Book 12: Chapter 136
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required.
Get the drive $127.00

Book 12: Chapter 136

The Mahabharata in Sanskrit

Book 12
Chapter 136

1 [य]
सर्वत्र बुद्धिः कथिता शरेष्ठा ते भरतर्षभ
अनागता तथॊत्पन्ना दीर्घसूत्रा विनाशिनी
2 तद इच्छामि परां बुद्धिं शरॊतुं भरतसत्तम
यथा राजन न मुह्येत शत्रुभिः परिवारितः
3 धर्मार्थकुशलप्राज्ञ सर्वशास्त्रविशारद
पृच्छामि तवा कुरु कश्रेष्ठ तन मे वयाख्यातुम अर्हसि
4 शत्रुभिर बहुभिर गरस्तॊ यथा वर्तेत पार्थिवः
एतद इच्छाम्य अहं शरॊतुं सर्वम एव यथाविधि
5 विषमस्थं हि राजानं शत्रवः परिपन्थिनः
बहवॊ ऽपय एकम उद्धर्तुं यतन्ते पूर्वतापिताः
6 सर्वतः परार्थ्यमानेन दुर्बलेन महाबलैः
एकेनैवासहायेन शक्यं सथातुं कथं भवेत
7 कथं मित्रम अरिं चैव विन्देत भरतर्षभ
चेष्टितव्यं कथं चाथ शत्रॊर मित्रस्य चान्तरे
8 परज्ञात लक्षणे राजन्न अमित्रे मित्रतां गते
कथं नु पुरुषः कुर्यात किं वा कृत्वा सुखी भवेत
9 विग्रहं केन वा कुर्यात संधिं वा केन यॊजयेत
कथं वा शत्रुमध्यस्थॊ वर्तेताबलवान इति
10 एतद वै सर्वकृत्यानां परं कृत्यं परंतप
नैतस्य कश चिद वक्तास्ति शरॊता चापि सुदुर्लभः
11 ऋते शांतनवाद भीष्मात सत्यसंधाज जितेन्द्रियात
तद अन्विष्य महाबाहॊ सर्वम एतद वदस्व मे
12 [भ]
तवद युक्तॊ ऽयम अनुप्रश्नॊ युधिष्ठिर गुणॊदयः
शृणु मे पुत्र कार्त्स्न्येन गुह्यम आपत्सु भारत
13 अमित्रॊ मित्रतां याति मित्रं चापि परदुष्यति
सामर्थ्य यॊगात कार्याणां तद्गत्या हि सदागतिः
14 तस्माद विश्वसितव्यं च विग्रहं च समाचरेत
देशं कालं च विज्ञाय कार्याकार्यविनिश्चये
15 संधातव्यं बुधैर नित्यं वयवस्यं च हितार्थिभिः
अमित्रैर अपि संधेयं पराणा रक्ष्याश च भारत
16 यॊ हय अमित्रैर नरॊ नित्यं न संदध्याद अपण्डितः
न सॊ ऽरथम आप्नुयात किं चित फलान्य अपि च भारत
17 यस तव अमित्रेण संधत्ते मित्रेण च विरुध्यते
अर्थयुक्तिं समालॊक्य सुमहद विन्दते फलम
18 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
मार्जारस्य च संवादं नयग्रॊधे मूषकस्य च
19 वने महति कस्मिंश चिन नयग्रॊधः सुमहान अभूत
लता जालपरिच्छन्नॊ नानाद्विज गणायुतः
20 सकन्धवान मेघसंकाशः शीतच छायॊ मनॊरमः
वैरन्त्यम अभितॊ जातस तरुर वयालमृगाकुलः
21 तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम
वसति सम महाप्राज्ञः पलितॊ नाम मूषकः
22 शाखाश च तस्य संश्रित्य वसति सम सुखं पुरः
लॊमशॊ नाम मार्जारः पक्षिसत्त्वावसादकः
23 तत्र चागत्य चाण्डालॊ वैरन्त्य कृतकेतनः
अयॊजयत तम उन्माथं नित्यम अस्तं गते रवौ
24 तत्र सनायुमयान पाशान यथावत संनिधाय सः
गृहं गत्वा सुखं शेते परभाताम एति शर्वरीम
25 तत्र सम नित्यं बध्यन्ते नक्तं बहुविधा मृगाः
कदा चित तत्र मार्जारस तव अप्रमत्तॊ ऽपय अबध्यत
26 तस्मिन बद्धे महाप्राज्ञः शत्रौ नित्याततायिनि
तं कालं पलितॊ जञात्वा विचचार सुनिर्भयः
27 तेनानुचरता तस्मिन वने विश्वस्तचारिणा
भक्षं विचरमाणेन नचिराद दृष्टम आमिषम
28 स तम उन्माथम आरुह्य तद आमिषम अभक्षयत
तस्यॊपरि सपत्नस्य बद्धस्य मनसा हसन
29 आमिषे तु परसक्तः स कदा चिद अवलॊकयन
अपश्यद अपरं घॊरम आत्मनः शत्रुम आगतम
30 शरप्रसून संकाशं मही विवर शायिनम
नकुलं हरिकं नाम चपलं ताम्रलॊचनम
31 तेन मूषक गन्धेन तवरमाणम उपागतम
भक्षार्थं लेलिहद वक्त्रं भूमाव ऊर्ध्वमुखं सथितम
32 शखा गतम अरिं चान्यद अपश्यत कॊटरालयम
उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं कषपाचरम
33 गतस्य विषयं तस्य नकुलॊलूकयॊस तदा
अथास्यासीद इयं चिन्ता तत पराप्य सुमहद भयम
34 आपद्य अस्यां सुकष्टायां मरणे समुपस्थिते
समन्ताद भय उत्पन्ने कथं कार्यं हितैषिणा
35 स तथा सर्वतॊ रुद्धः सर्वत्र समदर्शनः
अभवद भयसंतप्तश चक्रे चेमां परां गतिम
36 आपद विनाशभूयिष्ठा शतैकीयं च जीवितम
समन्त संशया चेयम अस्मान आपद उपस्थिता
37 गतं हि सहसा भूमिं नकुलॊ मां समाप्नुयात
उलूकश चेह तिष्ठन्तं मार्जारः पाशसंक्षयात
38 न तव एवास्मद विधः पराज्ञः संमॊहं गन्तुम अर्हति
करिष्ये जीविते यत्नं यावद उच्छ्वासनिग्रहम
39 न हि बुद्ध्यान्विताः पराज्ञा नीतिशास्त्रविशारदाः
संभ्रमन्त्य आपदं पराप्य महतॊ ऽरथान अवाप्य च
40 न तव अन्याम इह मार्जाराद गतिं पश्यामि सांप्रतम
विषमस्थॊ हय अयं जन्तुः कृत्यं चास्य महन मया
41 जीवितार्थी कथं तव अद्य परार्थितः शत्रुभिस तरिभिः
तस्माद इमम अहं शत्रुं मार्जारं संश्रयामि वै
42 कषत्रविद्यां समाश्रित्य हितम अस्यॊपधारये
येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये
43 अयम अत्यन्तशत्रुर मे वैषम्यं परमं गतः
मूढॊ गराहयितुं सवार्थं संगत्या यदि शक्यते
44 कदा चिद वयसनं पराप्य संधिं कुर्यान मया सह
बलिना संनिविष्टस्य शत्रॊर अपि परिग्रहः
कार्य इत्य आहुर आचार्या विषमे जीवितार्थिना
45 शरेयान हि पण्डितः शत्रुर न च मित्रम अपण्डितम
मम हय अमित्रे मार्जारे जीवितं संप्रतिष्ठितम
46 हन्तैनं संप्रवक्ष्यामि हेतुम आत्माभिरक्षणे
अपीदानीम अयं शत्रुः संगत्या पण्डितॊ भवेत
47 ततॊ ऽरथगतितत्त्वज्ञः संधिविग्रहकालवित
सान्त्वपूर्वम इदं वाक्यं मार्जारं मूषकॊ ऽबरवीत
48 सौहृदेन भिभाषे तवा कच चिन मार्जारजीवसि
जीवितं हि तवेच्छामि शरेयः साधारणं हि नौ
49 न ते सौम्य विषत्तव्यं जीविष्यसि यथा पुरा
अहं तवाम उद्धरिष्यामि पराणाञ जह्यां हि ते कृते
50 अस्ति कश चिद उपायॊ ऽतर पुष्कलः परतिभाति माम
येन शक्यस तवया मॊक्षः पराप्तुं शरेयॊ यथा मया
51 मया हय उपायॊ दृष्टॊ ऽयं विचार्य मतिम आत्मनः
आत्मार्थं च तवदर्थं च शरेयः साधारणं हि नौ
52 इदं हि नकुलॊलूकं पापबुद्ध्य अभितः सथितम
न धर्षयति मार्जारतेन मे सवस्ति सांप्रतम
53 कूजंश चपल नेत्रॊ ऽयं कौशिकॊ मां निरीक्षते
नगशाखा गरहस तिष्ठंस तस्याहं भृशम उद्विजे
54 सतां साप्तपदं सख्यं स वासॊ मे ऽसि पण्डितः
सांवास्यकं करिष्यामि नास्ति ते मृत्युतॊ भयम
55 न हि शक्नॊषि मार्जारपाशं छेत्तुं विना मया
