To view the original Internet Sacred Text Archive, visit archive.sacred-texts.com
Book 10: Chapter 8
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 10: Chapter 8

The Mahabharata in Sanskrit

Book 10
Chapter 8

1 [धृ]
तथा परयाते शिबिरं दरॊणपुत्रे महारथे
कच चित कृपश च भॊजश च भयार्तौ न नयवर्तताम
2 कच चिन न वारितौ कषुद्रै रक्षिभिर नॊपलक्षितौ
असह्यम इति वा मत्वा न निवृत्तौ महारथौ
3 कच चित परमथ्य शिबिरं हत्वा सॊमक पाण्डवान
दुर्यॊधनस्य पदवीं गतौ परमिकां रणे
4 पाञ्चालैर वा विनिहतौ कच चिन नास्वपतां कषितौ
कच चित ताभ्यां कृतं कर्म तन ममाचक्ष्व संजय
5 [स]
तस्मिन परयाते शिबिरं दरॊणपुत्रे महात्मनि
कृपश च कृतवर्मा च शिबिर दवार्य अतिष्ठताम
6 अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ
परहृष्टः शनकै राजन्न इदं वचनम अब्रवीत
7 यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने
किं पुनर यॊधशेषस्य परसुप्तस्य विशेषतः
8 अहं परवेक्ष्ये शिबिरं चरिष्यामि च कालवत
यथा न कश चिद अपि मे जीवन मुच्येत मानवः
9 इत्य उक्त्वा पराविशद दरौणिः पार्थानां शिबिरं महत
अद्वारेणाभ्यवस्कन्द्य विहाय भयम आत्मनः
10 स परविश्य महाबाहुर उद्देशज्ञश च तस्य ह
धृष्टद्युम्नस्य निलयं शनकैर अभ्युपागमत
11 ते तु कृत्वा महत कर्म शरान्ताश च बलवद रणे
परसुप्ता वै सुविश्वस्ताः सवसैन्यपरिवारिताः
12 अथ परविश्य तद वेश्म धृष्टद्युम्नस्य भारत
पाञ्चाल्यं शयने दरौणिर अपश्यत सुप्तम अन्तिकात
13 कषौमावदाते महति सपर्ध्यास्तरण संवृते
माल्यप्रवर संयुक्ते धूपैश चूर्णैश च वासिते
14 तं शयानं महात्मानं विस्रब्धम अकुतॊभयम
पराबॊधयत पादेन शयनस्थं महीपते
15 स बुद्ध्वा चरणस्पर्शम उत्थाय रणदुर्मदः
अभ्यजानद अमेयात्मा दरॊणपुत्रं महारथम
16 तम उत्पतन्तं शयनाद अश्वत्थामा महाबलः
केशेष्व आलम्ब्य पाणिभ्यां निष्पिपेष मही तके
17 सबलात तेन निष्पिष्टः साध्वसेन च भारत
निद्रया चैव पाञ्चाल्यॊ नाशकच चेष्टितुं तदा
18 तम आक्रम्य तदा राजन कण्ठे चॊरसि चॊभयॊः
नदन्तं विस्फुरन्तं च पशुमारम अमारयत
19 तुदन नखैस तु स दरौणिं नातिव्यक्तम उदाहरत
आचार्य पुत्र शस्त्रेण जहि मा मां चिरं कृथाः
तवत्कृते सुकृताँल लॊकान गच्छेयं दविपदां वर
20 तस्याव्यक्तां तु तां वाचं संश्रुत्य दरौणिर अब्रवीत
आचार्य घातिनां लॊका न सन्ति कुलपांसन
तस्माच छस्त्रेण निधनं न तवम अर्हसि दुर्मते
21 एवं बरुवाणस तं वीरं सिंहॊ मत्तम इव दविपम
मर्मस्व अभ्यवधीत करुद्धः पादाष्ठीलैः सुदारुणैः
22 तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि
अबुध्यन्त महाराज सत्रियॊ ये चास्य रक्षिणः
23 ते दृष्ट्वा वर्ष्मवन्तं तम अतिमानुष विक्रमम
भूतम एव वयवस्यन्तॊ न सम परव्याहरन भयात
24 तं तु तेन भयुपायेन गमयित्वा यमक्षयम
अध्यतिष्ठत स तेजस्वी रथं पराप्य सुदर्शनम
25 स तस्य भवनाद राजन निष्क्रम्यानादयन दिशः
रथेन शिबिरं परायाज जिघांसुर दविषतॊ बली
26 अपक्रान्ते ततस तस्मिन दरॊणपुत्रे महारथे
सह तै रक्षिभिः सर्वैः परणेदुर यॊषितस तदा
27 राजानं निहतं दृष्ट्वा भृशं शॊकपरायणाः
वयाक्रॊशन कषत्रियाः सर्वे धृष्टद्युम्नस्य भारत
28 तासां तु तेन शब्देन समीपे कषत्रियर्षभाः
