Book 12: Chapter 192
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 12: Chapter 192

The Mahabharata in Sanskrit

Book 12
Chapter 192

1 [य]
कालमृत्युयमानां च बराह्मणस्य च सत्तम
विवादॊ वयाहृतः पूर्वं तद भवान वक्तुम अर्हति
2 [भी]
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
इक्ष्वाकॊः सूर्यपुत्रस्य यद्वृत्तं बराह्मणस्य च
3 कालस्य मृत्यॊश च तथा यद्वृत्तं तन निबॊध मे
यथा स तेषां संवादॊ यस्मिन सथाने ऽपि चाभवत
4 बराह्मणॊ जापकः कश चिद धर्मवृत्तॊ महायशाः
षडङ्गविन महाप्राज्ञः पैप्पलादिः स कौशिकः
5 तस्यापरॊक्षं विज्ञानं षडङ्गेषु तथैव च
वेदेषु चैव निष्णातॊ हिमवत्पादसंश्रयः
6 सॊ ऽनत्यं बराह्मं तपस तेपे संहितां संयतॊ जपन
तस्य वर्षसहस्रं तु नियमेन तथागतम
7 स देव्या दर्शितः साक्षात परीतास्मीति तदा किल
जप्यम आवर्तयंस तूस्नीं न च तां किं चिद अब्रवीत
8 तस्यानुकम्पया देवी परीता समभवत तदा
वेद माता ततस तस्य तज जप्यं समपूजयत
9 समाप्तजप्यस तूत्थाय शिरसा पादयॊस तथा
पपात देव्या धर्मात्मा वचनं चेदम अब्रवीत
10 दिष्ट्या देवि परसन्ना तवं दर्शनं चागता मम
यदि वापि परसन्नासि जप्ये मे रमतां मनः
11 [सावित्री]
किं परार्थयसि विप्रर्षे किं चेष्टं करवाणि ते
परब्रूहि जपतां शरेष्ठ सर्वं तत ते भविष्यति
12 [भी]
इत्य उक्तः स तदा देव्या विप्रः परॊवाच धर्मवित
जप्यं परति ममेच्छेयं वर्धत्व इति पुनः पुनः
13 मनसश चसमाधिर मे वर्धेताहर अहः शुभे
तत तथेति ततॊ देवी मधुरं परत्यभासत
14 इदं चैवापरं पराह देवी तत्प्रियकाम्यया
निरयं नैव यातासि यत्र याता दविजर्षभाः
15 यास्यसि बरह्मणः सथानम अनिमित्तम अनिन्दितम
साधये भविता चैतद यत तवयाहम इहार्थिता
16 नियतॊ जप चैकाग्रॊ धर्मस तवां समुपैष्यति
कालॊ मृत्युर यमश चैव समायास्यन्ति ते ऽनतिकम
भविता च विवादॊ ऽतर तव तेषां च धर्मतः
17 एवम उक्त्वा घवगती जगाम भवनं सवकम
बराह्मणॊ ऽपि जपन्न आस्ते दिव्यं वर्षशतं तदा
18 समाप्ते नियमे तस्मिन्न अथ विप्रस्य धीमतः
साक्षात परीतस तदा धर्मॊ दर्शयाम आस तं दविजम
19 [धर्म]
दविजाते पश्य मां धर्मम अहं तवां दरष्टुम आगतः
जप्यस्य च फलं यत ते संप्राप्तं तच च मे शृणु
20 जिता लॊकास तवया सर्वे ये दिव्या ये च मानुषाः
देवानां निरयान साधॊ सर्वान उत्क्रम्य यास्यसि
21 पराण तयागं कुरु मुने गच्छ लॊकान यथेप्सितान
तयक्त्वात्मनः शरीरं च ततॊ लॊकान अवाप्स्यसि
22 [बराह्मण]
कृतं लॊकैर हि मे धर्मगच्छ च तवं यथासुखम
बहुदुःखसुखं देहं नॊत्सृजेयम अहं विभॊ
23 [धर्म]
अवश्यं भॊः शरीरं ते तयक्तव्यं मुनिपुंगव
सवर्ग आरॊह्यतां विप्र किं वा ते रॊचते ऽनघ
24 [बराह्मण]
न रॊचये सवर्गवसं विना देहाद अहं विभॊ
गच्छ धर्मन मे शरद्धा सवर्गं गन्तुं विनात्मना
25 [धर्म]
अलं देहे मनः कृत्वा तयक्त्वा देहं सुखी भव
गच्छ लॊकान अरजसॊ यत्र गत्वा न शॊचति
26 [बराह्मण]
रमे जपन महाभाग कृतं लॊकैः सनातनैः
सशरीरेण गन्तव्यॊ मया सवर्गॊ न वा विभॊ
27 [धर्म]
यदि तवं नेच्छसि तयक्तुं शरीरं पश्य व दविज
एष कालस तथा मृत्युर यमश च तवाम उपागताः
28 [भीस्म]
अथ वैवस्वतः कालॊ मृत्युश च तरितयं विभॊ
बराह्मणं तं महाभागम उपागम्येदम अब्रुवन
29 तपसॊ ऽसय सुतप्तस्य तथा सुचरितस्य च
फलप्राप्तिस तव शरेष्ठा यमॊ ऽहं तवाम उपब्रुवे
30 यथावद अस्य जप्यस्य फलं पराप्तस तवम उत्तमम
कालस ते सवर्गम आरॊधुं कालॊ ऽहं तवाम उपागतः
31 मृत्युं मा विधिधर्मज्ञ रूपिणं सवयम आगतम
कालेन चॊदितं विप्र तवाम इतॊ नेतुम अद्य वै
32 [बराह्मण]
सवागतं सूर्यपुत्राय कालाय च महात्मने
मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः
33 [भी]
अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस तत्र समागमे
अब्रवीत परमप्रीतः सवशक्त्या किं करॊमि वः
34 तस्मिन्न एवाथ काले तु तीर्थयात्राम उपागतः
इक्ष्वाकुर अगमत तत्र समेता यत्र ते विभॊ
35 सर्वान एव तु राजर्षिः संपूज्याभिप्रनम्य च
कुशलप्रश्नम अकरॊत सर्वेषां राजसत्तमः
36 तस्मै सॊ ऽथासनं दत्त्वा पाद्यम अर्घ्यं तथैव च
अब्रवीद बराह्मणॊ वाक्यं कृत्वा कुशलसंविदम
37 सवागतं ते महाराज बरूहि यद यद इहेच्छसि
सवशक्त्या किं करॊमीह तद भवान परब्रवीतु मे
38 [राजा]
राजाहं बराह्मणश च तवं यदि सः कर्म संस्थितः
ददामि वसु किं चित ते परार्थितं तद वदस्व मे
39 [बरा]
दविविधा बराह्मणा राजन धर्मश च दविविधः समृतः
परवृत्तश च निवृत्तश च निवृत्तॊ ऽसमि परतिग्रहात
40 तेभ्यः परयच्छ दानानि ये परवृत्ता नराधिप
अहं न परतिगृह्णामि किम इष्टं किं ददानि ते
बरूहि तवं नृपतिश्रेष्ठ तपसा साधयामि किम
41 [रा]
कषत्रियॊ ऽहं न जानामि देहीति वचनं कव चित
परयच्छ युद्धम इत्य एवं वादिनः समॊ दविजॊत्तम
42 [बरा]
तुष्यसि तवं सवधर्मेण तथा तुष्टा वयं नृप
अन्यॊन्यस्यॊत्तरं नास्ति यद इष्टं तत समाचर
43 [रा]
सवशक्त्याहं ददानीति तवया पूर्वं परभासितम
याचे तवां दियतां मह्यं जप्यस्यास्य फलं दविज
44 [बरा]
युद्धं मम सदा वाणी याचतीति विकत्थसे
न च युद्धं मया सार्धं किमर्थं याचसे पुनः
45 [रा]
वाग्वज्रा बराह्मणा परॊक्ताः कषत्रिया बाहुजीविनः
वाग युद्धं तद इदं तीव्रं मम विप्र तवया सह
46 [बरा]
सैवाद्यापि परतिज्ञा मे सवशक्त्या किं परदीयताम
बरूहि दास्यामि राजेन्द्र विभवे सति माचिरम
47 [रा]
यत तद वर्षशतं पूर्णं जप्यं वै जपता तवया
फलं पराप्तं तत परयच्छ मम दित्सुर भवान यदि
48 [बरा]
परमं गृह्यतां तस्य फलं यज जपितं मया
अर्धं तवम अविचारेण फलं तस्य समाप्नुहि
49 अथ वा सर्वम एवेह जप्यकं मामकं फलम
राजन पराप्नुहि कामं तवं यदि सर्वम इहेच्छसि
50 [रा]
कृतं सर्वेण भद्रं ते जप्यं यद याचितं मया
सवस्ति ते ऽसतु गमिष्यामि किं चतस्य फलं वद
51 [बरा]
फलप्राप्तिं न जानामि दत्तं यज जपितं मया
अयं धर्मश च कालश च यमॊ मृत्युश च साक्षिणः
52 [रा]
अज्ञातम अस्य धर्मस्य फलं मे किं करिष्यति
पराप्नॊतु तत फलं विप्रॊ नाहम इच्छे ससंशयम
53 [बरा]
नाददे ऽपरवक्तव्यं दत्तं वाचा फलं मया
वाक्यं परमानं राजर्षे ममापि तव चैव हि
54 नाभिसंधिर मया जप्ये कृतपूर्वः कथं चन
जप्यस्य राजशार्दूल कथं जञास्याम्य अहं फलम
55 ददस्वेति तवया चॊक्तं ददामीति तथा मया
न वाचं दूसयिष्यामि सत्यं रक्ष सथिरॊ भव
56 अथैवं वदतॊ मे ऽदय वचनं न करिष्यसि
महान अधर्मॊ भविता तव राजन मृषा कृतः
57 न युक्तं तु मृषा वाणी तवया वक्तुम अरिन्दम
तथा मयाप्य अभ्यधिकं मृषा वक्तुं न शक्यते
58 संश्रुतं च मया पूर्वं ददानीत्य अविचारितम
तद्गृह्णीस्वाविचारेण यदि सत्ये सथितॊ भवान
59 इहागम्य हि मां राजञ जाप्यं फलम अयाचिथाः
तन मन निसृष्टं गृह्णीस्व भव सत्ये सथिरॊ ऽपि च
60 नायं लॊकॊ ऽसति न परॊ न च पूर्वान स तारयेत
कुत एवावरान राजन मृषावादपरायनः
61 न यज्ञाध्ययने दानं नियमास तारयन्ति हि
तथा सत्यं परे लॊके यथा वै पुरुषर्षभ
62 तपांसि यानि चीर्णानि चरिष्यसि च यत तपः
समाः शतैः सहस्रैश च तत सत्यान न विशिष्यते
63 सत्यम एकाक्षरं बरह्मसत्यम एकाक्षरं तपः
सत्यम एकाक्षरॊ यज्ञः सत्यम एकाक्षरं शरुतम
64 सत्यं वेदेषु जागर्ति फलं सत्ये परं समृतम
सत्याद धर्मॊ दमश चैव सर्वं सत्ये परतिष्ठितम
65 सत्यं वेदास तथाङ्गानि सत्यं यज्ञस तथा विधिः
वरतचर्यास तथा सत्यम ओंकारः सत्यम एव च
66 परानिनां जननं सत्यं सत्यं संततिर एव च
सत्येन वायुर अभ्येति सत्येन तपते रविः
67 सत्येन चाग्निर दहति सवर्गः सत्ये परतिष्ठितः