अहं छेत्स्यामि ते पाशं यदि मां तवं न हिंससि
56 तवम आश्रितॊ नगस्याग्रं मूलं तव अहम उपाश्रितः
चिरॊषिताव इहावां वै वृक्षे ऽसमिन विदितं हि ते
57 यस्मिन्न आश्वसते कश चिद यश च नाश्वसते कव चित
न तौ धीराः परशंसन्ति नित्यम उद्विग्नचेतसौ
58 तस्माद विवर्धतां परीतिः सत्या संगतिर अस्तु नौ
कालातीतम अपार्थं हि न परशंसन्ति पण्डिताः
59 अर्थयुक्तिम इमां तावद यथा भूतां निशामय
तव जीवितम इच्छामि तवं ममेच्छसि जीवितम
60 कश चित तरति काष्ठेन सुगम्भीरां महानदीम
स तारयति तत काष्ठं स च काष्ठेन तार्यते
61 ईदृशॊ नौ समायॊगॊ भविष्यति सुनिस्तरम
अहं तवां तारयिष्यामि तवं च मां तारयिष्यसि
62 एवम उक्त्वा तु पलितस तदर्थम उभयॊर हितम
हेतुमद गरहणीयं च कालाकाङ्क्षी वयपैक्षत
63 अथ सुव्याहृतं तस्य शरुत्वा शत्रुर विचक्षणः
हेतुमद गरहणीयार्थं मार्जारॊ वाक्यम अब्रवीत
64 बुद्धिमान वाक्यसंपन्नस तद वाक्यम अनुवर्णयन
ताम अवस्थाम अवेक्ष्यान्त्यां साम्नैव परत्यपूजयत
65 ततस तीक्ष्णाग्रदशनॊ वैडूर्यमणिलॊचनः
मूषकं मन्दम उद्वीक्ष्य मार्जारॊ लॊमशॊ ऽबरवीत
66 नन्दामि सौम्य भद्रं ते यॊ मां जीवन्तम इच्छसि
शरेयश च यदि जानीषे करियतां मा विचारय
67 अहं हि दृढम आपन्नस तवम आपन्नतरॊ मया
दवयॊर आपन्नयॊः संधिः करियतां मा विचारय
68 विधत्स्व पराप्तकालं यत कार्यं सिध्यतु चावयॊः
मयि कृच्छ्राद विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम
69 नयस्तमानॊ ऽसमि भक्तॊ ऽसमि शिष्यस तवद्धितकृत तथा
निदेशवशवर्ती च भवन्तं शरणं गतः
70 इत्य एवम उक्तः पलितॊ मार्जारं वशम आगतम
वाक्यं हितम उवाचेदम अभिनीतार्थम अर्थवत
71 उदारं यद भवान आह नैतच चित्रं भवद्विधे
विदितॊ यस तु मार्गॊ मे हितार्थं शृणु तं मम
72 अहं तवानुप्रवेक्ष्यामि नकुलान मे महद भयम
तरायस्व मां मा वधीश च शक्तॊ ऽसमि तव मॊक्षणे
73 उलूकाच चैव मां रक्ष कषुद्रः परार्थयते हि माम
अहं छेत्स्यामि ते पाशान सखे सत्येन ते शपे
74 तद वचः संगतं शरुत्वा लॊमशॊ युक्तम अर्थवत
हर्षाद उद्वीक्ष्य पलितं सवागतेनाभ्यपूजयत
75 स तं संपूज्य पलितं मार्जारः सौहृदे सथितः
सुविचिन्त्याब्रवीद धीरः परीतस तवरित एव हि
76 कषिप्रम आगच्छ भद्रं ते तवं मे पराणसमः सखा
तव पराज्ञ परसादाद धि कषिप्रं पराप्स्यामि जीवितम
77 यद यद एवंगतेनाद्य शक्यं कर्तुं मया तव
तद आज्ञापय कर्ताहं संधिर एवास्तु नौ सखे
78 अस्मात ते संशयान मुक्तः स मित्र गणबान्धवः
सर्वकार्याणि कर्ताहं परियाणि च हितानि च
79 मुक्तश च वयसनाद अस्मात सौम्याहम अपि नाम ते
परीतिम उत्पादयेयं च परतिकर्तुं च शक्नुयाम
80 गराहयित्वा तु तं सवार्थं मार्जारं मूषकस तदा
परविवेश सुविस्रब्धः सम्यग अर्थांश चचार ह
81 एवम आश्वसितॊ विद्वान मार्जारेण स मूषकः
मार्जारॊरसि विस्रब्धः सुष्वाप पितृमातृवत
82 लीनं तु तस्य गात्रेषु मार्जारस्याथ मूषकम
तौ दृष्ट्वा नकुलॊलूकौ निराशौ जग्मतुर गृहान
83 लीनस तु तस्य गात्रेषु पलितॊ देशकालवित
चिच्छेद पाशान नृपते कालाकाङ्क्षी शनैः शनैः
84 अथ बन्धपरिक्लिष्टॊ मार्जारॊ वीक्ष्य मूषकम
छिन्दन्तं वै तदा पाशान अत्वरन्तं तवरान्वितः
85 तम अत्वरन्तं पलितं पाशानां छेदने तदा
संचॊदयितुम आरेभे मार्जारॊ मूषकं तदा
86 किं सौम्य नाभित्वरसे किं कृतार्थॊ ऽवमन्यसे
छिन्धि पाशान अमित्रघ्न पुरा शवपच एति सः
87 इत्य उक्तस तवरता तेन मतिमान पलितॊ ऽबरवीत
मार्जारम अकृतप्रज्ञं वश्यम आत्महितं वचः
88 तूष्णीं भव न ते सौम्य तवरा कार्या न संभ्रमः
वयम एवात्र कालज्ञा न कालः परिहास्यते
89 अकाले कृत्यम आरब्धं कर्तुं नार्थाय कल्पते
तद एव काल आरब्धं महते ऽरथाय कल्पते
90 अकालविप्रमुक्तान मे तवत्त एव भयं भवेत
तस्मात कालं परतीक्षस्व किम इति तवरसे सखे
91 यावत पश्यामि चण्डालम आयान्तं शस्त्रपाणिनम
ततश छेत्स्यामि ते पाशं पराप्ते साधारणे भये
92 तस्मिन काले परमुक्तस तवं तरुम एवाधिरॊहसि
न हि ते जीविताद अन्यत किं चित कृत्यं भविष्यति
93 ततॊ भवत्य अतिक्रान्ते तरस्ते भीते च लॊमश
अहं बिलं परवेक्ष्यामि भवाट शाखां गमिष्यति
94 एवम उक्तस तु मार्जारॊ मूषकेणात्मनॊ हितम
वचनं वाक्यतत्त्वज्ञॊ जीवितार्थी महामतिः
95 अथात्मकृत्य तवरितः सम्यक परश्रयम आचरन
उवाच लॊमशॊ वाक्यं मूषकं चिरकारिणम
96 न हय एवं मित्रकार्याणि परीत्या कुर्वन्ति साधवः
यथा तवं मॊक्षितः कृच्छ्रात तवरमाणेन वै मया
97 ताथैव तवरमाणेन तवया कार्यं हितं मम
यत्नं कुरु महाप्राज्ञ यथा सवस्त्य आवयॊर भवेत
98 अथ वा पूर्ववैरं तवं समरन कालं विकर्षसि
पश्य दुष्कृतकर्मत्वं वयक्तम आयुः कषयॊ मम
99 यच च किं चिन मयाज्ञानात पुरस्ताद विप्रियं कृतम
न तन मनसि कर्तव्यं कषमये तवां परसीद मे
100 तम एवं वादिनं पराज्ञः शास्त्रविद बुद्धिसंमतः
उवाचेदं वचः शरेष्ठं मार्जारं मूषकस तदा
101 शरुतं मे तव मार्जारस्वम अर्थं परिगृह्णतः
ममापि तवं विजानीहि सवम अर्थं परिगृह्णतः
102 यन मित्रं भीतवत साध्यं यन मित्र भयसंहितम
सुरक्षितं ततः कार्यं पाणिः सर्पमुखाद इव
103 कृत्वा बलवता संधिम आत्मानं यॊ न रक्षति
अपथ्यम इव तद भुक्तं तस्यानर्थाय कल्पते
104 न कश चित कस्य चिन मित्रं न कश चित कस्य चित सुहृत
अर्थैर अर्था निबध्यन्ते गजैर वनगजा इव
105 न हि कश चित कृते कार्ये कर्तारं समवेक्षते
तस्मात सर्वाणि कार्याणि सावशेषाणि कारयेत
106 तस्मिन काले ऽपि च भवान दिवा कीर्तिभयान्वितः
मम न गरहणे शक्तः पलायनपरायणः
107 छिन्नं तु तन्तु बाहुल्यं तन्तुर एकॊ ऽवशेषितः
छेत्स्याम्य अहं तद अप्य आशु निर्वृतॊ भव लॊमश
108 तयॊः संवदतॊर एवं तथैवापन्नयॊर दवयॊः
कषयं जगाम सा रात्रिर लॊमशं चाविशद भयम
109 ततः परभातसमये विकृतः कृष्णपिङ्गलः
सथूलस्फिग विकचॊ रूक्षः शवचक्रपरिवारितः
110 शङ्कुकर्णॊ महावक्त्रः पलितॊ घॊरदर्शनः
परिघॊ नाम चण्डालः शस्त्रपाणिर अदृश्यत
111 तं दृष्ट्वा यमदूताभं मार्जारस तरस्तचेतनः
उवाच पलितं भीतः किम इदानीं करिष्यसि
112 अथ चापि सुसंत्रस्तौ तं दृष्ट्वा घॊरदर्शनम
कषणेन नकुलॊलूकौ नैराश्यं जग्मतुस तदा