कषिप्रं च समनह्यन्त किम एतद इति चाब्रुवन
29 सत्रियस तु राजन वित्रस्ता भरद्वाजं निरीक्ष्य तम
अब्रुवन दीनकण्ठेन कषिप्रम आद्रवतेति वै
30 राक्षसॊ वा मनुष्यॊ वा नैनं जानीमहे वयम
हत्वा पाञ्चालराजं यॊ रथम आरुह्य तिष्ठति
31 ततस ते यॊधमुख्यास तं सहसा पर्यवारयन
स तान आपततः सर्वान रुद्रास्त्रेण वयपॊथयत
32 धृष्टद्युम्नं च हत्वा स तांश चैवास्य पदानुगान
अपश्यच छयने सुप्तम उत्तमौजसम अन्तिके
33 तम अप्य आक्रम्य पादेन कण्ठे चॊरसि चौजसा
तथैव मारयाम आस विनर्दन्तम अरिंदमम
34 युधामन्युस तु संप्राप्तॊ मत्त्वा तं रक्षसा हतम
गदाम उद्यम्य वेगेन हृदि दरौणिम अताडयत
35 तम अभिद्रुत्य जग्राह कषितौ चैनम अपातयत
विस्फुरन्तं च पशुवत तथैवैनम अमारयत
36 तथा स वीरॊ हत्वा तं ततॊ ऽनयान समुपाद्रवत
संसुप्तान एव राजेन्द्र तत्र तत्र महारथान
सफुरतॊ वेपमानांश च शमितेव पशून मखे
37 ततॊ निस्त्रिंशम आदाय जघानान्यान पृथग्जनान
भागशॊ विचरन मार्गान असियुद्धविशारदः
38 तथैव गुल्मे संप्रेक्ष्य शयानान मध्यगौल्मिकान
शरान्तान नयस्तायुधान सर्वान कषणेनैव वयपॊथयत
39 यॊधान अश्वान दविपांश चैव पराच्छिनत स वरासिना
रुधिरॊक्षितसर्वाङ्गः कालसृष्ट इवान्तकः
40 विस्फुरद्भिश च तैर दरैणिर निस्त्रिंशस्यॊद्यमेन च
आक्षेपेण तथैवासेस तरिधा रक्तॊक्षितॊ ऽभवत
41 तस्य लॊहितसिक्तस्य दीप्तखड्गस्य युध्यतः
अमानुष इवाकारॊ बभौ परमभीषणः
42 ये तव अजाग्रत कौरव्य ते ऽपि शब्देन मॊहिताः
निरीक्ष्यमाणा अन्यॊन्यं दरौणिं दृष्ट्वा परविव्यथुः
43 तद रूपं तस्य ते दृष्ट्वा कषत्रियाः शत्रुकर्शनाः
राक्षसं मन्यमानास तं नयनानि नयमीलयन
44 स घॊररूपॊ वयचरत कालवच छिबिरे ततः
अपश्यद दरौपदीपुत्रान अवशिष्टांश च सॊमकान
45 तेन शब्देन वित्रस्ता धनुर हस्ता महारथाः
धृष्टद्युम्नं हतं शरुत्वा दरौपदेया विपां पते
अवाकिरञ शरव्रातैर भारद्वाजम अभीतवत
46 ततस तेन निनादेन संप्रबुद्धाः परभद्रकाः
शिली मिखैः शिखण्डी च दरॊणपुत्रं समार्दयन
47 भरद्वाजस तु तान दृष्ट्वा शरवर्षाणि वर्षतः
ननाद बलवान नादं जिघांसुस तान सुदुर्जयान
48 ततः परमसंक्रुद्धः पितुर वधम अनुस्मरन
अवरुह्य रथॊपस्थात तवरमाणॊ ऽभिदुद्रुवे
49 सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे
खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम
दरौपदेयान अभिद्रुत्य खड्गेन वयचरद बली
50 ततः स नरशार्दूलः परतिबिन्ध्यं तम आहवे
कुक्षि देशे ऽवधीद राजन स हतॊ नयपतद भुवि
51 परासेन विद्ध्वा दरौणिं तु सुत सॊमः परतापवान
पुनश चासिं समुद्यम्य दरॊणपुत्रम उपाद्रवत
52 सुत सॊमस्य सासिं तु बाहुं छित्त्वा नरर्षभः
पुनर अभ्यहनत पार्श्वे स भिन्नहृदयॊ ऽपतत
53 नाकुलिस तु शतानीकॊ रथचक्रेण वीर्यवान
दॊर्भ्याम उत्क्षिप्य वेगेन वक्षस्य एनम अताडयत
54 अताडयच छतानीकं मुक्तचक्रं दविजस तु सः
स विह्वलॊ ययौ भूमिं ततॊ ऽसयापाहरच छिरः
55 शरुतकर्मा तु परिघं गृहीत्वा समताडयत
अभिद्रुत्य ततॊ दरौणिं सव्ये सफलके भृशम
56 स तु तं शरुतकर्माणम आस्ये जघ्ने वरासिना
स हतॊ नयपतद भूमौ विमूढॊ विकृताननः
57 तेन शब्देन वीरस तु शरुतकीर्तिर महाधनुः
अश्वत्थामानम आसाद्य शरवर्षैर अवाकिरत
58 तस्यापि शरवर्षाणि चर्मणा परतिवार्य सः
सकुण्डलं शिरः कायाद भराजमानम अपाहरत
