṛthāḥ puruṣavyāghra śokaṃ tvaṃ gātraśoṣaṇam
na hi te sulabhā bhūyo ye hatāsmin raṇājire
9 svapnalabdhā yathā lābhā vi tathāḥ pratibodhane
evaṃ te kṣatriyā rājan ye vyatītā mahāraṇe
10 sarve hy abhimukhāḥ śūrā vigatā raṇaśobhinaḥ
naiṣāṃ kaś cit pṛṣṭhato vā palāyan vāpi pātitaḥ
11 sarve tyaktvātmanaḥ prāṇān yuddhvā vīrā mahāhave
śastrapūtā divaṃ prāptā na tāñ śocitum arhasi
12 atraivodāharantīmam itihāsaṃ purātanam
sṛñjayaṃ putraśokārtaṃ yathāyaṃ prāha nāradaḥ
13 sukhaduḥkhair ahaṃ tvaṃ ca prajāḥ sarvāś ca sṛñjaya
avimuktaṃ cariṣyāmas tatra kā paridevanā
14 mahābhāgyaṃ paraṃ rājñāṃ kīrtyamānaṃ mayā śṛṇu
gacchāvadhānaṃ nṛpate tato duḥkhaṃ prahāsyasi
15 mṛtān mahānubhāvāṃs tvaṃ śrutvaiva tu mahīpatīn
śrutvāpanaya saṃtāpaṃ śṛṇu vistaraśaś ca me
16 āvikṣitaṃ maruttaṃ me mṛtaṃ sṛñjaya śuśruhi
yasya sendrāḥ sa varuṇā bṛhaspatipurogamāḥ
devā viśvasṛjo rājño yajñam īyur mahātmanaḥ
17 yaḥ spardhām anayac chakraṃ devarājaṃ śatakratum
śakra priyaiṣī yaṃ vidvān pratyācaṣṭa bṛhaspatiḥ
saṃvarto yājayām āsa yaṃ pīḍārthaṃ bṛhaspateḥ
18 yasmin praśāsati satāṃ nṛpatau nṛpasattama
akṛṣṭapacyā pṛthivī vibabhau caityamālinī
19 āvikṣitasya vai satre viśve devāḥ sabhā sadaḥ
marutaḥ pariveṣṭāraḥ sādhyāś cāsan mahātmanaḥ
20 marudgaṇā maruttasya yat somam apibanta te
devān manuṣyān gandharvān atyaricyanta dakṣiṇāḥ
21 sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
22 suhotraṃ ced vaitithinaṃ mṛtaṃ sṛñjaya śuśruma
yasmai hiraṇyaṃ vavṛṣe magahvān parivatsaram
23 satyanāmā vasumatī yaṃ prāpyāsīj janādhipa
hiraṇyam avahan nadyas tasmiñ janapadeśvare
24 kūrmān karkaṭakān nakrān makarāñ śiṃśukān api
nadīṣv apātayad rājan maghavā lokapūjitaḥ
25 hairaṇyān patitān dṛṣṭvā matsyān makarakacchapān
sahasraśo 'tha śataśas tato 'smayata vaitithiḥ
26 tad dhiraṇyam aparyantam āvṛttaṃ kurujāṅgale
ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ
27 sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
adakṣiṇam ayajvānaṃ śvaitya saṃśāmya mā śucaḥ
28 aṅgaṃ bṛhadrathaṃ caiva mṛtaṃ śuśruma sṛñjaya
yaḥ sahasraṃ sahasrāṇāṃ śvetān aśvān avāsṛjat
29 sahasraṃ ca sahasrāṇāṃ kanyā hemavibhūṣitāḥ
ījāno vitate yajñe dakṣiṇām atyakālayat
30 śataṃ śatasahasrāṇāṃ vṛṣāṇāṃ hemamālinām
gavāṃ sahasrānucaraṃ dakṣiṇām atyakālayat
31 aṅgasya yajamānasya tadā viṣṇupade girau
amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ
32 yasya yajñeṣu rājendra śatasaṃkhyeṣu vai punaḥ
devān manuṣyān gandharvān atyaricyanta dakṣiṇāḥ
33 na jāto janitā cānyaḥ pumān yas tat pradāsyati
yad aṅgaḥ pradadau vittaṃ somasaṃsthāsu saptasu
34 sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