सत्यं यज्ञस तपॊ वेदाः सतॊभा मन्त्राः सरस्वती
68 तुलाम आरॊपितॊ धर्मः सत्यं चैवेति नः शरुतम
समां कक्षां धारयतॊ यतः सत्यं ततॊ ऽधिकम
69 यतॊ धर्मस ततः सत्यं सर्वं सत्येन वर्धते
किमर्थम अनृतं कर्म कर्तुं राजंस तवम इच्छसि
70 सत्ये कुरु सथिरं भावं मा राजन्न अनृतं कृथाः
कस्मात तवम अनृतं वाक्यं देहीति कुरुषे ऽशुभम
71 यदि जप्यफलं दत्तं मया नेसिष्यसे नृप
सवधर्मेभ्यः परिभ्रष्टॊ लॊकान अनुचरिष्यसि
72 संश्रुत्य यॊ न दित्सेत याचित्वा यश च नेच्छति
उभाव आनृतिकाव एतौ न मृषा कर्तुम अर्हसि
73 [रा]
यॊद्धव्यं रक्षितव्यं च कषत्रधर्मः किल दविज
दातारः कषत्रियाः परॊक्ता गृह्णीयां भवतः कथम
74 [बरा]
न छन्दयामि ते राजन नापि ते गृहम आव्रजम
इहागम्य तु याचित्वा न गृह्णीसे पुनः कथम
75 [धर्म]
अविवादॊ ऽसतु युवयॊर वित्तं मां धर्मम आगतम
दविजॊ दानफलैर युक्तॊ राजा सत्यफलेन च
76 [सवर्ग]
सवर्गं मां विद्धि राजेन्द्र रूपिणं सवयम आगतम
अविवादॊ ऽसतु युवयॊर उभौ तुल्यफलौ युवाम
77 [रा]
कृतं सवर्गेण मे कार्यं गच्छ सवर्गयथासुखम
विप्रॊ यदीच्छते दातुं परतीच्छतु च मे धनम
78 [बरा]
बाल्ये यदि सयाद अज्ञानान मया हस्तः परसारितः
निवृत्ति लक्षणं धर्मम उपासे संहितां जपन
79 निवृत्तं मां चिरं राजन विप्रं लॊभयसे कथम
सवेन कार्यं करिष्यामि तवत्तॊ नेच्छे फलं नृप
तपःस्वाध्यय शीलॊ ऽहं निवृत्तश च परतिग्रहात
80 [रा]
यदि विप्र निसृष्टं ते जप्यस्य फलम उत्तमम
आवयॊर यत फलं किं चित सहितं नौ तद अस्त्व इह
81 दविजाः परतिग्रहे युक्ता दातारॊ राजवंशजाः
यदि धर्मः शरुतॊ विप्र सहैव फलम अस्तु नौ
82 मा वा भूत सह भॊज्यं नौ मदीयं फलम आप्नुहि
परतीच्छ मत्कृतं धर्मं यदि ते मय्य अनुग्रहः
83 [भी]
ततॊ विकृतचेष्टौ दवौ पुरुषौ समुपस्थितौ
गृहीत्वान्यॊन्यम आवेष्ट्य कुचेलाव ऊचतुर वचः
84 न मे धारयसीत्य एकॊ धारयामीति चापरः
इहास्ति नौ विवादॊ ऽयम अयं राजानुशासकः
85 सत्यं बरवीम्य अहम इदं न मे धारयते भवान
अनृतं वदसीह तवम ऋणं ते धारयाम्य अहम
86 ताव उभौ भृशसंतप्तौ राजानम इदम ऊचतुः
परीक्ष्यतां यथा सयाव नावाम इह विगर्हितौ
87 [विकृत]
धारयामि नरव्याघ्र विकृतस्येह गॊः फलम
ददतश च न गृह्णाति विकृतॊ मे महीपते
88 [विरूप]
न मे धारयते किं चिद विरूपॊ ऽयं नराधिप
मिथ्या बरवीत्य अयं हि तवा मिथ्याभासं नराधिप
89 [रा]
विरूपकिं धारयते भवान अस्य वदस्व मे
शरुत्वा तथा करिष्यामीत्य एवं मे धीयते मतिः
90 [विरूप]
शृणुष्वावहितॊ राजन यथैतद धारयाम्य अहम
विकृतस्यास्य राजर्षे निखिलेन नरर्षभ
91 अनेन धर्मप्राप्त्य अर्थं शुभा दत्ता पुरानघ
धेनुर विप्राय राजर्षे तपःस्वाध्यायशीलिने
92 तस्याश चायं मया राजन फलम अभ्येत्य याचितः
विकृतेन च मे दत्तं विशूधेनान्तरात्मना
93 ततॊ मे सुकृतं कर्मकृतम आत्मविशुद्धये
गावौ हि कपिले करीत्वा वत्सले बहु दॊहने
94 ते चॊञ्छ वृत्तये राजन मया समपवर्जिते
यथाविधि यथाश्रद्धं तद अस्याहं पुनः परभॊ
95 इहाद्य वै गृहीत्वा तत परयच्छे दविगुणं फलम
एकस्याः पुरुषव्याघ्र कः शुद्धः कॊ ऽतर दॊषवान
96 एवं विवदमानौ सवस तवाम इहाभ्यागतौ नृप
कुरु धर्मम अधर्मं वा विनये नौ समाधय
97 यदि नेच्छति मे दानं यथादत्तम अनेन वै
भवान अत्र सथिरॊ भूत्वा मार्गे सथापयतु परभुः
98 [रा]
दीयमानं न गृह्णासि ऋणं कस्मात तवम अद्य वै
यथैव ते ऽभयनुज्ञातं तथा गृह्णीस्व माचिरम
99 [विकृत]
दीयताम इत्य अनेनॊक्तं ददानीति तथा मया
नायं मे धारयत्य अत्र गम्यतां यत्र वाञ्छति
100 [रा]
ददतॊ ऽसय न गृह्णासि विषमं परतिभाति मे
दन्द्यॊ हि तवं मम मतॊ नास्त्य अत्र खलु संशयः
101 [विकृत]
मयास्य दत्तं राजर्षे गृह्णीयां तत कथं पुनः