59 ततॊ भीष्म निहन्ता तं सह सर्वैः परभद्रकैः
अहनत सर्वतॊ वीरं नानाप्रहरणैर बली
शिलीमुखेन चाप्य एनं भरुवॊर मध्ये समार्दयत
60 स तु करॊधसमाविष्टॊ दरॊणपुत्रॊ महाबलः
शिखण्डिनं समासाद्य दविधा चिच्छेद सॊ ऽसिना
61 शिखण्डिनं ततॊ हत्वा करॊधाविष्टः परंतपः
परभद्रक गडान सर्वान अभिदुद्राव वेगवान
यच च शिष्टं विराटस्य बलं तच च समाद्रवत
62 दरुपदस्य च पुत्राणां पौत्राणां सुहृदाम अपि
चकार कदनं घॊरं दृष्ट्वा दृष्ट्वा महाबलः
63 अन्यान अन्यांश च पुरुषान अभिसृत्याभिसृत्य च
नयकृन्तद असिना दरौणिर असि मार्गविशारदः
64 कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम
रक्ताम्बरधराम एकां पाशहस्तां शिखण्डिनीम
65 ददृशुः कालरात्रिं ते समयमानाम अवस्थिताम
नराश्वकुञ्जरान पाशैर बद्ध्वा घॊरैः परतस्थुषीम
हरन्तीं विविधान परेतान पाशबद्धान विमूर्धजान
66 सवप्ने सुप्तान नयन्तीं तां रात्रिष्व अन्यासु मारिष
ददृशुर यॊधमुख्यास ते घनन्तं दरौणिं च नित्यदा
67 यतः परवृत्तः संग्रामः कुरुपाण्डवसेनयॊः
ततः परभृति तां कृत्याम अपश्यन दरौणिम एव च
68 तांस तु दैवहतान पूर्वं पश्चाद दरौणिर नयपातयत
तरासयन सर्वभूतानि विनदन भैरवान रवान
69 तद अनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम
इदं तद इत्य अमन्यन्त दैवेनॊपनिपीडिताः
70 ततस तेन निनादेन परत्यबुध्यन्त धन्विनः
शिबिरे पाण्डवेयानां शतशॊ ऽथ सहस्रशः
71 सॊ ऽचछिनत कस्य चित पादौ जघनं चैव कस्य चित
कांश चिद बिभेद पार्श्वेषु कालसृष्ट इवान्तकः
72 अत्युग्र परतिपिष्टैश च नदद्भिश च भृशातुरैः
गजाश्वमथितैश चान्यैर मही कीर्णाभवत परभॊ
73 करॊशतां किम इदं कॊ ऽयं किं शब्दः किं नु किं कृतम
एवं तेषां तदा दरौणिर अन्तकः समपद्यत
74 अपेतशस्त्रसंनाहान संरब्धान पाण्डुसृञ्जयान
पराहिणॊन मृत्युलॊकाय दरौणिः परहरतां वरः
75 ततस तच छस्त्र वित्रस्ता उत्पतन्तॊ भयातुराः
निद्रान्धा नष्टसंज्ञाश च तत्र तत्र निलिल्यिरे
76 ऊरुस्तम्भगृहीताश च कश्मलाभिहतौजसः
विनदन्तॊ भृशं तरस्ताः संन्यपेषन परस्परम
77 ततॊ रथं पुनर दरौणिर आस्थितॊ भीमनिस्वनम
धनुष्पाणिः शरैर अन्यान परेषयद वै यमक्षयम
78 पुनर उत्पततः कांश चिद दूराद अपि नरॊत्तमान
शूरान संपततश चान्यान कालरात्र्यै नयवेदयत
79 तथैव सयन्दनाग्रेण परमथन स विधावति
शरवर्षैश च विविधैर अवर्षच छात्रवांस ततः
80 पुनश च सुविचित्रेण शतचन्द्रेण चर्मणा
तेन चाकाशवर्णेन तदाचरत सॊ ऽसिना
81 तथा स शिबिरं तेषां दरौणिर आहवदुर्मदः
वयक्षॊभयत राजेन्द्र महाह्रदम इव दविपः
82 उत्पेतुस तेन शब्देन यॊधा राजन विचेतसः
निद्रार्ताश च भयार्ताश च वयधावन्त ततस ततः
83 विस्वरं चुक्रुशुश चान्ये बह्वबद्धं तथावदन
न च सम परतिपद्यन्ते शस्त्राणि वसनानि च
84 विमुक्तकेशाश चाप्य अन्ये नाभ्यजानन परस्परम
उत्पतन्तः परे भीताः के चित तत्र तथाभ्रमन
पुरीषम असृजन के चित के चिन मूत्रं परसुस्रुवुः
85 बन्धनानि च राजेन्द्र संछिद्य तुरगा दविपाः
समं पर्यपतंश चान्ये कुर्वन्तॊ महद आकुलम
86 तत्र के चिन नरा भीता वयलीयन्त महीतले
तथैव तान निपतितान अपिंषन गजवाजिनः
87 तस्मिंस तथा वर्तमाने रक्षांसि पुरुषर्षभ
तृप्तानि वयनदन्न उच्चैर मुदा भरतसत्तम
88 स शब्दः परेरितॊ राजन भूतसंघैर मुदा युतैः
अपूरयद दिशः सर्वा दिवं चापि महास्वनः