113 बलिनौ मतिमन्तौ च संघातं चाप्य उपागतौ
अशक्यौ सुनयात तस्मात संप्रधर्षयितुं बलात
114 कार्यार्थं कृतसंधी तौ दृष्ट्वा मार्जारमूषकौ
उलूक नकुलौ तूर्णं जग्मतुः सवं सवम आलयम
115 ततश चिच्छेद तं तन्तुं मार्जारस्य स मूषकः
विप्रमुक्तॊ ऽथ मार्जारस तम एवाभ्यपतद दरुमम
116 स च तस्माद भयान मुक्तॊ मुक्तॊ घॊरेण शत्रुणा
बिलं विवेश पलितः शाखां भेजे च लॊमशः
117 उन्माथम अप्य अथादाय चण्डालॊ वीक्ष्य सर्वशः
विहताशः कषणेनाथ तस्माद देशाद अपाक्रमत
जगाम च सवभवनं चण्डालॊ भरतर्षभ
118 ततस तस्माद भयान मुक्तॊ दुर्लभं पराप्य जीवितम
बिलस्थं पादपाग्रस्थः पलितं लॊमशॊ ऽबरवीत
119 अकृत्वा संविदं कां चित सहसाहम उपप्लुतः
कृतज्ञं कृतकल्याणं कच चिन मां नाभिशङ्कसे
120 गत्वा च मम विश्वासं दत्त्वा च मम जीवितम
मित्रॊपभॊग समये किं तवं नैवॊपसर्पसि
121 कृत्वा हि पूर्वं मित्राणि यः पश्चान नानुतिष्ठति
न स मित्राणि लभते कृच्छ्रास्व आपत्सु दुर्मतिः
122 तत कृतॊ ऽहं तवया मित्रं सामर्थ्याद आत्मनः सखे
स मां मित्रत्वम आपन्नम उपभॊक्तुं तवम अर्हसि
123 यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः
सर्वे तवां पूजयिष्यन्ति शिष्या गुरुम इव परियम
124 अहं च पूजयिष्ये तवां समित्रगणबान्धवम
जीवितस्य परदातारं कृतज्ञः कॊ न पूजयेत
125 ईश्रवॊ मे भवान अस्तु शरीरस्य गृहस्य च
अर्थानां चैव सर्वेषाम अनुशास्ता च मे भव
126 अमात्यॊ मे भव पराज्ञ पितेव हि परशाधि माम
न ते ऽसति भयम अस्मत्तॊ जीवितेनात्मनः शपे
127 बुद्ध्या तवम उशनाः साक्षाद बले तव अधिकृता वयम
तवन्मन्त्रबलयुक्तॊ हि विन्देत जयम एव ह
128 एवम उक्तः परं सान्त्वं मार्जारेण स मूषकः
उवाच परमार्थज्ञः शलक्ष्णम आत्महितं वचः
129 यद भवान आह तत सर्वं मया ते लॊमश शरुतम
ममापि तावद बरुवतः शृणु यत परतिभाति माम
130 वेदितव्यानि मित्राणि बॊद्धव्याश चापि शत्रवः
एतत सुसूक्ष्मं लॊके ऽसमिन दृश्यते पराज्ञसंमतम
131 शत्रुरूपाश च सुहृदॊ मित्ररूपाश च शत्रवः
सान्त्वितास ते न बुध्यन्ते रागलॊभ वशंगताः
132 नास्ति जात्या रिपुर नाम मित्रं नाम न विद्यते
सामर्थ्य यॊगाज जायन्ते मित्राणि रिपवस तथा
133 यॊ यस्मिञ जीवति सवार्थं पश्येत तावत स जीवति
स तस्य तावन मित्रं सयाद यावन न सयाद विपर्ययः
134 नास्ति मैत्री सथिरा नाम न च धरुवम असौहृदम
अर्थयुक्त्या हि जायन्ते मित्राणि रिपवस तथा
135 मित्रं च शत्रुताम एति कस्मिंश चित कालपर्यये
शत्रुश च मित्रताम एति सवार्थॊ हि बलवत्तरः
136 यॊ विश्वसति मित्रेषु न चाश्वसति शत्रुषु
अर्थयुक्तिम अविज्ञाय चलितं तस्य जीवितम
137 अर्थयुक्तिम अविज्ञाय यः शुभे कुरुते मतिम
मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः
138 न विश्वसेद अविश्वस्ते विश्वस्ते ऽपि न विश्वसेत
विश्वासाद भयम उत्पन्नं मूलान्य अपि निकृन्तति
139 अर्थयुक्त्या हि देश्यन्ते पिता माता सुतास तथा
मातुला भागिनेयाश च तथा संबन्धिबान्धवाः
140 पुत्रं हि माता पितरु तयजतः पतितं परियम
लॊकॊ रक्षति चात्मानं पश्य सवार्थस्य सारताम
141 तं मन्ये निकृतिप्रज्ञं यॊ मॊक्षं परत्यनन्तरम
कृत्यं मृगयसे कर्तुं सुखॊपायम असंशयम
142 अस्मिन निलय एव तवं नयग्रॊधाद अवतारितः
पूर्वं निविष्टम उन्माथं चपलत्वान न बुद्धिवान
143 आत्मनश चपलॊ नास्ति कुतॊ ऽनयेषां भविष्यति
तस्मात सर्वाणि कार्याणि चपलॊ हन्त्य असंशयम
144 बरवीति मधुरं कं चित परियॊ मे ह भवान इति
तन मिथ्या करणं सर्वं विस्तरेणापि मे शृणु
145 कारणात परियताम एति दवेष्यॊ भवति कारणात
अर्थार्थी जीवलॊकॊ ऽयं न कश चित कस्य चित परियः
146 सख्यं सॊदरयॊर भरात्रॊर दम्पत्यॊर वा परस्परम
कस्य चिन नाभिजानामि परीतिं निष्कारणाम इह
147 यद्य अपि भरातरः करुद्धा मार्या वा कारणान्तरे
सवभावतस ते परीयन्ते नेतरः परीयते जनः
148 परियॊ भवति दानेन परियवादेन चापरः
मन्त्रहॊम जपैर अन्यः कार्यार्थं परीयते जनः
149 उत्पन्ने कारणे परीतिर नास्ति नौ कारणान्तरे
परध्वस्ते कारणस्थाने सा परीतिर विनिवर्तते
150 किं नु तत कारणं मन्ये यनाहं भवतः परियः
अन्यत्राभ्यवहारार्थात तत्रापि च बुधा वयम
151 कालॊ हेतुं विकुरुते सवार्थस तम अनुवर्तते
सवार्थं पराज्ञॊ ऽभिजानाति पराज्ञं लॊकॊ ऽनुवर्तते
152 न तव ईदृशं तवया वाच्यं विदुषि सवार्थपण्डिते
अकाले ऽविषमस्थस्य सवार्थहेतुर अयं तव
153 तस्मान नाहं चले सवार्थात सुस्थितः संधिविग्रहे
अभ्राणाम इव रूपाणि विकुर्वन्ति कषणे कषणे
154 अद्यैव हि रिपुर भूत्वा पुनर अद्यैव सौहृदम
पुनश च रिपुर अद्यैव युक्तीनां पश्य चापलम
155 आसीत तावत तु मैत्री नौ यावद धेतुर अभूत पुरा
सा गता सह तेनैव कालयुक्तेन हेतुना
156 तवं हि मे ऽतयन्ततः शत्रुः सामर्थ्यान मित्रतां गतः
तत कृत्यम अभिनिर्वृत्तं परकृतिः शत्रुतां गता
157 सॊ ऽहम एवं परणीतानि जञात्वा शास्त्राणि तत्त्वतः
परविशेयं कथं पाशं तवत्कृतं तद वदस्व मे
158 तवद्वीर्येण विमुक्तॊ ऽहं मद्वीर्येण तथा भवान
अन्यॊन्यानुग्रहे वृत्ते नास्ति भूयः समागमः
159 तवं हि सौम्य कृतार्थॊ ऽदय निर्वृत्तार्थास तथा वयम
न ते ऽसत्य अन्यन मया कृत्यं किं चिद अन्यत्र भक्षणात
160 अहम अन्नं भवान भॊक्ता दुर्बलॊ ऽहं भवान बली
नावयॊर विद्यते संधिर नियुक्ते विषमे बले
161 संमन्ये ऽहं तव परज्ञां यन मॊक्षात परत्यनन्तरम
भक्ष्यं मृगयसे नूनं सुखॊपायम असंशयम
162 भक्ष्यार्थम एव बद्धस तवं स मुक्तः परसृतः कषुधा
शास्त्रज्ञम अभिसंधाय नूनं भक्षयिताद्य माम
163 जानामि कषुधितं हि तवाम आहारसमयश च ते
स तवं माम अभिसंधाय भक्ष्यं मृगयसे पुनः
164 यच चापि पुत्रदारं सवं तत संनिसृजसे मयि
शुश्रूषां नाम मे कर्तुं सखे मम न तत्क्षमम
165 तवया मां सहितं दृष्ट्वा परिया भार्या सुताश च ये
कस्मान मां ते न खादेयुर हृष्टाः परणयिनस तवयि
166 नाहं तवया समेष्यामि वृत्तॊ हेतुः समागमे
शिवं धयायस्व मे ऽतरस्थः सुकृतं समर्यते यदि
167 शत्रॊर अन्नाद्य भूतः सन कलिष्टस्य कषुधितस्य च
भक्ष्यं मृगयमाणस्य कः पराज्ञॊ विषयं वरजेत
168 सवस्ति ते ऽसतु गमिष्यामि दूराद अपि तवॊद्विजे