कामम अत्रापराधॊ मे दन्द्यम आज्ञापय परभॊ
102 [विरूप]
दीयमानं यदि मया नेसिष्यसि कथं चन
नियंस्यति तवा नृपतिर अयं धर्मानुशासकः
103 [विकृत]
सवं मया याचितेनेह दत्तं कथम इहाद्य तत
गृह्णीयां गच्छतु भवान अभ्यनुज्ञां ददानि ते
104 [बरा]
शरुतम एतत तवया राजन्न अनयॊः कथितं दवयॊः
परतिज्ञातं मया यत ते तद्गृहाणाविचारितम
105 [रा]
परस्तुतं सुमहत कार्यम आवयॊर गह्वरं यथा
जापकस्य दृधी कारः कथम एतद भविष्यति
106 यदि तावन न गृह्णामि बराह्मणेनापवर्जितम
कथं न लिप्येयम अहं दॊषेण महताद्य वै
107 [भी]
तौ चॊवाच स राजर्षिः कृतकार्यौ गमिष्यथः
नेदानीं माम इहासाद्य राजधर्मॊ भवेन मृषा
108 सवधर्मः परिपाल्यश च राज्ञाम एष विनिश्चयः
विप्र धर्मश च सुगुरुर माम अनात्मानम आविशत
109 [बरा]
गृहाण धारये ऽहं ते याचितं ते शरुतं मया
न चेद गरहीष्यसे राजञ शपिष्ये तवां न संशयः
110 [रा]
धिग राजधर्मं यस्यायं कार्यस्येह विनिश्चयः
इत्य अर्थं मे गरहीतव्यं कथं तुल्यं भवेद इति
111 एष पानिर अपूर्वं भॊ निक्षेपार्थं परसारितः
यन मे धारयसे विप्र तद इदानीं परदीयताम
112 [बरा]
संहिता जपता यावान मया कश चिद गुणः कृतः
तत सर्वं परतिगृह्णीस्व यदि किं चिद इहास्ति मे
113 [रा]
जलम एतन निपतितं मम पानौ दविजॊत्तम
समम अस्तु सहैवास्तु परतिगृह्णातु वै भवान
114 [विरूप]
कामक्रॊधौ विद्धि नौ तवम आवाभ्यां कारितॊ भवान
समेति च यद उक्तं ते समा लॊकास तवास्य च
115 नायं धारयते किं चिज जिज्ञासा तवत्कृते कृता
कालॊ धर्मस तथा मृत्युः कामक्रॊधौ तथा युवाम
116 सर्वम अन्यॊन्यनिकसे निघृष्टं पश्यतस तव
गच्छ लॊकाञ जितान सवेन कर्मणा यत्र वाञ्छति
117 [भी]
जापकानां फलावाप्तिर मया ते संप्रकीर्तिता
गतिः सथानं च लॊकाश च जापकेन यथा जिताः
118 परयाति संहिताध्यायी बराह्मणं परमेष्ठिनम
अथ वाग्निं समायाति सूर्यम आविशते ऽपि वा
119 स तैजसेन भावेन यदि तत्राश्नुते रतिम
गुणांस तेषां समादत्ते रागेण परतिमॊहितः
120 एवं सॊमे तथा वायौ भूम्याकाश शरीरगः
सरागस तत्र वसति गुणांस तेषां समाचरन
121 अथ तत्र विरागी स गच्छति तव अथ संशयम
परम अव्ययम इच्छन स तम एवाविशते पुनः
122 अमृताच चामृतं पराप्तः शीती भूतॊ निरात्मवान
बरह्मभूतः स निर्द्वन्द्वः सुखी शान्तॊ निरामयः
123 बरह्म सथानम अनावर्तम एकम अक्षरसंज्ञकम
अदुःखम अजरं शान्तं सथानं तत परतिपद्यते
124 चतुर्भिर लक्षणैर हीनं तथा षड्भिः सषॊडशैः
पुरुषं समतिक्रम्य आकाशं परतिपद्यते
125 अथ वेच्छति रागात्मा सर्वं तद अधितिष्ठति
यच च परार्थयते तच च मनसा परतिपद्यते
126 अथ वा वीक्षते लॊकान सर्वान निरयसंस्थितान
निःस्पृहः सर्वतॊ मुक्तस तत्रैव रमते सुखी
127 एवम एषा महाराज जापकस्य गतिर यथा
एतत ते सर्वम आख्यातं किं भूयः शरॊतुम इच्छसि
1 [y]
kālamṛtyuyamānāṃ ca brāhmaṇasya ca sattama
vivādo vyāhṛtaḥ pūrvaṃ tad bhavān vaktum arhati
2 [bhī]
atrāpy udāharantīmam itihāsaṃ purātanam
ikṣvākoḥ sūryaputrasya yadvṛttaṃ brāhmaṇasya ca
3 kālasya mṛtyoś ca tathā yadvṛttaṃ tan nibodha me
yathā sa teṣāṃ saṃvādo yasmin sthāne 'pi cābhavat
4 brāhmaṇo jāpakaḥ kaś cid dharmavṛtto mahāyaśāḥ
ṣaḍaṅgavin mahāprājñaḥ paippalādiḥ sa kauśikaḥ
5 tasyāparokṣaṃ vijñānaṃ ṣaḍaṅgeṣu tathaiva ca
vedeṣu caiva niṣṇāto himavatpādasaṃśrayaḥ
6 so 'ntyaṃ brāhmaṃ tapas tepe saṃhitāṃ saṃyato japan
tasya varṣasahasraṃ tu niyamena tathāgatam
7 sa devyā darśitaḥ sākṣāt prītāsmīti tadā kila
japyam āvartayaṃs tūsnīṃ na ca tāṃ kiṃ cid abravīt
8 tasyānukampayā devī prītā samabhavat tadā
veda mātā tatas tasya taj japyaṃ samapūjayat