89 तेषाम आर्तस्वरं शरुत्वा वित्रस्ता गजवाजिनः
मुक्ताः पर्यपतन राजन मृद्नन्तः शिबिरे जनम
90 तैस तत्र परिधावद्भिश चरणॊदीरितं रजः
अकरॊच छिबिरे तेषां रजन्यां दविगुणं तमः
91 तस्मिंस तमसि संजाते परमूढाः सर्वतॊ जनाः
नाजानन पितरः पुत्रान भरातॄन भरातर एव च
92 गजा गजान अतिक्रम्य निर्मनुष्या हया हयान
अताडयंस तथाभञ्जंस तथामृद्नंश च भारत
93 ते भग्नाः परपतन्तश च निघ्नन्तश च परस्परम
नयपातयन्त च परान पातयित्वा तथापिषन
94 विचेतसः सनिद्राश च तमसा चावृता नराः
जघ्नुः सवान एव तत्राथ कालेनाभिप्रचॊदिताः
95 तयक्त्वा दवाराणि च दवाःस्थास तथा गुल्मांश च गौल्मिकाः
पराद्रवन्त यथाशक्ति कांदिशीका विचेतसः
96 विप्रनष्टाश च ते ऽनयॊन्यं नाजानन्त तदा विभॊ
करॊशन्तस तात पुत्रेति दैवॊपहतचेतसः
97 पलायतां दिशस तेषां सवान अप्य उत्सृज्य बान्धवान
गॊत्र नामभिर अन्यॊन्यम आक्रन्दन्त ततॊ जनाः
98 हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे
तान बुद्ध्वा रणमत्तॊ ऽसौ दरॊणपुत्रॊ वयपॊथयत
99 तत्रापरे वध्यमाना मुहुर मुहुर अचेतसः
शिबिरान निष्पतन्ति सम कषत्रिया भयपीडिताः
100 तांस तु निष्पततस तरस्ताञ शिबिराञ जीवितैषिणः
कृतवर्मा कृपश चैव दवारदेशे निजघ्नतुः
101 विशस्त्र यन्त्रकवचान मुक्तकेशान कृताञ्जलीन
वेपमानान कषितौ भीतान नैव कांश चिद अमुञ्चताम
102 नामुच्यत तयॊः कश चिन निष्क्रान्तः शिबिराद बहिः
कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः
103 भूयश चैव चिकीर्षन्तौ दरॊणपुत्रस्य तौ परियम
तरिषु देशेषु ददतुः शिबिरस्य हुताशनम
104 ततः परकाशे शिबिरे खड्गेन पितृनन्दनः
अश्वत्थामा महाराज वयचरत कृतहस्तवत
105 कांश चिद आपततॊ वीरान अपरांश च परधावतः
वययॊजयत खड्गेन पराणैर दविज वरॊ नरान
106 कांश चिद यॊधान स खड्गेन मध्ये संछिद्य वीर्यवान
अपातयद दरॊणसुतः संरब्धस तिलकाण्डवत
107 विनदद्भिर भृशायास तैर नराश्वद्विरदॊत्तमैः
पतितैर अभवत कीर्णा मेदिनी भरतर्षभ
108 मानुषाणां सहस्रेषु हतेषु पतितेषु च
उदतिष्ठन कबन्धानि बहून्य उत्थाय चापतन
109 सायुधान साङ्गदान बाहून निचकर्त शिरांसि च
हस्तिहस्तॊपमान ऊरून हस्तान पादांश च भारत
110 पृष्ठच छिन्नाञ शिरश छिन्नान पार्श्वच छिन्नांस तथापरान
समासाद्याकरॊद दरौणिः कांश चिच चापि पराङ्मुखान
111 मध्यकायान नरान अन्यांश चिछेदान्यांश च कर्णतः
अंसदेशे निहत्यान्यान काये परावेशयच छिरः
112 एवं विचरतस तस्य निघ्नतः सुबहून नरान
तमसा रजनी घॊरा बभौ दारुणदर्शना
113 किं चित पराणैश च पुरुषैर हतैश चान्यैः सहस्रशः
बहुना च गजाश्वेन भूर अभूद भीमदर्शना
114 यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे
करुद्धेन दरॊणपुत्रेण संछिन्नाः परापतन भुवि
115 मातॄर अन्ये पितॄन अन्ये भरातॄन अन्ये विचुक्रुशुः
के चिद ऊचुर न तत करुद्धैर धार्तराष्ट्रैः कृतं रणे
116 यत्कृतं नः परसुप्तानां रक्षॊभिः करूरकर्मभिः
असांनिध्याद धि पार्थानाम इदं नः कदनं कृतम
117 न देवासुरगन्धर्वैर न यक्षैर न च राक्षसैः
शक्यॊ विजेतुं कौन्तेयॊ गॊप्ता यस्य जनार्दनः
118 बरह्मण्यः सत्यवाग दान्तः सर्वभूतानुकम्पकः
न च सुप्तं परमत्तं वा नयस्तशस्त्रं कृताञ्जलिम
धावन्तं मुक्तकेशं वा हन्ति पार्थॊ धनंजयः