नाहं तवया समेष्यामि निर्वृतॊ भव लॊमश
169 बलवत संनिकर्षॊ हि न कदा चित परशस्यते
परशान्ताद अपि मे पराज्ञ भेतव्यं बलिनः सदा
170 यदि तव अर्थेन मे कार्यं बरूहि किं करवाणि ते
कामं सर्वं परदास्यामि न तव आत्मानं कदा चन
171 आत्मार्थे संततिस तयाज्या राज्यं रत्नं धनं तथा
अपि सर्वस्वम उत्सृज्य रक्षेद आत्मानम आत्मना
172 ऐश्वर्यधनरत्नानां परत्यमित्रे ऽपि तिष्ठताम
दृष्टा हि पुनर आवृत्तिर जीविताम इति नः शरुतम
173 न तव आत्मनः संप्रदानं धनरत्नवद इष्यते
आत्मा तु सर्वतॊ रक्ष्यॊ दारैर अपि धनैर अपि
174 आत्मरक्षित तन्त्राणां सुपरीक्षित कारिणाम
आपदॊ नॊपपद्यन्ते पुरुषाणां सवदॊषजाः
175 शत्रून सम्यग विजानन्ति दुर्बला ये बलीयसः
तेषां न चाल्यते बुद्धिर आत्मार्थं कृतनिश्चया
176 इत्य अभिव्यक्तम एवासौ पलितेनावभर्त्सितः
मार्जारॊ वरीडितॊ भूत्वा मूषकं वाक्यम अब्रवीत
177 संमन्ये ऽहं तव परज्ञां यस तवं मम हिते रतः
उक्तवान अर्थतत्त्वेन मया संभिन्नदर्शनः
178 न तु माम अन्यथा साधॊ तवं विज्ञातुम इहार्हसि
पराणप्रदानजं तवत्तॊ मम सौहृदम आगतम
179 धर्मज्ञॊ ऽसमि गुणज्ञॊ ऽसमि कृतज्ञॊ ऽसमि विशेषतः
मित्रेषु वत्सलश चास्मि तवद्विधेषु विशेषतः
180 तन माम एवंगते साधॊ न यावयितुम अर्हसि
तवया हि याव्यमानॊ ऽहं पराणाञ जह्यां सबान्धवः
181 धिक शब्दॊ हि बुधैर दृष्टॊ मद्विधेषु मनस्विषु
मरणं धर्मतत्त्वज्ञ न मां शङ्कितुम अर्हसि
182 इति संस्तूयमानॊ हि मार्जारेण स मूषकः
मनसा भावगम्भीरं मार्जारं वाक्यम अब्रवीत
183 साधुर भवाञ शरुतार्थॊ ऽसमि परीयते न च विश्वसे
संस्तवैर वा धनौघैर वा नाहं शक्यः पुनस तवया
184 न हय अमित्रवशं यान्ति पराज्ञा निष्करणं सखे
अस्मिन्न अर्थे च गाथे दवे निबॊधॊशनसा कृते
185 शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा
समाहितश चरेद युक्त्या कृतार्थश च न विश्वसेत
186 तस्मात सर्वास्व अवस्थासु रक्षेञ जीवितम आत्मनः
दरव्याणि संततिश चैव सर्वं भवति जीवतः
187 संक्षेपॊ नीतिशास्त्राणाम अविश्वासः परॊ मतः
नृषु तस्माद अविश्वासः पुष्कलं हितम आत्मनः
188 वध्यन्ते न हय अविश्वस्ताः शत्रुभिर दुर्बला अपि
विश्वस्तास तव आशु वध्यन्ते बलवन्तॊ ऽपि दुर्बलैः
189 तवद्विधेभ्यॊ मया हय आत्मा रक्ष्यॊ मार्जारसर्वदा
रक्ष तवम अपि चात्मानं चण्डालाञ जातिकिल्बिषात
190 स तस्य बरुवतस तव एवं संत्रासाञ जातसाध्वसः
सवबलिं हि जवेनाशु मार्जारः परययौ ततः
191 ततः शास्त्रार्थतत्त्वज्ञॊ बुद्धिसामर्थ्यम आत्मनः
विश्राव्य पलितः पराज्ञॊ बिलम अन्यञ जगाम ह
192 एवं परज्ञावता बुद्ध्या दुर्बलेन महाबलाः
एकेन बहवॊ ऽमित्राः संधिं कुर्वीत पण्डितः
193 अरिणापि समर्थेन संधिं कुर्वीत पण्डितः
मूषकश च विडालश च मुक्ताव अन्यॊन्यसंश्रयात
194 इत्य एष कषत्रधर्मस्य मया मार्गॊ ऽनुदर्शितः
विस्तरेण महीपाल संक्षेपेण पुनः शृणु
195 अन्यॊन्यकृतवैरौ तु चक्रतुः परीतिम उत्तमाम
अन्यॊन्यम अभिसंधातुम अभूच चैव तयॊर मतिः
196 तत्र पराज्ञॊ ऽभिसंधत्ते सम्यग बुद्धिबलाश्रयात
अभिसंधीयते पराज्ञः परमादाद अपि चाबुधैः
197 तस्माद अभीतवद भीतॊ विश्वस्तवद अविश्वसन
न हय अप्रमत्तश चलति चलितॊ वा विनश्यति
198 कालेन रिपुणा संधिः काले मित्रेण विग्रहः
कार्य इत्य एव तत्त्वज्ञाः पराजुर नित्यं युधिष्ठिर
199 एवं मत्वा महाराज शास्त्रार्थम अभिगम्य च
अभियुक्तॊ ऽपरमत्तश च पराग भयाद भीतवच चरेत
200 भीतवत संविधिः कार्यः परतिसंधिस तथैव च
भयाद उत्पद्यते बुद्धिर अप्रमत्ताभियॊगजा
201 न भयं विद्यते राजन भीतस्यानागते भये
अभीतस्य तु विस्रम्भात सुमहाञ जायते भयम
202 न भीरुर इति चात्यन्तं मन्त्रॊ ऽदेयः कथं चन
अविज्ञानाद धि विज्ञाते गच्छेद आस्पद दर्शिषु
203 तस्माद अभीतवद भीतॊ विश्वस्तवद अविश्वसन
कार्याणां गुरुतां बुद्ध्वा नानृतं किं चिद आचरेत
204 एवम एतन मया परॊक्तम इतिहासं युधिष्ठिर
शरुत्वा तवं सुहृदां मध्ये यथावत समुपाचर
205 उपलभ्य मतिं चाग्र्याम अरिमित्रान्तरं तथा
संधिविग्रहकालं च मॊक्षॊपायं तथापदि
206 शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा
समागमं चरेद युक्त्या कृतार्थॊ न च विश्वसेत
207 अविरुद्धां तरिवर्गेण नीतिम एतां युधिष्ठिर
अभ्युत्तिष्ठ शरुताद अस्माद भूयस तवं रञ्जयन परजाः
208 बराह्मणैश चापि ते सार्धं यात्रा भवतु पाण्डव
बराह्मणा हि परं शरेयॊ दिवि चेह च भारत
209 एते धर्मस्य वेत्तारः कृतज्ञाः सततं परभॊ
पूजिताः शुभकर्माणः पूर्वजित्या नराधिप
210 राज्यं शरेयः परं राजन यशः कीर्तिं च लप्स्यसे
कुलस्य संततिं चैव यथान्यायं यथाक्रमम
211 दवयॊर इमं भारत संधिविग्रहं; सुभाषितं बुद्धिविशेषकारितम
तथान्ववेक्ष्य कषितिपेन सर्वदा; निषेवितव्यं नृप शत्रुमण्डले
1 [y]
sarvatra buddhiḥ kathitā śreṣṭhā te bharatarṣabha
anāgatā tathotpannā dīrghasūtrā vināśinī
2 tad icchāmi parāṃ buddhiṃ śrotuṃ bharatasattama
yathā rājan na muhyeta śatrubhiḥ parivāritaḥ
3 dharmārthakuśalaprājña sarvaśāstraviśārada
pṛcchāmi tvā kuru kśreṣṭha tan me vyākhyātum arhasi
4 śatrubhir bahubhir grasto yathā varteta pārthivaḥ
etad icchāmy ahaṃ śrotuṃ sarvam eva yathāvidhi
5 viṣamasthaṃ hi rājānaṃ śatravaḥ paripanthinaḥ
bahavo 'py ekam uddhartuṃ yatante pūrvatāpitāḥ
6 sarvataḥ prārthyamānena durbalena mahābalaiḥ
ekenaivāsahāyena śakyaṃ sthātuṃ kathaṃ bhavet
7 kathaṃ mitram ariṃ caiva vindeta bharatarṣabha
ceṣṭitavyaṃ kathaṃ cātha śatror mitrasya cāntare
8 prajñāta lakṣaṇe rājann amitre mitratāṃ gate
kathaṃ nu puruṣaḥ kuryāt kiṃ vā kṛtvā sukhī bhavet
9 vigrahaṃ kena vā kuryāt saṃdhiṃ vā kena yojayet
kathaṃ vā śatrumadhyastho vartetābalavān iti
10 etad vai sarvakṛtyānāṃ paraṃ kṛtyaṃ paraṃtapa
naitasya kaś cid vaktāsti śrotā cāpi sudurlabhaḥ
11 ṛte śāṃtanavād bhīṣmāt satyasaṃdhāj jitendriyāt
tad anviṣya mahābāho sarvam etad vadasva me