35 śibim auśīnaraṃ caiva mṛtaṃ śuśruma sṛñjaya
ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat
36 mahatā rathaghoṣeṇa pṛthivīm anunādayan
ekachatrāṃ mahīṃ cakre jaitreṇaika rathena yaḥ
37 yāvad adya gavāśvaṃ syād āraṇyaiḥ paśubhiḥ saha
tāvatīḥ pradadau gāḥ sa śibir auśīnaro 'dhvare
38 nodyantāraṃ dhuraṃ tasya kaṃ cin mene prajāpatiḥ
na bhūtaṃ na bhaviṣyantaṃ sarvarājasu bhārata
anyatrauśīnarāc chaibyād rājarṣer indra vikramāt
39 sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
adakṣiṇam ayajvānaṃ taṃ vai saṃśāmya mā śucaḥ
40 bharataṃ caiva dauḥṣantiṃ mṛtaṃ sṛñjaya śuśruma
śākuntaliṃ maheṣvāsaṃ bhūri draviṇa tejasam
41 yo baddhvā triṃśato hy aśvān devaibhyo yamunām anu
sarasvatīṃ viṃśatiṃ ca gaṅgām anu caturdaśa
42 aśvamedha sahasreṇa rājasūya śatena ca
iṣṭavān sa mahātejā dauḥṣantir bharataḥ purā
43 bharatasya mahat karma sarvarājasu pārthivāḥ
khaṃ martyā iva bāhubhyāṃ nānugantum aśaknuvan
44 paraṃ sahasrād yo baddhvā hayān vedīṃ vicitya ca
sahasraṃ yatra padmānāṃ kaṇvāya bharato dadau
45 sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
46 rāmaṃ dāśarathiṃ caiva mṛtaṃ śuśruma sṛñjaya
yo 'nvakampata vai nityaṃ prajāḥ putrān ivaurasān
47 vidhavā yasya viṣaye nānāthāḥ kāś canābhavan
sarvasyāsīt pitṛsamo rāmo rājyaṃ yadānvaśāt
48 kālavarṣāś ca parjanyāḥ sasyāni rasavanti ca
nityaṃ subhikṣam evāsīd rāme rājyaṃ praśāsati
49 prāṇino nāpsu majjanti nānarthe pāvako 'dahat
na vyālajaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati
50 āsan varṣasahasrāṇi tathā putrasahasrikāḥ
arogāḥ sarvasiddhārthāḥ prajā rāme praśāsati
51 nānyonyena vivādo 'bhūt strīṇām api kuto nṛṇām
dharmanityāḥ prajāś cāsan rāme rājyaṃ praśāsati
52 nityapuṣpaphalāś caiva pādapā nirupadravāḥ
sarvā droṇa dughā gāvo rāme rājyaṃ praśāsati
53 sa caturdaśa varṣāṇi vane proṣya mahātapāḥ
daśāśvamedhāñ jārūthyān ājahāra nirargalān
54 śyāmo yuvā lohitākṣo mattavāraṇavikramaḥ
daśavarṣasahasrāṇi rāmo rājyam akārayat
55 sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
56 bhagīrathaṃ ca rājānaṃ mṛtaṃ śuśruma sṛñjaya
yasyednro vitate yajñe somaṃ pītvā madotkaṭaḥ
57 asurāṇāṃ sahasrāṇi bahūni surasattamaḥ
ajayad bāhuvīryeṇa bhagavān pākaśāsanaḥ
58 yaḥ sahasraṃ sahasrāṇāṃ kanyā hemavibhūṣitāḥ
ījāno vitate yajñe dakṣiṇām atyakālayat
59 sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ
rathe rathe śataṃ nāgāḥ padmino hemamālinaḥ
60 sahasram aśvā ekaikaṃ hastinaṃ pṛṣṭhato 'nvayuḥ
gavāṃ sahasram aśve 'śve sahasraṃ gavy ajāvikam
61 upahvare nivasato yasyāṅke niṣasāda ha
gaṅgā bhāgīrathī tasmād urvaśī hy abhavat purā
62 bhūridakṣiṇam ikṣvākuṃ yajamānaṃ bhagīratham