119 तद इदं नः कृतं घॊरं रक्षॊभिः करूरकर्मभिः
इति लालप्यमानाः सम शेरते बहवॊ जनाः
120 सतनतां च मनुष्याणाम अपरेषां च कूजताम
ततॊ मुहूर्तात पराशाम्यत स शब्दस तुमुलॊ महान
121 शॊणितव्यतिषिक्तायां वसुधायां च भूमिप
तद रजस तुमुलं घॊरं कषणेनान्तर अधीयत
122 संवेष्टमानान उद्विग्नान निरुत्साहान सहस्रशः
नयपातयन नरान करुद्धः पशून पशुपतिर यथा
123 अन्यॊन्यं संपरिष्वज्य शयानान दरवतॊ ऽपरान
संलीनान युध्यमानांश च सर्वान दरौणिर अपॊथयत
124 दह्यमाना हुताशेन वध्यमानाश च तेन ते
परस्परं तदा यॊधा अनयन यमसादनम
125 तस्या रजन्यास तव अर्धेन पाण्डवानां महद बलम
गमयाम आस राजेन्द्र दरौणिर यम निवेशनम
126 निशाचराणां सत्त्वानां स रात्रिर हर्षवर्धिनी
आसीन नरगजाश्वानां रौद्री कषयकरी भृशम
127 तत्रादृश्यन्त रक्षांसि पिशाचाश च पृथग्विधाः
खादन्तॊ नरमांसानि पिबन्तः शॊणितानि च
128 करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः
जटिला दीर्घसक्थाश च पञ्च पादा महॊदराः
129 पश्चाद अङ्गुलयॊ रूक्षा विरूपा भैरवस्वनाः
घटजानवॊ ऽतिह्रस्वाश च नीलकण्ठा विभीषणाः
130 सपुत्रदाराः सुक्रूरा दुर्दर्शन सुनिर्घृणाः
विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम
131 पीत्वा च शॊणितं हृष्टाः परानृत्यन गणशॊ ऽपरे
इदं वरम इदं मेध्यम इदं सवाद्व इति चाब्रुवन
132 मेदॊ मज्जास्थि रक्तानां वसानां च भृशासिताः
परमांसानि खादन्तः करव्यादा मांसजीविनः
133 वसां चाप्य अपरे पीत्वा पर्यधावन विकुक्षिलाः
नाना वक्त्रास तथा रौद्राः करव्यादाः पिशिताशिनः
134 अयुतानि च तत्रासन परयुतान्य अर्बुदानि च
रक्षसां घॊररूपाणां महतां करूरकर्मणाम
135 मुदितानां वितृप्तानां तस्मिन महति वैशसे
समेतानि बहून्य आसन भूतानि च जनाधिप
136 परत्यूषकाले शिबिरात परतिगन्तुम इयेष सः
नृशॊणितावसिक्तस्य दरौणेर आसीद असि तसरुः
पाणिना सह संश्लिष्ट एकीभूत इव परभॊ
137 स निःशेषान अरीन कृत्वा विरराज जनक्षये
युगान्ते सर्वभूतानि भस्मकृत्वेव पावकः
138 यथाप्रतिज्ञं तत कर्मकृत्वा दरौणायनिः परभॊ
दुर्गमां पदवीं कृत्वा पितुर आसीद गतज्वरः
139 यथैव संसुप्त जने शिबिरे पराविशन निशि
तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः
140 निष्क्रम्य शिबिरात तस्मात ताभ्यां संगम्य वीर्यवान
आचख्यौ कर्म तत सर्वं हृष्टः संहर्षयन विभॊ
141 ताव अप्य आचख्यतुस तस्मै परियं परियकरौ तदा
पाञ्चालान सृञ्जयांश चैव विनिकृत्तान सहस्रशः
परीत्या चॊच्चैर उदक्रॊशंस तथैवास्फॊटयंस तलान
142 एवंविधा हि सा रात्रिः सॊमकानां जनक्षये
परसुप्तानां परमत्तानाम आसीत सुभृशदारुणा
143 असंशयं हि कालस्य पर्यायॊ दुरतिक्रमः
तादृशा निहता यत्र कृत्वास्माकं जनक्षयम
144 [धृ]
पराग एव सुमहत कर्म दरौणिर एतन महारथः
नाकरॊद ईदृशं कस्मान मत पुत्र विजये धृतः
145 अथ कस्माद धते कषत्रे कर्मेदं कृतवान असौ
दरॊणपुत्रॊ महेष्वासस तन मे शंसितुम अर्हसि
146 [स]
तेषां नूनं भयान नासौ कृतवान कुरुनन्दन
असांनिध्याद धि पार्थानां केशवस्य च धीमतः
147 सात्यकेश चापि कर्मेदं दरॊणपुत्रेण साधितम
न हि तेषां समक्षं तान हन्याद अपि मरुत्पतिः
148 एतद ईदृशकं वृत्तं राजन सुप्त जने विभॊ
ततॊ जनक्षयं कृत्वा पाण्डवानां महात्ययम
दिष्ट्या दिष्ट्येति चान्यॊन्यं समेत्यॊचुर महारथाः