9 samāptajapyas tūtthāya śirasā pādayos tathā
papāta devyā dharmātmā vacanaṃ cedam abravīt
10 diṣṭyā devi prasannā tvaṃ darśanaṃ cāgatā mama
yadi vāpi prasannāsi japye me ramatāṃ manaḥ
11 [sāvitrī]
kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te
prabrūhi japatāṃ śreṣṭha sarvaṃ tat te bhaviṣyati
12 [bhī]
ity uktaḥ sa tadā devyā vipraḥ provāca dharmavit
japyaṃ prati mameccheyaṃ vardhatv iti punaḥ punaḥ
13 manasaś casamādhir me vardhetāhar ahaḥ śubhe
tat tatheti tato devī madhuraṃ pratyabhāsata
14 idaṃ caivāparaṃ prāha devī tatpriyakāmyayā
nirayaṃ naiva yātāsi yatra yātā dvijarṣabhāḥ
15 yāsyasi brahmaṇaḥ sthānam animittam aninditam
sādhaye bhavitā caitad yat tvayāham ihārthitā
16 niyato japa caikāgro dharmas tvāṃ samupaiṣyati
kālo mṛtyur yamaś caiva samāyāsyanti te 'ntikam
bhavitā ca vivādo 'tra tava teṣāṃ ca dharmataḥ
17 evam uktvā ghavagatī jagāma bhavanaṃ svakam
brāhmaṇo 'pi japann āste divyaṃ varṣaśataṃ tadā
18 samāpte niyame tasminn atha viprasya dhīmataḥ
sākṣāt prītas tadā dharmo darśayām āsa taṃ dvijam
19 [dharma]
dvijāte paśya māṃ dharmam ahaṃ tvāṃ draṣṭum āgataḥ
japyasya ca phalaṃ yat te saṃprāptaṃ tac ca me śṛṇu
20 jitā lokās tvayā sarve ye divyā ye ca mānuṣāḥ
devānāṃ nirayān sādho sarvān utkramya yāsyasi
21 prāṇa tyāgaṃ kuru mune gaccha lokān yathepsitān
tyaktvātmanaḥ śarīraṃ ca tato lokān avāpsyasi
22 [brāhmaṇa]
kṛtaṃ lokair hi me dharmagaccha ca tvaṃ yathāsukham
bahuduḥkhasukhaṃ dehaṃ notsṛjeyam ahaṃ vibho
23 [dharma]
avaśyaṃ bhoḥ śarīraṃ te tyaktavyaṃ munipuṃgava
svarga ārohyatāṃ vipra kiṃ vā te rocate 'nagha
24 [brāhmaṇa]
na rocaye svargavasaṃ vinā dehād ahaṃ vibho
gaccha dharmana me śraddhā svargaṃ gantuṃ vinātmanā
25 [dharma]
alaṃ dehe manaḥ kṛtvā tyaktvā dehaṃ sukhī bhava
gaccha lokān arajaso yatra gatvā na śocati
26 [brāhmaṇa]
rame japan mahābhāga kṛtaṃ lokaiḥ sanātanaiḥ
saśarīreṇa gantavyo mayā svargo na vā vibho
27 [dharma]
yadi tvaṃ necchasi tyaktuṃ śarīraṃ paśya va dvija
eṣa kālas tathā mṛtyur yamaś ca tvām upāgatāḥ
28 [bhīsma]
atha vaivasvataḥ kālo mṛtyuś ca tritayaṃ vibho
brāhmaṇaṃ taṃ mahābhāgam upāgamyedam abruvan
29 tapaso 'sya sutaptasya tathā sucaritasya ca
phalaprāptis tava śreṣṭhā yamo 'haṃ tvām upabruve
30 yathāvad asya japyasya phalaṃ prāptas tvam uttamam
kālas te svargam ārodhuṃ kālo 'haṃ tvām upāgataḥ
31 mṛtyuṃ mā vidhidharmajña rūpiṇaṃ svayam āgatam
kālena coditaṃ vipra tvām ito netum adya vai
32 [brāhmaṇa]
svāgataṃ sūryaputrāya kālāya ca mahātmane
mṛtyave cātha dharmāya kiṃ kāryaṃ karavāṇi vaḥ
33 [bhī]
arghyaṃ pādyaṃ ca dattvā sa tebhyas tatra samāgame
abravīt paramaprītaḥ svaśaktyā kiṃ karomi vaḥ
34 tasminn evātha kāle tu tīrthayātrām upāgataḥ
ikṣvākur agamat tatra sametā yatra te vibho
35 sarvān eva tu rājarṣiḥ saṃpūjyābhipranamya ca
kuśalapraśnam akarot sarveṣāṃ rājasattamaḥ
36 tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca
abravīd brāhmaṇo vākyaṃ kṛtvā kuśalasaṃvidam
37 svāgataṃ te mahārāja brūhi yad yad ihecchasi
svaśaktyā kiṃ karomīha tad bhavān prabravītu me
38 [rājā]
rājāhaṃ brāhmaṇaś ca tvaṃ yadi saḥ karma saṃsthitaḥ