trilokapatha gā gaṅgā duhitṛtvam upeyiṣī
63 sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
64 dilīpaṃ caivailavilaṃ mṛtaṃ śuśruma sṛñjaya
yasya karmāṇi bhūrīṇi kathayanti dvijātayaḥ
65 imāṃ vai vasu saṃpannāṃ vasudhāṃ vasudhādhipaḥ
dadau tasmin mahāyajñe brāhmaṇaibhyaḥ samāhitaḥ
66 tasyeha yajamānasya yajñe yajñe purohitaḥ
sahasraṃ vāraṇān haimān dakṣiṇām atyakālayat
67 yasya yajñe mahān āsīd yūpaḥ śrīmān hiraṇmayaḥ
taṃ devāḥ karma kurvāṇāḥ śakra jyeṣṭhā upāśrayan
68 caṣālo yasya sauvarṇas tasmin yūpe hiraṇmaye
nanṛtur devagandharvāḥ ṣaṭ sahasrāṇi saptadhā
69 avādayat tatra vīṇāṃ madhye viśvāvasuḥ svayam
sarvabhūtāny amanyanta mama vādayatīty ayam
70 etad rājño dilīpasya rājāno nānucakrire
yat striyo hemasaṃpannāḥ pathi mattāḥ sma śerate
71 rājānam ugradhanvānaṃ dilīpaṃ satyavādinam
ye 'paśyan sumahātmānaṃ te 'pi svargajito narāḥ
72 trayaḥ śabdā na jīryante dilīpasya niveśane
svādhyāyaghoṣo jyāghoṣo dīyatām iti caiva hi
73 sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
74 māṃdhātāraṃ yauvanāśvaṃ mṛtaṃ śuśruma sṛñjaya
yaṃ devā maruto garbhaṃ pituḥ pārśvād apāharan
75 saṃvṛddho yuvanāśvasya jaṭhare yo mahātmanaḥ
pṛṣad ājyodbhavaḥ śrīmāṃs trilokavijayī nṛpaḥ
76 yaṃ dṛṣṭvā pitur utsaṅge śayānaṃ devarūpiṇam
anyonyam abruvan devāḥ kam ayaṃ dhāsyatīti vai
77 mām eva dhāsyatīty evam indro abhyavapadyata
māṃdhāteti tatas tasya nāma cakre śatakratuḥ
78 tatas tu payaso dhārāṃ puṣṭi hetor mahātmanaḥ
tasyāsye yauvanāśvasya pāṇir indrasya cāsravat
79 taṃ piban pāṇim indrasya samām ahnā vyavardhata
sa āsīd dvādaśa samo dvādaśāhena pārthiva
80 tam iyaṃ pṛthivī sarvā ekāhnā samapadyata
dharmātmānaṃ mahātmānaṃ śūram indrasamaṃ yudhi
81 ya āṅgāraṃ hi nṛpatiṃ maruttam asitaṃ gayam
aṅgaṃ bṛhadrathaṃ caiva māṃdhātā samare 'jayat
82 yauvanāśvo yadāṅgāraṃ samare samayodhayat
visphārair dhanuṣo devā dyaur abhedīti menire
83 yataḥ sūrya udeti sma yatra ca pratitiṣṭhati
sarvaṃ tad yauvanāśvasya māṃdhātuḥ kṣetram ucyate
84 aśvamedha śateneṣṭvā rājasūya śatena ca
adadād rohitān matsyān brāhmaṇaibhyo mahīpatiḥ
85 hairaṇyān yojanotsedhān āyatān daśayojanam
atiriktān dvijātibhyo vyabhajann itare janāḥ
86 sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
87 yayātiṃ nāhuṣaṃ caiva mṛtaṃ śuśruma sṛñjaya
ya imāṃ pṛthivīṃ sarvāṃ vijitya saha sāgarām
88 śamyā pātenābhyatīyād vedībhiś citrayan nṛpa
ījānaḥ kratubhiḥ puṇyaiḥ paryagacchad vasuṃdharām
89 iṣṭvā kratusahasreṇa vājimedhaśatena ca
tarpayām āsa devendraṃ tribhiḥ kāñcanaparvataiḥ
90 vyūḍhe devāsure yuddhe hatvā daiteya dānavān
vyabhajat pṛthivīṃ kṛtsnāṃ yayātir nahuṣātmajaḥ