149 पर्यष्वजत ततॊ दरौणिस ताभ्यां च परतिनन्दितः
इदं हर्षाच च सुमहद आददे वाक्यम उत्तमम
150 पाञ्चाला निहताः सर्वे दरौपदेयाश च सर्वशः
सॊमका मत्स्यशेषाश च सर्वे विनिहता मया
151 इदानीं कृतकृत्याः सम यामतत्रैव माचिरम
यदि जीवति नॊ राजा तस्मै शंसामहे परियम
1 [dhṛ]
tathā prayāte śibiraṃ droṇaputre mahārathe
kac cit kṛpaś ca bhojaś ca bhayārtau na nyavartatām
2 kac cin na vāritau kṣudrai rakṣibhir nopalakṣitau
asahyam iti vā matvā na nivṛttau mahārathau
3 kac cit pramathya śibiraṃ hatvā somaka pāṇḍavān
duryodhanasya padavīṃ gatau paramikāṃ raṇe
4 pāñcālair vā vinihatau kac cin nāsvapatāṃ kṣitau
kac cit tābhyāṃ kṛtaṃ karma tan mamācakṣva saṃjaya
5 [s]
tasmin prayāte śibiraṃ droṇaputre mahātmani
kṛpaś ca kṛtavarmā ca śibira dvāry atiṣṭhatām
6 aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau
prahṛṣṭaḥ śanakai rājann idaṃ vacanam abravīt
7 yattau bhavantau paryāptau sarvakṣatrasya nāśane
kiṃ punar yodhaśeṣasya prasuptasya viśeṣataḥ
8 ahaṃ pravekṣye śibiraṃ cariṣyāmi ca kālavat
yathā na kaś cid api me jīvan mucyeta mānavaḥ
9 ity uktvā prāviśad drauṇiḥ pārthānāṃ śibiraṃ mahat
advāreṇābhyavaskandya vihāya bhayam ātmanaḥ
10 sa praviśya mahābāhur uddeśajñaś ca tasya ha
dhṛṣṭadyumnasya nilayaṃ śanakair abhyupāgamat
11 te tu kṛtvā mahat karma śrāntāś ca balavad raṇe
prasuptā vai suviśvastāḥ svasainyaparivāritāḥ
12 atha praviśya tad veśma dhṛṣṭadyumnasya bhārata
pāñcālyaṃ śayane drauṇir apaśyat suptam antikāt
13 kṣaumāvadāte mahati spardhyāstaraṇa saṃvṛte
mālyapravara saṃyukte dhūpaiś cūrṇaiś ca vāsite
14 taṃ śayānaṃ mahātmānaṃ visrabdham akutobhayam
prābodhayata pādena śayanasthaṃ mahīpate
15 sa buddhvā caraṇasparśam utthāya raṇadurmadaḥ
abhyajānad ameyātmā droṇaputraṃ mahāratham
16 tam utpatantaṃ śayanād aśvatthāmā mahābalaḥ
keśeṣv ālambya pāṇibhyāṃ niṣpipeṣa mahī take
17 sabalāt tena niṣpiṣṭaḥ sādhvasena ca bhārata
nidrayā caiva pāñcālyo nāśakac ceṣṭituṃ tadā
18 tam ākramya tadā rājan kaṇṭhe corasi cobhayoḥ
nadantaṃ visphurantaṃ ca paśumāram amārayat
19 tudan nakhais tu sa drauṇiṃ nātivyaktam udāharat
ācārya putra śastreṇa jahi mā māṃ ciraṃ kṛthāḥ
tvatkṛte sukṛtāṁl lokān gaccheyaṃ dvipadāṃ vara
20 tasyāvyaktāṃ tu tāṃ vācaṃ saṃśrutya drauṇir abravīt
ācārya ghātināṃ lokā na santi kulapāṃsana
tasmāc chastreṇa nidhanaṃ na tvam arhasi durmate
21 evaṃ bruvāṇas taṃ vīraṃ siṃho mattam iva dvipam
marmasv abhyavadhīt kruddhaḥ pādāṣṭhīlaiḥ sudāruṇaiḥ
22 tasya vīrasya śabdena māryamāṇasya veśmani
abudhyanta mahārāja striyo ye cāsya rakṣiṇaḥ
23 te dṛṣṭvā varṣmavantaṃ tam atimānuṣa vikramam
bhūtam eva vyavasyanto na sma pravyāharan bhayāt
24 taṃ tu tena bhyupāyena gamayitvā yamakṣayam
adhyatiṣṭhat sa tejasvī rathaṃ prāpya sudarśanam