12 [bh]
tvad yukto 'yam anupraśno yudhiṣṭhira guṇodayaḥ
śṛṇu me putra kārtsnyena guhyam āpatsu bhārata
13 amitro mitratāṃ yāti mitraṃ cāpi praduṣyati
sāmarthya yogāt kāryāṇāṃ tadgatyā hi sadāgatiḥ
14 tasmād viśvasitavyaṃ ca vigrahaṃ ca samācaret
deśaṃ kālaṃ ca vijñāya kāryākāryaviniścaye
15 saṃdhātavyaṃ budhair nityaṃ vyavasyaṃ ca hitārthibhiḥ
amitrair api saṃdheyaṃ prāṇā rakṣyāś ca bhārata
16 yo hy amitrair naro nityaṃ na saṃdadhyād apaṇḍitaḥ
na so 'rtham āpnuyāt kiṃ cit phalāny api ca bhārata
17 yas tv amitreṇa saṃdhatte mitreṇa ca virudhyate
arthayuktiṃ samālokya sumahad vindate phalam
18 atrāpy udāharantīmam itihāsaṃ purātanam
mārjārasya ca saṃvādaṃ nyagrodhe mūṣakasya ca
19 vane mahati kasmiṃś cin nyagrodhaḥ sumahān abhūt
latā jālaparicchanno nānādvija gaṇāyutaḥ
20 skandhavān meghasaṃkāśaḥ śītac chāyo manoramaḥ
vairantyam abhito jātas tarur vyālamṛgākulaḥ
21 tasya mūlaṃ samāśritya kṛtvā śatamukhaṃ bilam
vasati sma mahāprājñaḥ palito nāma mūṣakaḥ
22 śākhāś ca tasya saṃśritya vasati sma sukhaṃ puraḥ
lomaśo nāma mārjāraḥ pakṣisattvāvasādakaḥ
23 tatra cāgatya cāṇḍālo vairantya kṛtaketanaḥ
ayojayat tam unmāthaṃ nityam astaṃ gate ravau
24 tatra snāyumayān pāśān yathāvat saṃnidhāya saḥ
gṛhaṃ gatvā sukhaṃ śete prabhātām eti śarvarīm
25 tatra sma nityaṃ badhyante naktaṃ bahuvidhā mṛgāḥ
kadā cit tatra mārjāras tv apramatto 'py abadhyata
26 tasmin baddhe mahāprājñaḥ śatrau nityātatāyini
taṃ kālaṃ palito jñātvā vicacāra sunirbhayaḥ
27 tenānucaratā tasmin vane viśvastacāriṇā
bhakṣaṃ vicaramāṇena nacirād dṛṣṭam āmiṣam
28 sa tam unmātham āruhya tad āmiṣam abhakṣayat
tasyopari sapatnasya baddhasya manasā hasan
29 āmiṣe tu prasaktaḥ sa kadā cid avalokayan
apaśyad aparaṃ ghoram ātmanaḥ śatrum āgatam
30 śaraprasūna saṃkāśaṃ mahī vivara śāyinam
nakulaṃ harikaṃ nāma capalaṃ tāmralocanam
31 tena mūṣaka gandhena tvaramāṇam upāgatam
bhakṣārthaṃ lelihad vaktraṃ bhūmāv ūrdhvamukhaṃ sthitam
32 śakhā gatam ariṃ cānyad apaśyat koṭarālayam
ulūkaṃ candrakaṃ nāma tīkṣṇatuṇḍaṃ kṣapācaram
33 gatasya viṣayaṃ tasya nakulolūkayos tadā
athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam
34 āpady asyāṃ sukaṣṭāyāṃ maraṇe samupasthite
samantād bhaya utpanne kathaṃ kāryaṃ hitaiṣiṇā
35 sa tathā sarvato ruddhaḥ sarvatra samadarśanaḥ
abhavad bhayasaṃtaptaś cakre cemāṃ parāṃ gatim
36 āpad vināśabhūyiṣṭhā śataikīyaṃ ca jīvitam
samanta saṃśayā ceyam asmān āpad upasthitā
37 gataṃ hi sahasā bhūmiṃ nakulo māṃ samāpnuyāt
ulūkaś ceha tiṣṭhantaṃ mārjāraḥ pāśasaṃkṣayāt
38 na tv evāsmad vidhaḥ prājñaḥ saṃmohaṃ gantum arhati
kariṣye jīvite yatnaṃ yāvad ucchvāsanigraham
39 na hi buddhyānvitāḥ prājñā nītiśāstraviśāradāḥ
saṃbhramanty āpadaṃ prāpya mahato 'rthān avāpya ca
40 na tv anyām iha mārjārād gatiṃ paśyāmi sāṃpratam
viṣamastho hy ayaṃ jantuḥ kṛtyaṃ cāsya mahan mayā
41 jīvitārthī kathaṃ tv adya prārthitaḥ śatrubhis tribhiḥ
tasmād imam ahaṃ śatruṃ mārjāraṃ saṃśrayāmi vai
42 kṣatravidyāṃ samāśritya hitam asyopadhāraye
yenemaṃ śatrusaṃghātaṃ matipūrveṇa vañcaye
43 ayam atyantaśatrur me vaiṣamyaṃ paramaṃ gataḥ
mūḍho grāhayituṃ svārthaṃ saṃgatyā yadi śakyate
44 kadā cid vyasanaṃ prāpya saṃdhiṃ kuryān mayā saha
balinā saṃniviṣṭasya śatror api parigrahaḥ
kārya ity āhur ācāryā viṣame jīvitārthinā
45 śreyān hi paṇḍitaḥ śatrur na ca mitram apaṇḍitam
mama hy amitre mārjāre jīvitaṃ saṃpratiṣṭhitam
46 hantainaṃ saṃpravakṣyāmi hetum ātmābhirakṣaṇe
apīdānīm ayaṃ śatruḥ saṃgatyā paṇḍito bhavet
47 tato 'rthagatitattvajñaḥ saṃdhivigrahakālavit
sāntvapūrvam idaṃ vākyaṃ mārjāraṃ mūṣako 'bravīt
48 sauhṛdena bhibhāṣe tvā kac cin mārjārajīvasi
jīvitaṃ hi tavecchāmi śreyaḥ sādhāraṇaṃ hi nau
49 na te saumya viṣattavyaṃ jīviṣyasi yathā purā
ahaṃ tvām uddhariṣyāmi prāṇāñ jahyāṃ hi te kṛte
50 asti kaś cid upāyo 'tra puṣkalaḥ pratibhāti mām
yena śakyas tvayā mokṣaḥ prāptuṃ śreyo yathā mayā
51 mayā hy upāyo dṛṣṭo 'yaṃ vicārya matim ātmanaḥ
ātmārthaṃ ca tvadarthaṃ ca śreyaḥ sādhāraṇaṃ hi nau
52 idaṃ hi nakulolūkaṃ pāpabuddhy abhitaḥ sthitam
na dharṣayati mārjāratena me svasti sāṃpratam
53 kūjaṃś capala netro 'yaṃ kauśiko māṃ nirīkṣate
nagaśākhā grahas tiṣṭhaṃs tasyāhaṃ bhṛśam udvije
54 satāṃ sāptapadaṃ sakhyaṃ sa vāso me 'si paṇḍitaḥ
sāṃvāsyakaṃ kariṣyāmi nāsti te mṛtyuto bhayam
55 na hi śaknoṣi mārjārapāśaṃ chettuṃ vinā mayā
ahaṃ chetsyāmi te pāśaṃ yadi māṃ tvaṃ na hiṃsasi
56 tvam āśrito nagasyāgraṃ mūlaṃ tv aham upāśritaḥ
ciroṣitāv ihāvāṃ vai vṛkṣe 'smin viditaṃ hi te
57 yasminn āśvasate kaś cid yaś ca nāśvasate kva cit
na tau dhīrāḥ praśaṃsanti nityam udvignacetasau
58 tasmād vivardhatāṃ prītiḥ satyā saṃgatir astu nau
kālātītam apārthaṃ hi na praśaṃsanti paṇḍitāḥ
59 arthayuktim imāṃ tāvad yathā bhūtāṃ niśāmaya
tava jīvitam icchāmi tvaṃ mamecchasi jīvitam
60 kaś cit tarati kāṣṭhena sugambhīrāṃ mahānadīm
sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate
61 īdṛśo nau samāyogo bhaviṣyati sunistaram
ahaṃ tvāṃ tārayiṣyāmi tvaṃ ca māṃ tārayiṣyasi
62 evam uktvā tu palitas tadartham ubhayor hitam