91 anteṣu putrān nikṣipya yadudruhyu purogamān
pūruṃ rājye 'bhiṣicya sve sadāraḥ prasthito vanam
92 sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
93 ambarīṣaṃ ca nābhāgaṃ mṛtaṃ śuśruma sṛñjaya
yaṃ prajā vavrire puṇyaṃ goptāraṃ nṛpasattama
94 yaḥ sahasraṃ sahasrāṇāṃ rājñām ayuta yājinām
ījāno vitate yajñe brāhmaṇaibhyaḥ samāhitaḥ
95 naitat pūrve janāś cakrur na kariṣyanti cāpare
ity ambarīṣaṃ nābhāgam anvamodanta dakṣiṇāḥ
96 śataṃ rājasahasrāṇi śataṃ rājaśatāni ca
sarve 'śvamedhair ījānās te 'bhyayur dakṣiṇāyanam
97 sa cen mamāra sṛñjaya caturbhadra taras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
98 śaśabinduṃ caitrarathaṃ mṛtaṃ śuśruma sṛñjaya
yasya bhāryā sahasrāṇāṃ śatam āsīn mahātmanaḥ
99 sahasraṃ tu sahasrāṇāṃ yasyāsañ śāśa bindavaḥ
hiraṇyakavacāḥ sarve sarve cottamadhanvinaḥ
100 śataṃ kanyā rājaputram ekaikaṃ pṛṣṭhato 'nvayuḥ
kanyāṃ kanyāṃ śataṃ nāgā nāgaṃ nāgaṃ śataṃ rathāḥ
101 rathaṃ rathaṃ śataṃ cāśvā deśajā hemamālinaḥ
aśvam aśvaṃ śataṃ gāvo gāṃ gāṃ tadvad ajāvikam
102 etad dhanam aparyantam aśvamedhe mahāmakhe
śaśabindur mahārāja brāhmaṇaibhyaḥ samādiśat
103 sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
104 gayam āmūrtarayasaṃ mṛtaṃ śuśruma sṛñjaya
yaḥ sa varṣaśataṃ rājā hutaśiṣṭāśano 'bhavat
105 yasmai vahnir varān prādāt tato vavre varān gayaḥ
dadato me 'kṣayā cāstu dharme śraddhā ca vardhatām
106 mano me ramatāṃ satye tvatprasādād dhutāśana
lebhe ca kāmāṃs tān sarvān pāvakād iti naḥ śrutam
107 darśena paurṇamāsena cāturmāsyaiḥ punaḥ punaḥ
ayajat sa mahātejāḥ sahasraṃ parivatsarān
108 śataṃ gavāṃ sahasrāṇi śatam aśvaśatāni ca
utthāyotthāya vai prādāt sahasraṃ parivatsarān
109 tarpayām āsa somena devān vittair dvijān api
pitṝn svadhābhiḥ kāmaiś ca striyaḥ svāḥ puruṣarṣabha
110 sauvarṇāṃ pṛthivīṃ kṛtvā daśavyāmāṃ dvir āyatām
dakṣimām adadad rājā vājimedhamahāmakhe
111 yāvatyaḥ sikatā rājan gaṅgāyāḥ puruṣarṣabha
tāvatīr eva gāḥ prādād āmūrtarayaso gayaḥ
112 sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
113 ranti devaṃ ca sāṅkṛtyaṃ mṛtaṃ śuśruma sṛñjaya
samyag ārādhya yaḥ śakraṃ varaṃ lebhe mahāyaśāḥ
114 annaṃ ca no bahu bhaved atithīṃś ca labhemahi
śraddhā ca no mā vyagaman mā ca yāciṣma kaṃ cana
115 upātiṣṭhanta paśavaḥ svayaṃ taṃ saṃśitavratam
grāmyāraṇyā mahātmānaṃ ranti devaṃ yaśasvinam
116 mahānadī carma rāśer utkledāt susruve yataḥ
tataś carmaṇvatīty evaṃ vikhyātā sā mahānadī
117 brāhmaṇaibhyo dadau niṣkān sadasi pratate nṛpaḥ
tubhyaṃ tubhyaṃ niṣkam iti yatrākrośanti vai dvijāḥ
sahasraṃ tubhyam ity uktvā brāhmaṇān sma prapadyate
118 anvāhāryopakaraṇaṃ dravyopakaraṇaṃ ca yat