25 sa tasya bhavanād rājan niṣkramyānādayan diśaḥ
rathena śibiraṃ prāyāj jighāṃsur dviṣato balī
26 apakrānte tatas tasmin droṇaputre mahārathe
saha tai rakṣibhiḥ sarvaiḥ praṇedur yoṣitas tadā
27 rājānaṃ nihataṃ dṛṣṭvā bhṛśaṃ śokaparāyaṇāḥ
vyākrośan kṣatriyāḥ sarve dhṛṣṭadyumnasya bhārata
28 tāsāṃ tu tena śabdena samīpe kṣatriyarṣabhāḥ
kṣipraṃ ca samanahyanta kim etad iti cābruvan
29 striyas tu rājan vitrastā bharadvājaṃ nirīkṣya tam
abruvan dīnakaṇṭhena kṣipram ādravateti vai
30 rākṣaso vā manuṣyo vā nainaṃ jānīmahe vayam
hatvā pāñcālarājaṃ yo ratham āruhya tiṣṭhati
31 tatas te yodhamukhyās taṃ sahasā paryavārayan
sa tān āpatataḥ sarvān rudrāstreṇa vyapothayat
32 dhṛṣṭadyumnaṃ ca hatvā sa tāṃś caivāsya padānugān
apaśyac chayane suptam uttamaujasam antike
33 tam apy ākramya pādena kaṇṭhe corasi caujasā
tathaiva mārayām āsa vinardantam ariṃdamam
34 yudhāmanyus tu saṃprāpto mattvā taṃ rakṣasā hatam
gadām udyamya vegena hṛdi drauṇim atāḍayat
35 tam abhidrutya jagrāha kṣitau cainam apātayat
visphurantaṃ ca paśuvat tathaivainam amārayat
36 tathā sa vīro hatvā taṃ tato 'nyān samupādravat
saṃsuptān eva rājendra tatra tatra mahārathān
sphurato vepamānāṃś ca śamiteva paśūn makhe
37 tato nistriṃśam ādāya jaghānānyān pṛthagjanān
bhāgaśo vicaran mārgān asiyuddhaviśāradaḥ
38 tathaiva gulme saṃprekṣya śayānān madhyagaulmikān
śrāntān nyastāyudhān sarvān kṣaṇenaiva vyapothayat
39 yodhān aśvān dvipāṃś caiva prācchinat sa varāsinā
rudhirokṣitasarvāṅgaḥ kālasṛṣṭa ivāntakaḥ
40 visphuradbhiś ca tair draiṇir nistriṃśasyodyamena ca
ākṣepeṇa tathaivāses tridhā raktokṣito 'bhavat
41 tasya lohitasiktasya dīptakhaḍgasya yudhyataḥ
amānuṣa ivākāro babhau paramabhīṣaṇaḥ
42 ye tv ajāgrata kauravya te 'pi śabdena mohitāḥ
nirīkṣyamāṇā anyonyaṃ drauṇiṃ dṛṣṭvā pravivyathuḥ
43 tad rūpaṃ tasya te dṛṣṭvā kṣatriyāḥ śatrukarśanāḥ
rākṣasaṃ manyamānās taṃ nayanāni nyamīlayan
44 sa ghorarūpo vyacarat kālavac chibire tataḥ
apaśyad draupadīputrān avaśiṣṭāṃś ca somakān
45 tena śabdena vitrastā dhanur hastā mahārathāḥ
dhṛṣṭadyumnaṃ hataṃ śrutvā draupadeyā vipāṃ pate
avākirañ śaravrātair bhāradvājam abhītavat
46 tatas tena ninādena saṃprabuddhāḥ prabhadrakāḥ
śilī mikhaiḥ śikhaṇḍī ca droṇaputraṃ samārdayan
47 bharadvājas tu tān dṛṣṭvā śaravarṣāṇi varṣataḥ
nanāda balavān nādaṃ jighāṃsus tān sudurjayān
48 tataḥ paramasaṃkruddhaḥ pitur vadham anusmaran
avaruhya rathopasthāt tvaramāṇo 'bhidudruve
49 sahasracandraṃ vipulaṃ gṛhītvā carma saṃyuge
khaḍgaṃ ca vipulaṃ divyaṃ jātarūpapariṣkṛtam
draupadeyān abhidrutya khaḍgena vyacarad balī
50 tataḥ sa naraśārdūlaḥ pratibindhyaṃ tam āhave
kukṣi deśe 'vadhīd rājan sa hato nyapatad bhuvi
51 prāsena viddhvā drauṇiṃ tu suta somaḥ pratāpavān