hetumad grahaṇīyaṃ ca kālākāṅkṣī vyapaikṣata
63 atha suvyāhṛtaṃ tasya śrutvā śatrur vicakṣaṇaḥ
hetumad grahaṇīyārthaṃ mārjāro vākyam abravīt
64 buddhimān vākyasaṃpannas tad vākyam anuvarṇayan
tām avasthām avekṣyāntyāṃ sāmnaiva pratyapūjayat
65 tatas tīkṣṇāgradaśano vaiḍūryamaṇilocanaḥ
mūṣakaṃ mandam udvīkṣya mārjāro lomaśo 'bravīt
66 nandāmi saumya bhadraṃ te yo māṃ jīvantam icchasi
śreyaś ca yadi jānīṣe kriyatāṃ mā vicāraya
67 ahaṃ hi dṛḍham āpannas tvam āpannataro mayā
dvayor āpannayoḥ saṃdhiḥ kriyatāṃ mā vicāraya
68 vidhatsva prāptakālaṃ yat kāryaṃ sidhyatu cāvayoḥ
mayi kṛcchrād vinirmukte na vinaṅkṣyati te kṛtam
69 nyastamāno 'smi bhakto 'smi śiṣyas tvaddhitakṛt tathā
nideśavaśavartī ca bhavantaṃ śaraṇaṃ gataḥ
70 ity evam uktaḥ palito mārjāraṃ vaśam āgatam
vākyaṃ hitam uvācedam abhinītārtham arthavat
71 udāraṃ yad bhavān āha naitac citraṃ bhavadvidhe
vidito yas tu mārgo me hitārthaṃ śṛṇu taṃ mama
72 ahaṃ tvānupravekṣyāmi nakulān me mahad bhayam
trāyasva māṃ mā vadhīś ca śakto 'smi tava mokṣaṇe
73 ulūkāc caiva māṃ rakṣa kṣudraḥ prārthayate hi mām
ahaṃ chetsyāmi te pāśān sakhe satyena te śape
74 tad vacaḥ saṃgataṃ śrutvā lomaśo yuktam arthavat
harṣād udvīkṣya palitaṃ svāgatenābhyapūjayat
75 sa taṃ saṃpūjya palitaṃ mārjāraḥ sauhṛde sthitaḥ
suvicintyābravīd dhīraḥ prītas tvarita eva hi
76 kṣipram āgaccha bhadraṃ te tvaṃ me prāṇasamaḥ sakhā
tava prājña prasādād dhi kṣipraṃ prāpsyāmi jīvitam
77 yad yad evaṃgatenādya śakyaṃ kartuṃ mayā tava
tad ājñāpaya kartāhaṃ saṃdhir evāstu nau sakhe
78 asmāt te saṃśayān muktaḥ sa mitra gaṇabāndhavaḥ
sarvakāryāṇi kartāhaṃ priyāṇi ca hitāni ca
79 muktaś ca vyasanād asmāt saumyāham api nāma te
prītim utpādayeyaṃ ca pratikartuṃ ca śaknuyām
80 grāhayitvā tu taṃ svārthaṃ mārjāraṃ mūṣakas tadā
praviveśa suvisrabdhaḥ samyag arthāṃś cacāra ha
81 evam āśvasito vidvān mārjāreṇa sa mūṣakaḥ
mārjārorasi visrabdhaḥ suṣvāpa pitṛmātṛvat
82 līnaṃ tu tasya gātreṣu mārjārasyātha mūṣakam
tau dṛṣṭvā nakulolūkau nirāśau jagmatur gṛhān
83 līnas tu tasya gātreṣu palito deśakālavit
ciccheda pāśān nṛpate kālākāṅkṣī śanaiḥ śanaiḥ
84 atha bandhaparikliṣṭo mārjāro vīkṣya mūṣakam
chindantaṃ vai tadā pāśān atvarantaṃ tvarānvitaḥ
85 tam atvarantaṃ palitaṃ pāśānāṃ chedane tadā
saṃcodayitum ārebhe mārjāro mūṣakaṃ tadā
86 kiṃ saumya nābhitvarase kiṃ kṛtārtho 'vamanyase
chindhi pāśān amitraghna purā śvapaca eti saḥ
87 ity uktas tvaratā tena matimān palito 'bravīt
mārjāram akṛtaprajñaṃ vaśyam ātmahitaṃ vacaḥ
88 tūṣṇīṃ bhava na te saumya tvarā kāryā na saṃbhramaḥ
vayam evātra kālajñā na kālaḥ parihāsyate
89 akāle kṛtyam ārabdhaṃ kartuṃ nārthāya kalpate
tad eva kāla ārabdhaṃ mahate 'rthāya kalpate
90 akālavipramuktān me tvatta eva bhayaṃ bhavet
tasmāt kālaṃ pratīkṣasva kim iti tvarase sakhe
91 yāvat paśyāmi caṇḍālam āyāntaṃ śastrapāṇinam
tataś chetsyāmi te pāśaṃ prāpte sādhāraṇe bhaye
92 tasmin kāle pramuktas tvaṃ tarum evādhirohasi
na hi te jīvitād anyat kiṃ cit kṛtyaṃ bhaviṣyati
93 tato bhavaty atikrānte traste bhīte ca lomaśa
ahaṃ bilaṃ pravekṣyāmi bhavāṭ śākhāṃ gamiṣyati
94 evam uktas tu mārjāro mūṣakeṇātmano hitam
vacanaṃ vākyatattvajño jīvitārthī mahāmatiḥ
95 athātmakṛtya tvaritaḥ samyak praśrayam ācaran
uvāca lomaśo vākyaṃ mūṣakaṃ cirakāriṇam
96 na hy evaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ
yathā tvaṃ mokṣitaḥ kṛcchrāt tvaramāṇena vai mayā
97 tāthaiva tvaramāṇena tvayā kāryaṃ hitaṃ mama
yatnaṃ kuru mahāprājña yathā svasty āvayor bhavet
98 atha vā pūrvavairaṃ tvaṃ smaran kālaṃ vikarṣasi
paśya duṣkṛtakarmatvaṃ vyaktam āyuḥ kṣayo mama
99 yac ca kiṃ cin mayājñānāt purastād vipriyaṃ kṛtam
na tan manasi kartavyaṃ kṣamaye tvāṃ prasīda me
100 tam evaṃ vādinaṃ prājñaḥ śāstravid buddhisaṃmataḥ
uvācedaṃ vacaḥ śreṣṭhaṃ mārjāraṃ mūṣakas tadā
101 śrutaṃ me tava mārjārasvam arthaṃ parigṛhṇataḥ
mamāpi tvaṃ vijānīhi svam arthaṃ parigṛhṇataḥ
102 yan mitraṃ bhītavat sādhyaṃ yan mitra bhayasaṃhitam
surakṣitaṃ tataḥ kāryaṃ pāṇiḥ sarpamukhād iva
103 kṛtvā balavatā saṃdhim ātmānaṃ yo na rakṣati
apathyam iva tad bhuktaṃ tasyānarthāya kalpate
104 na kaś cit kasya cin mitraṃ na kaś cit kasya cit suhṛt
arthair arthā nibadhyante gajair vanagajā iva
105 na hi kaś cit kṛte kārye kartāraṃ samavekṣate
tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet
106 tasmin kāle 'pi ca bhavān divā kīrtibhayānvitaḥ
mama na grahaṇe śaktaḥ palāyanaparāyaṇaḥ
107 chinnaṃ tu tantu bāhulyaṃ tantur eko 'vaśeṣitaḥ
chetsyāmy ahaṃ tad apy āśu nirvṛto bhava lomaśa
108 tayoḥ saṃvadator evaṃ tathaivāpannayor dvayoḥ
kṣayaṃ jagāma sā rātrir lomaśaṃ cāviśad bhayam
109 tataḥ prabhātasamaye vikṛtaḥ kṛṣṇapiṅgalaḥ
sthūlasphig vikaco rūkṣaḥ śvacakraparivāritaḥ
110 śaṅkukarṇo mahāvaktraḥ palito ghoradarśanaḥ
parigho nāma caṇḍālaḥ śastrapāṇir adṛśyata
111 taṃ dṛṣṭvā yamadūtābhaṃ mārjāras trastacetanaḥ
uvāca palitaṃ bhītaḥ kim idānīṃ kariṣyasi
112 atha cāpi susaṃtrastau taṃ dṛṣṭvā ghoradarśanam
kṣaṇena nakulolūkau nairāśyaṃ jagmatus tadā
113 balinau matimantau ca saṃghātaṃ cāpy upāgatau