dadāmi vasu kiṃ cit te prārthitaṃ tad vadasva me
39 [brā]
dvividhā brāhmaṇā rājan dharmaś ca dvividhaḥ smṛtaḥ
pravṛttaś ca nivṛttaś ca nivṛtto 'smi pratigrahāt
40 tebhyaḥ prayaccha dānāni ye pravṛttā narādhipa
ahaṃ na pratigṛhṇāmi kim iṣṭaṃ kiṃ dadāni te
brūhi tvaṃ nṛpatiśreṣṭha tapasā sādhayāmi kim
41 [rā]
kṣatriyo 'haṃ na jānāmi dehīti vacanaṃ kva cit
prayaccha yuddham ity evaṃ vādinaḥ smo dvijottama
42 [brā]
tuṣyasi tvaṃ svadharmeṇa tathā tuṣṭā vayaṃ nṛpa
anyonyasyottaraṃ nāsti yad iṣṭaṃ tat samācara
43 [rā]
svaśaktyāhaṃ dadānīti tvayā pūrvaṃ prabhāsitam
yāce tvāṃ diyatāṃ mahyaṃ japyasyāsya phalaṃ dvija
44 [brā]
yuddhaṃ mama sadā vāṇī yācatīti vikatthase
na ca yuddhaṃ mayā sārdhaṃ kimarthaṃ yācase punaḥ
45 [rā]
vāgvajrā brāhmaṇā proktāḥ kṣatriyā bāhujīvinaḥ
vāg yuddhaṃ tad idaṃ tīvraṃ mama vipra tvayā saha
46 [brā]
saivādyāpi pratijñā me svaśaktyā kiṃ pradīyatām
brūhi dāsyāmi rājendra vibhave sati māciram
47 [rā]
yat tad varṣaśataṃ pūrṇaṃ japyaṃ vai japatā tvayā
phalaṃ prāptaṃ tat prayaccha mama ditsur bhavān yadi
48 [brā]
paramaṃ gṛhyatāṃ tasya phalaṃ yaj japitaṃ mayā
ardhaṃ tvam avicāreṇa phalaṃ tasya samāpnuhi
49 atha vā sarvam eveha japyakaṃ māmakaṃ phalam
rājan prāpnuhi kāmaṃ tvaṃ yadi sarvam ihecchasi
50 [rā]
kṛtaṃ sarveṇa bhadraṃ te japyaṃ yad yācitaṃ mayā
svasti te 'stu gamiṣyāmi kiṃ catasya phalaṃ vada
51 [brā]
phalaprāptiṃ na jānāmi dattaṃ yaj japitaṃ mayā
ayaṃ dharmaś ca kālaś ca yamo mṛtyuś ca sākṣiṇaḥ
52 [rā]
ajñātam asya dharmasya phalaṃ me kiṃ kariṣyati
prāpnotu tat phalaṃ vipro nāham icche sasaṃśayam
53 [brā]
nādade 'paravaktavyaṃ dattaṃ vācā phalaṃ mayā
vākyaṃ pramānaṃ rājarṣe mamāpi tava caiva hi
54 nābhisaṃdhir mayā japye kṛtapūrvaḥ kathaṃ cana
japyasya rājaśārdūla kathaṃ jñāsyāmy ahaṃ phalam
55 dadasveti tvayā coktaṃ dadāmīti tathā mayā
na vācaṃ dūsayiṣyāmi satyaṃ rakṣa sthiro bhava
56 athaivaṃ vadato me 'dya vacanaṃ na kariṣyasi
mahān adharmo bhavitā tava rājan mṛṣā kṛtaḥ
57 na yuktaṃ tu mṛṣā vāṇī tvayā vaktum arindama
tathā mayāpy abhyadhikaṃ mṛṣā vaktuṃ na śakyate
58 saṃśrutaṃ ca mayā pūrvaṃ dadānīty avicāritam
tadgṛhṇīsvāvicāreṇa yadi satye sthito bhavān
59 ihāgamya hi māṃ rājañ jāpyaṃ phalam ayācithāḥ
tan man nisṛṣṭaṃ gṛhṇīsva bhava satye sthiro 'pi ca
60 nāyaṃ loko 'sti na paro na ca pūrvān sa tārayet
kuta evāvarān rājan mṛṣāvādaparāyanaḥ
61 na yajñādhyayane dānaṃ niyamās tārayanti hi
tathā satyaṃ pare loke yathā vai puruṣarṣabha
62 tapāṃsi yāni cīrṇāni cariṣyasi ca yat tapaḥ
samāḥ śataiḥ sahasraiś ca tat satyān na viśiṣyate
63 satyam ekākṣaraṃ brahmasatyam ekākṣaraṃ tapaḥ
satyam ekākṣaro yajñaḥ satyam ekākṣaraṃ śrutam
64 satyaṃ vedeṣu jāgarti phalaṃ satye paraṃ smṛtam
satyād dharmo damaś caiva sarvaṃ satye pratiṣṭhitam
65 satyaṃ vedās tathāṅgāni satyaṃ yajñas tathā vidhiḥ
vratacaryās tathā satyam oṃkāraḥ satyam eva ca
66 prānināṃ jananaṃ satyaṃ satyaṃ saṃtatir eva ca
satyena vāyur abhyeti satyena tapate raviḥ
67 satyena cāgnir dahati svargaḥ satye pratiṣṭhitaḥ
satyaṃ yajñas tapo vedāḥ stobhā mantrāḥ sarasvatī