ghaṭāḥ sthālyaḥ kaṭāhāś ca pātryaś ca piṭharā api
na tat kiṃ cid asauvarṇaṃ ranti devasya dhīmataḥ
119 sāṅkṛte ranti devasya yāṃ rātrim avasad gṛhe
ālabhyanta śataṃ gāvaḥ sahasrāṇi ca viṃśatiḥ
120 tatra sma sūdāḥ krośanti sumṛṣṭamaṇikuṇḍalāḥ
sūpabhūyiṣṭham aśnīdhvaṃ nādya māṃsaṃ yathā purā
121 sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
122 sagaraṃ ca mahātmānaṃ mṛtaṃ śuśruma sṛñjaya
aikṣvākaṃ puruṣavyāghram ati mānuṣavikramam
123 ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ
nakṣatrarājaṃ varṣānte vyabhre jyotir gaṇā iva
124 ekachatrā mahī yasya praṇatā hy abhavat purā
yo 'śvamedha sahasreṇa tarpayām āsa devatāḥ
125 yaḥ prādāt kāñcanastambhaṃ prāsādaṃ sarvakāñcanam
pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam
126 dvijātibhyo 'nurūpaibhyaḥ kāmān uccāvacāṃs tathā
yasyādeśena tad vittaṃ vyabhajanta dvijātayaḥ
127 khānayām āsa yaḥ kopāt pṛthivīṃ sāgarāṅkitām
yasya nāmnā samudraś ca sāgaratvam upāgataḥ
128 sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
129 rājānaṃ ca pṛthuṃ vainyaṃ mṛtaṃ śuśruma sṛñjaya
yam abhyaṣiñcan saṃbhūya mahāraṇye maharṣayaḥ
130 prathayiṣyati vai lokān pṛthur ity eva śabditaḥ
kṣatāc ca nas trāyatīti sa tasmāt kṣatriyaḥ smṛtaḥ
131 pṛthuṃ vainyaṃ prajā dṛṣṭvā raktāḥ smeti yad abruvan
tato rājeti nāmāsya anurāgād ajāyata
132 akṛṣṭapacyā pṛthivī puṭake puṭake madhu
sarvā droṇa dughā gāvo vainyasyāsan praśāsataḥ
133 arogāḥ sarvasiddhārthā manuṣyā akutobhayāḥ
yathābhikāmam avasan kṣetreṣu ca gṛheṣu ca
134 āpaḥ saṃstambhire yasya samudrasya yiyāsataḥ
saritaś cānudīryanta dhvajasaṅgaś ca nābhavat
135 hairaṇyāṃs trinalotsedhān parvatān ekaviṃśatim
brāhmaṇaibhyo dadau rājā yo 'śvamedhe mahāmakhe
136 sa cen mamāra sṛñjaya caturbhadrataras tvayā
putrāt puṇyataraś caiva mā putram anutapyathāḥ
137 kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ; na me rājan vācam imāṃ śṛṇoṣi
na cen moghaṃ vipralaptaṃ mayedaṃ; pathyaṃ mumūrṣor iva samyag uktam
138 [sṛnjaya]
śṛṇomi te nārada vācam etāṃ; vicitrārthāṃ srajam iva puṇyagandhām
rājarṣīṇāṃ puṇyakṛtāṃ mahātmanāṃ; kīrtyā yuktāṃ śokanirṇāśanārtham
139 na te moghaṃ vipralaptaṃ maharṣe; dṛṣṭvaiva tvāṃ nāradāhaṃ vi śokaḥ
śuśrūṣe te vacanaṃ brahmavādin; na te tṛpyāmy amṛtasyeva pānāt
140 amoghadarśin mama cet prasādaṃ; sutāgha dagdhasya vibho prakuryāḥ
mṛtasya saṃjīvanam adya me syāt; tava prasādāt suta saṃgamaś ca
141 [nārada]
yas te putro dayito 'yaṃ viyātaḥ; svarṇaṣṭhīvī yam adāt parvatas te
punas te taṃ putram ahaṃ dadāmi; hiraṇyanābhaṃ varṣasahasriṇaṃ ca

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1369 of 2013 Book 68% ~16 min left