aśakyau sunayāt tasmāt saṃpradharṣayituṃ balāt
114 kāryārthaṃ kṛtasaṃdhī tau dṛṣṭvā mārjāramūṣakau
ulūka nakulau tūrṇaṃ jagmatuḥ svaṃ svam ālayam
115 tataś ciccheda taṃ tantuṃ mārjārasya sa mūṣakaḥ
vipramukto 'tha mārjāras tam evābhyapatad drumam
116 sa ca tasmād bhayān mukto mukto ghoreṇa śatruṇā
bilaṃ viveśa palitaḥ śākhāṃ bheje ca lomaśaḥ
117 unmātham apy athādāya caṇḍālo vīkṣya sarvaśaḥ
vihatāśaḥ kṣaṇenātha tasmād deśād apākramat
jagāma ca svabhavanaṃ caṇḍālo bharatarṣabha
118 tatas tasmād bhayān mukto durlabhaṃ prāpya jīvitam
bilasthaṃ pādapāgrasthaḥ palitaṃ lomaśo 'bravīt
119 akṛtvā saṃvidaṃ kāṃ cit sahasāham upaplutaḥ
kṛtajñaṃ kṛtakalyāṇaṃ kac cin māṃ nābhiśaṅkase
120 gatvā ca mama viśvāsaṃ dattvā ca mama jīvitam
mitropabhoga samaye kiṃ tvaṃ naivopasarpasi
121 kṛtvā hi pūrvaṃ mitrāṇi yaḥ paścān nānutiṣṭhati
na sa mitrāṇi labhate kṛcchrāsv āpatsu durmatiḥ
122 tat kṛto 'haṃ tvayā mitraṃ sāmarthyād ātmanaḥ sakhe
sa māṃ mitratvam āpannam upabhoktuṃ tvam arhasi
123 yāni me santi mitrāṇi ye ca me santi bāndhavāḥ
sarve tvāṃ pūjayiṣyanti śiṣyā gurum iva priyam
124 ahaṃ ca pūjayiṣye tvāṃ samitragaṇabāndhavam
jīvitasya pradātāraṃ kṛtajñaḥ ko na pūjayet
125 īśravo me bhavān astu śarīrasya gṛhasya ca
arthānāṃ caiva sarveṣām anuśāstā ca me bhava
126 amātyo me bhava prājña piteva hi praśādhi mām
na te 'sti bhayam asmatto jīvitenātmanaḥ śape
127 buddhyā tvam uśanāḥ sākṣād bale tv adhikṛtā vayam
tvanmantrabalayukto hi vindeta jayam eva ha
128 evam uktaḥ paraṃ sāntvaṃ mārjāreṇa sa mūṣakaḥ
uvāca paramārthajñaḥ ślakṣṇam ātmahitaṃ vacaḥ
129 yad bhavān āha tat sarvaṃ mayā te lomaśa śrutam
mamāpi tāvad bruvataḥ śṛṇu yat pratibhāti mām
130 veditavyāni mitrāṇi boddhavyāś cāpi śatravaḥ
etat susūkṣmaṃ loke 'smin dṛśyate prājñasaṃmatam
131 śatrurūpāś ca suhṛdo mitrarūpāś ca śatravaḥ
sāntvitās te na budhyante rāgalobha vaśaṃgatāḥ
132 nāsti jātyā ripur nāma mitraṃ nāma na vidyate
sāmarthya yogāj jāyante mitrāṇi ripavas tathā
133 yo yasmiñ jīvati svārthaṃ paśyet tāvat sa jīvati
sa tasya tāvan mitraṃ syād yāvan na syād viparyayaḥ
134 nāsti maitrī sthirā nāma na ca dhruvam asauhṛdam
arthayuktyā hi jāyante mitrāṇi ripavas tathā
135 mitraṃ ca śatrutām eti kasmiṃś cit kālaparyaye
śatruś ca mitratām eti svārtho hi balavattaraḥ
136 yo viśvasati mitreṣu na cāśvasati śatruṣu
arthayuktim avijñāya calitaṃ tasya jīvitam
137 arthayuktim avijñāya yaḥ śubhe kurute matim
mitre vā yadi vā śatrau tasyāpi calitā matiḥ
138 na viśvased aviśvaste viśvaste 'pi na viśvaset
viśvāsād bhayam utpannaṃ mūlāny api nikṛntati
139 arthayuktyā hi deśyante pitā mātā sutās tathā
mātulā bhāgineyāś ca tathā saṃbandhibāndhavāḥ
140 putraṃ hi mātā pitaru tyajataḥ patitaṃ priyam
loko rakṣati cātmānaṃ paśya svārthasya sāratām
141 taṃ manye nikṛtiprajñaṃ yo mokṣaṃ pratyanantaram
kṛtyaṃ mṛgayase kartuṃ sukhopāyam asaṃśayam
142 asmin nilaya eva tvaṃ nyagrodhād avatāritaḥ
pūrvaṃ niviṣṭam unmāthaṃ capalatvān na buddhivān
143 ātmanaś capalo nāsti kuto 'nyeṣāṃ bhaviṣyati
tasmāt sarvāṇi kāryāṇi capalo hanty asaṃśayam
144 bravīti madhuraṃ kaṃ cit priyo me ha bhavān iti
tan mithyā karaṇaṃ sarvaṃ vistareṇāpi me śṛṇu
145 kāraṇāt priyatām eti dveṣyo bhavati kāraṇāt
arthārthī jīvaloko 'yaṃ na kaś cit kasya cit priyaḥ
146 sakhyaṃ sodarayor bhrātror dampatyor vā parasparam
kasya cin nābhijānāmi prītiṃ niṣkāraṇām iha
147 yady api bhrātaraḥ kruddhā māryā vā kāraṇāntare
svabhāvatas te prīyante netaraḥ prīyate janaḥ
148 priyo bhavati dānena priyavādena cāparaḥ
mantrahoma japair anyaḥ kāryārthaṃ prīyate janaḥ
149 utpanne kāraṇe prītir nāsti nau kāraṇāntare
pradhvaste kāraṇasthāne sā prītir vinivartate
150 kiṃ nu tat kāraṇaṃ manye yanāhaṃ bhavataḥ priyaḥ
anyatrābhyavahārārthāt tatrāpi ca budhā vayam
151 kālo hetuṃ vikurute svārthas tam anuvartate
svārthaṃ prājño 'bhijānāti prājñaṃ loko 'nuvartate
152 na tv īdṛśaṃ tvayā vācyaṃ viduṣi svārthapaṇḍite
akāle 'viṣamasthasya svārthahetur ayaṃ tava
153 tasmān nāhaṃ cale svārthāt susthitaḥ saṃdhivigrahe
abhrāṇām iva rūpāṇi vikurvanti kṣaṇe kṣaṇe
154 adyaiva hi ripur bhūtvā punar adyaiva sauhṛdam
punaś ca ripur adyaiva yuktīnāṃ paśya cāpalam
155 āsīt tāvat tu maitrī nau yāvad dhetur abhūt purā
sā gatā saha tenaiva kālayuktena hetunā
156 tvaṃ hi me 'tyantataḥ śatruḥ sāmarthyān mitratāṃ gataḥ
tat kṛtyam abhinirvṛttaṃ prakṛtiḥ śatrutāṃ gatā
157 so 'ham evaṃ praṇītāni jñātvā śāstrāṇi tattvataḥ
praviśeyaṃ kathaṃ pāśaṃ tvatkṛtaṃ tad vadasva me
158 tvadvīryeṇa vimukto 'haṃ madvīryeṇa tathā bhavān
anyonyānugrahe vṛtte nāsti bhūyaḥ samāgamaḥ
159 tvaṃ hi saumya kṛtārtho 'dya nirvṛttārthās tathā vayam
na te 'sty anyan mayā kṛtyaṃ kiṃ cid anyatra bhakṣaṇāt
160 aham annaṃ bhavān bhoktā durbalo 'haṃ bhavān balī
nāvayor vidyate saṃdhir niyukte viṣame bale
161 saṃmanye 'haṃ tava prajñāṃ yan mokṣāt pratyanantaram
bhakṣyaṃ mṛgayase nūnaṃ sukhopāyam asaṃśayam
162 bhakṣyārtham eva baddhas tvaṃ sa muktaḥ prasṛtaḥ kṣudhā
śāstrajñam abhisaṃdhāya nūnaṃ bhakṣayitādya mām