68 tulām āropito dharmaḥ satyaṃ caiveti naḥ śrutam
samāṃ kakṣāṃ dhārayato yataḥ satyaṃ tato 'dhikam
69 yato dharmas tataḥ satyaṃ sarvaṃ satyena vardhate
kimartham anṛtaṃ karma kartuṃ rājaṃs tvam icchasi
70 satye kuru sthiraṃ bhāvaṃ mā rājann anṛtaṃ kṛthāḥ
kasmāt tvam anṛtaṃ vākyaṃ dehīti kuruṣe 'śubham
71 yadi japyaphalaṃ dattaṃ mayā nesiṣyase nṛpa
svadharmebhyaḥ paribhraṣṭo lokān anucariṣyasi
72 saṃśrutya yo na ditseta yācitvā yaś ca necchati
ubhāv ānṛtikāv etau na mṛṣā kartum arhasi
73 [rā]
yoddhavyaṃ rakṣitavyaṃ ca kṣatradharmaḥ kila dvija
dātāraḥ kṣatriyāḥ proktā gṛhṇīyāṃ bhavataḥ katham
74 [brā]
na chandayāmi te rājan nāpi te gṛham āvrajam
ihāgamya tu yācitvā na gṛhṇīse punaḥ katham
75 [dharma]
avivādo 'stu yuvayor vittaṃ māṃ dharmam āgatam
dvijo dānaphalair yukto rājā satyaphalena ca
76 [svarga]
svargaṃ māṃ viddhi rājendra rūpiṇaṃ svayam āgatam
avivādo 'stu yuvayor ubhau tulyaphalau yuvām
77 [rā]
kṛtaṃ svargeṇa me kāryaṃ gaccha svargayathāsukham
vipro yadīcchate dātuṃ pratīcchatu ca me dhanam
78 [brā]
bālye yadi syād ajñānān mayā hastaḥ prasāritaḥ
nivṛtti lakṣaṇaṃ dharmam upāse saṃhitāṃ japan
79 nivṛttaṃ māṃ ciraṃ rājan vipraṃ lobhayase katham
svena kāryaṃ kariṣyāmi tvatto necche phalaṃ nṛpa
tapaḥsvādhyaya śīlo 'haṃ nivṛttaś ca pratigrahāt
80 [rā]
yadi vipra nisṛṣṭaṃ te japyasya phalam uttamam
āvayor yat phalaṃ kiṃ cit sahitaṃ nau tad astv iha
81 dvijāḥ pratigrahe yuktā dātāro rājavaṃśajāḥ
yadi dharmaḥ śruto vipra sahaiva phalam astu nau
82 mā vā bhūt saha bhojyaṃ nau madīyaṃ phalam āpnuhi
pratīccha matkṛtaṃ dharmaṃ yadi te mayy anugrahaḥ
83 [bhī]
tato vikṛtaceṣṭau dvau puruṣau samupasthitau
gṛhītvānyonyam āveṣṭya kucelāv ūcatur vacaḥ
84 na me dhārayasīty eko dhārayāmīti cāparaḥ
ihāsti nau vivādo 'yam ayaṃ rājānuśāsakaḥ
85 satyaṃ bravīmy aham idaṃ na me dhārayate bhavān
anṛtaṃ vadasīha tvam ṛṇaṃ te dhārayāmy aham
86 tāv ubhau bhṛśasaṃtaptau rājānam idam ūcatuḥ
parīkṣyatāṃ yathā syāva nāvām iha vigarhitau
87 [vikṛta]
dhārayāmi naravyāghra vikṛtasyeha goḥ phalam
dadataś ca na gṛhṇāti vikṛto me mahīpate
88 [virūpa]
na me dhārayate kiṃ cid virūpo 'yaṃ narādhipa
mithyā bravīty ayaṃ hi tvā mithyābhāsaṃ narādhipa
89 [rā]
virūpakiṃ dhārayate bhavān asya vadasva me
śrutvā tathā kariṣyāmīty evaṃ me dhīyate matiḥ
90 [virūpa]
śṛṇuṣvāvahito rājan yathaitad dhārayāmy aham
vikṛtasyāsya rājarṣe nikhilena nararṣabha
91 anena dharmaprāpty arthaṃ śubhā dattā purānagha
dhenur viprāya rājarṣe tapaḥsvādhyāyaśīline
92 tasyāś cāyaṃ mayā rājan phalam abhyetya yācitaḥ
vikṛtena ca me dattaṃ viśūdhenāntarātmanā
93 tato me sukṛtaṃ karmakṛtam ātmaviśuddhaye
gāvau hi kapile krītvā vatsale bahu dohane
94 te coñcha vṛttaye rājan mayā samapavarjite
yathāvidhi yathāśraddhaṃ tad asyāhaṃ punaḥ prabho
95 ihādya vai gṛhītvā tat prayacche dviguṇaṃ phalam
ekasyāḥ puruṣavyāghra kaḥ śuddhaḥ ko 'tra doṣavān
96 evaṃ vivadamānau svas tvām ihābhyāgatau nṛpa
kuru dharmam adharmaṃ vā vinaye nau samādhaya
97 yadi necchati me dānaṃ yathādattam anena vai
bhavān atra sthiro bhūtvā mārge sthāpayatu prabhuḥ