163 jānāmi kṣudhitaṃ hi tvām āhārasamayaś ca te
sa tvaṃ mām abhisaṃdhāya bhakṣyaṃ mṛgayase punaḥ
164 yac cāpi putradāraṃ svaṃ tat saṃnisṛjase mayi
śuśrūṣāṃ nāma me kartuṃ sakhe mama na tatkṣamam
165 tvayā māṃ sahitaṃ dṛṣṭvā priyā bhāryā sutāś ca ye
kasmān māṃ te na khādeyur hṛṣṭāḥ praṇayinas tvayi
166 nāhaṃ tvayā sameṣyāmi vṛtto hetuḥ samāgame
śivaṃ dhyāyasva me 'trasthaḥ sukṛtaṃ smaryate yadi
167 śatror annādya bhūtaḥ san kliṣṭasya kṣudhitasya ca
bhakṣyaṃ mṛgayamāṇasya kaḥ prājño viṣayaṃ vrajet
168 svasti te 'stu gamiṣyāmi dūrād api tavodvije
nāhaṃ tvayā sameṣyāmi nirvṛto bhava lomaśa
169 balavat saṃnikarṣo hi na kadā cit praśasyate
praśāntād api me prājña bhetavyaṃ balinaḥ sadā
170 yadi tv arthena me kāryaṃ brūhi kiṃ karavāṇi te
kāmaṃ sarvaṃ pradāsyāmi na tv ātmānaṃ kadā cana
171 ātmārthe saṃtatis tyājyā rājyaṃ ratnaṃ dhanaṃ tathā
api sarvasvam utsṛjya rakṣed ātmānam ātmanā
172 aiśvaryadhanaratnānāṃ pratyamitre 'pi tiṣṭhatām
dṛṣṭā hi punar āvṛttir jīvitām iti naḥ śrutam
173 na tv ātmanaḥ saṃpradānaṃ dhanaratnavad iṣyate
ātmā tu sarvato rakṣyo dārair api dhanair api
174 ātmarakṣita tantrāṇāṃ suparīkṣita kāriṇām
āpado nopapadyante puruṣāṇāṃ svadoṣajāḥ
175 śatrūn samyag vijānanti durbalā ye balīyasaḥ
teṣāṃ na cālyate buddhir ātmārthaṃ kṛtaniścayā
176 ity abhivyaktam evāsau palitenāvabhartsitaḥ
mārjāro vrīḍito bhūtvā mūṣakaṃ vākyam abravīt
177 saṃmanye 'haṃ tava prajñāṃ yas tvaṃ mama hite rataḥ
uktavān arthatattvena mayā saṃbhinnadarśanaḥ
178 na tu mām anyathā sādho tvaṃ vijñātum ihārhasi
prāṇapradānajaṃ tvatto mama sauhṛdam āgatam
179 dharmajño 'smi guṇajño 'smi kṛtajño 'smi viśeṣataḥ
mitreṣu vatsalaś cāsmi tvadvidheṣu viśeṣataḥ
180 tan mām evaṃgate sādho na yāvayitum arhasi
tvayā hi yāvyamāno 'haṃ prāṇāñ jahyāṃ sabāndhavaḥ
181 dhik śabdo hi budhair dṛṣṭo madvidheṣu manasviṣu
maraṇaṃ dharmatattvajña na māṃ śaṅkitum arhasi
182 iti saṃstūyamāno hi mārjāreṇa sa mūṣakaḥ
manasā bhāvagambhīraṃ mārjāraṃ vākyam abravīt
183 sādhur bhavāñ śrutārtho 'smi prīyate na ca viśvase
saṃstavair vā dhanaughair vā nāhaṃ śakyaḥ punas tvayā
184 na hy amitravaśaṃ yānti prājñā niṣkaraṇaṃ sakhe
asminn arthe ca gāthe dve nibodhośanasā kṛte
185 śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā
samāhitaś cared yuktyā kṛtārthaś ca na viśvaset
186 tasmāt sarvāsv avasthāsu rakṣeñ jīvitam ātmanaḥ
dravyāṇi saṃtatiś caiva sarvaṃ bhavati jīvataḥ
187 saṃkṣepo nītiśāstrāṇām aviśvāsaḥ paro mataḥ
nṛṣu tasmād aviśvāsaḥ puṣkalaṃ hitam ātmanaḥ
188 vadhyante na hy aviśvastāḥ śatrubhir durbalā api
viśvastās tv āśu vadhyante balavanto 'pi durbalaiḥ
189 tvadvidhebhyo mayā hy ātmā rakṣyo mārjārasarvadā
rakṣa tvam api cātmānaṃ caṇḍālāñ jātikilbiṣāt
190 sa tasya bruvatas tv evaṃ saṃtrāsāñ jātasādhvasaḥ
svabaliṃ hi javenāśu mārjāraḥ prayayau tataḥ
191 tataḥ śāstrārthatattvajño buddhisāmarthyam ātmanaḥ
viśrāvya palitaḥ prājño bilam anyañ jagāma ha
192 evaṃ prajñāvatā buddhyā durbalena mahābalāḥ
ekena bahavo 'mitrāḥ saṃdhiṃ kurvīta paṇḍitaḥ
193 ariṇāpi samarthena saṃdhiṃ kurvīta paṇḍitaḥ
mūṣakaś ca viḍālaś ca muktāv anyonyasaṃśrayāt
194 ity eṣa kṣatradharmasya mayā mārgo 'nudarśitaḥ
vistareṇa mahīpāla saṃkṣepeṇa punaḥ śṛṇu
195 anyonyakṛtavairau tu cakratuḥ prītim uttamām
anyonyam abhisaṃdhātum abhūc caiva tayor matiḥ
196 tatra prājño 'bhisaṃdhatte samyag buddhibalāśrayāt
abhisaṃdhīyate prājñaḥ pramādād api cābudhaiḥ
197 tasmād abhītavad bhīto viśvastavad aviśvasan
na hy apramattaś calati calito vā vinaśyati
198 kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ
kārya ity eva tattvajñāḥ prājur nityaṃ yudhiṣṭhira
199 evaṃ matvā mahārāja śāstrārtham abhigamya ca
abhiyukto 'pramattaś ca prāg bhayād bhītavac caret
200 bhītavat saṃvidhiḥ kāryaḥ pratisaṃdhis tathaiva ca
bhayād utpadyate buddhir apramattābhiyogajā
201 na bhayaṃ vidyate rājan bhītasyānāgate bhaye
abhītasya tu visrambhāt sumahāñ jāyate bhayam
202 na bhīrur iti cātyantaṃ mantro 'deyaḥ kathaṃ cana
avijñānād dhi vijñāte gacched āspada darśiṣu
203 tasmād abhītavad bhīto viśvastavad aviśvasan
kāryāṇāṃ gurutāṃ buddhvā nānṛtaṃ kiṃ cid ācaret
204 evam etan mayā proktam itihāsaṃ yudhiṣṭhira
śrutvā tvaṃ suhṛdāṃ madhye yathāvat samupācara
205 upalabhya matiṃ cāgryām arimitrāntaraṃ tathā
saṃdhivigrahakālaṃ ca mokṣopāyaṃ tathāpadi
206 śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā
samāgamaṃ cared yuktyā kṛtārtho na ca viśvaset
207 aviruddhāṃ trivargeṇa nītim etāṃ yudhiṣṭhira
abhyuttiṣṭha śrutād asmād bhūyas tvaṃ rañjayan prajāḥ
208 brāhmaṇaiś cāpi te sārdhaṃ yātrā bhavatu pāṇḍava
brāhmaṇā hi paraṃ śreyo divi ceha ca bhārata
209 ete dharmasya vettāraḥ kṛtajñāḥ satataṃ prabho
pūjitāḥ śubhakarmāṇaḥ pūrvajityā narādhipa
210 rājyaṃ śreyaḥ paraṃ rājan yaśaḥ kīrtiṃ ca lapsyase
kulasya saṃtatiṃ caiva yathānyāyaṃ yathākramam
211 dvayor imaṃ bhārata saṃdhivigrahaṃ; subhāṣitaṃ buddhiviśeṣakāritam
tathānvavekṣya kṣitipena sarvadā; niṣevitavyaṃ nṛpa śatrumaṇḍale

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1476 of 2013 Book 73% ~25 min left