98 [rā]
dīyamānaṃ na gṛhṇāsi ṛṇaṃ kasmāt tvam adya vai
yathaiva te 'bhyanujñātaṃ tathā gṛhṇīsva māciram
99 [vikṛta]
dīyatām ity anenoktaṃ dadānīti tathā mayā
nāyaṃ me dhārayaty atra gamyatāṃ yatra vāñchati
100 [rā]
dadato 'sya na gṛhṇāsi viṣamaṃ pratibhāti me
dandyo hi tvaṃ mama mato nāsty atra khalu saṃśayaḥ
101 [vikṛta]
mayāsya dattaṃ rājarṣe gṛhṇīyāṃ tat kathaṃ punaḥ
kāmam atrāparādho me dandyam ājñāpaya prabho
102 [virūpa]
dīyamānaṃ yadi mayā nesiṣyasi kathaṃ cana
niyaṃsyati tvā nṛpatir ayaṃ dharmānuśāsakaḥ
103 [vikṛta]
svaṃ mayā yāciteneha dattaṃ katham ihādya tat
gṛhṇīyāṃ gacchatu bhavān abhyanujñāṃ dadāni te
104 [brā]
śrutam etat tvayā rājann anayoḥ kathitaṃ dvayoḥ
pratijñātaṃ mayā yat te tadgṛhāṇāvicāritam
105 [rā]
prastutaṃ sumahat kāryam āvayor gahvaraṃ yathā
jāpakasya dṛdhī kāraḥ katham etad bhaviṣyati
106 yadi tāvan na gṛhṇāmi brāhmaṇenāpavarjitam
kathaṃ na lipyeyam ahaṃ doṣeṇa mahatādya vai
107 [bhī]
tau covāca sa rājarṣiḥ kṛtakāryau gamiṣyathaḥ
nedānīṃ mām ihāsādya rājadharmo bhaven mṛṣā
108 svadharmaḥ paripālyaś ca rājñām eṣa viniścayaḥ
vipra dharmaś ca sugurur mām anātmānam āviśat
109 [brā]
gṛhāṇa dhāraye 'haṃ te yācitaṃ te śrutaṃ mayā
na ced grahīṣyase rājañ śapiṣye tvāṃ na saṃśayaḥ
110 [rā]
dhig rājadharmaṃ yasyāyaṃ kāryasyeha viniścayaḥ
ity arthaṃ me grahītavyaṃ kathaṃ tulyaṃ bhaved iti
111 eṣa pānir apūrvaṃ bho nikṣepārthaṃ prasāritaḥ
yan me dhārayase vipra tad idānīṃ pradīyatām
112 [brā]
saṃhitā japatā yāvān mayā kaś cid guṇaḥ kṛtaḥ
tat sarvaṃ pratigṛhṇīsva yadi kiṃ cid ihāsti me
113 [rā]
jalam etan nipatitaṃ mama pānau dvijottama
samam astu sahaivāstu pratigṛhṇātu vai bhavān
114 [virūpa]
kāmakrodhau viddhi nau tvam āvābhyāṃ kārito bhavān
sameti ca yad uktaṃ te samā lokās tavāsya ca
115 nāyaṃ dhārayate kiṃ cij jijñāsā tvatkṛte kṛtā
kālo dharmas tathā mṛtyuḥ kāmakrodhau tathā yuvām
116 sarvam anyonyanikase nighṛṣṭaṃ paśyatas tava
gaccha lokāñ jitān svena karmaṇā yatra vāñchati
117 [bhī]
jāpakānāṃ phalāvāptir mayā te saṃprakīrtitā
gatiḥ sthānaṃ ca lokāś ca jāpakena yathā jitāḥ
118 prayāti saṃhitādhyāyī brāhmaṇaṃ parameṣṭhinam
atha vāgniṃ samāyāti sūryam āviśate 'pi vā
119 sa taijasena bhāvena yadi tatrāśnute ratim
guṇāṃs teṣāṃ samādatte rāgeṇa pratimohitaḥ
120 evaṃ some tathā vāyau bhūmyākāśa śarīragaḥ
sarāgas tatra vasati guṇāṃs teṣāṃ samācaran
121 atha tatra virāgī sa gacchati tv atha saṃśayam
param avyayam icchan sa tam evāviśate punaḥ
122 amṛtāc cāmṛtaṃ prāptaḥ śītī bhūto nirātmavān
brahmabhūtaḥ sa nirdvandvaḥ sukhī śānto nirāmayaḥ
123 brahma sthānam anāvartam ekam akṣarasaṃjñakam
aduḥkham ajaraṃ śāntaṃ sthānaṃ tat pratipadyate
124 caturbhir lakṣaṇair hīnaṃ tathā ṣaḍbhiḥ saṣoḍaśaiḥ
puruṣaṃ samatikramya ākāśaṃ pratipadyate
125 atha vecchati rāgātmā sarvaṃ tad adhitiṣṭhati
yac ca prārthayate tac ca manasā pratipadyate
126 atha vā vīkṣate lokān sarvān nirayasaṃsthitān
niḥspṛhaḥ sarvato muktas tatraiva ramate sukhī
127 evam eṣā mahārāja jāpakasya gatir yathā
etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1532 of 2013 Book 76% ~16 min left