punaś cāsiṃ samudyamya droṇaputram upādravat
52 suta somasya sāsiṃ tu bāhuṃ chittvā nararṣabhaḥ
punar abhyahanat pārśve sa bhinnahṛdayo 'patat
53 nākulis tu śatānīko rathacakreṇa vīryavān
dorbhyām utkṣipya vegena vakṣasy enam atāḍayat
54 atāḍayac chatānīkaṃ muktacakraṃ dvijas tu saḥ
sa vihvalo yayau bhūmiṃ tato 'syāpāharac chiraḥ
55 śrutakarmā tu parighaṃ gṛhītvā samatāḍayat
abhidrutya tato drauṇiṃ savye saphalake bhṛśam
56 sa tu taṃ śrutakarmāṇam āsye jaghne varāsinā
sa hato nyapatad bhūmau vimūḍho vikṛtānanaḥ
57 tena śabdena vīras tu śrutakīrtir mahādhanuḥ
aśvatthāmānam āsādya śaravarṣair avākirat
58 tasyāpi śaravarṣāṇi carmaṇā prativārya saḥ
sakuṇḍalaṃ śiraḥ kāyād bhrājamānam apāharat
59 tato bhīṣma nihantā taṃ saha sarvaiḥ prabhadrakaiḥ
ahanat sarvato vīraṃ nānāpraharaṇair balī
śilīmukhena cāpy enaṃ bhruvor madhye samārdayat
60 sa tu krodhasamāviṣṭo droṇaputro mahābalaḥ
śikhaṇḍinaṃ samāsādya dvidhā ciccheda so 'sinā
61 śikhaṇḍinaṃ tato hatvā krodhāviṣṭaḥ paraṃtapaḥ
prabhadraka gaḍān sarvān abhidudrāva vegavān
yac ca śiṣṭaṃ virāṭasya balaṃ tac ca samādravat
62 drupadasya ca putrāṇāṃ pautrāṇāṃ suhṛdām api
cakāra kadanaṃ ghoraṃ dṛṣṭvā dṛṣṭvā mahābalaḥ
63 anyān anyāṃś ca puruṣān abhisṛtyābhisṛtya ca
nyakṛntad asinā drauṇir asi mārgaviśāradaḥ
64 kālīṃ raktāsyanayanāṃ raktamālyānulepanām
raktāmbaradharām ekāṃ pāśahastāṃ śikhaṇḍinīm
65 dadṛśuḥ kālarātriṃ te smayamānām avasthitām
narāśvakuñjarān pāśair baddhvā ghoraiḥ pratasthuṣīm
harantīṃ vividhān pretān pāśabaddhān vimūrdhajān
66 svapne suptān nayantīṃ tāṃ rātriṣv anyāsu māriṣa
dadṛśur yodhamukhyās te ghnantaṃ drauṇiṃ ca nityadā
67 yataḥ pravṛttaḥ saṃgrāmaḥ kurupāṇḍavasenayoḥ
tataḥ prabhṛti tāṃ kṛtyām apaśyan drauṇim eva ca
68 tāṃs tu daivahatān pūrvaṃ paścād drauṇir nyapātayat
trāsayan sarvabhūtāni vinadan bhairavān ravān
69 tad anusmṛtya te vīrā darśanaṃ paurvakālikam
idaṃ tad ity amanyanta daivenopanipīḍitāḥ
70 tatas tena ninādena pratyabudhyanta dhanvinaḥ
śibire pāṇḍaveyānāṃ śataśo 'tha sahasraśaḥ
71 so 'cchinat kasya cit pādau jaghanaṃ caiva kasya cit
kāṃś cid bibheda pārśveṣu kālasṛṣṭa ivāntakaḥ
72 atyugra pratipiṣṭaiś ca nadadbhiś ca bhṛśāturaiḥ
gajāśvamathitaiś cānyair mahī kīrṇābhavat prabho
73 krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam
evaṃ teṣāṃ tadā drauṇir antakaḥ samapadyata
74 apetaśastrasaṃnāhān saṃrabdhān pāṇḍusṛñjayān
prāhiṇon mṛtyulokāya drauṇiḥ praharatāṃ varaḥ
75 tatas tac chastra vitrastā utpatanto bhayāturāḥ
nidrāndhā naṣṭasaṃjñāś ca tatra tatra nililyire
76 ūrustambhagṛhītāś ca kaśmalābhihataujasaḥ
vinadanto bhṛśaṃ trastāḥ saṃnyapeṣan parasparam
77 tato rathaṃ punar drauṇir āsthito bhīmanisvanam
dhanuṣpāṇiḥ śarair anyān preṣayad vai yamakṣayam
78 punar utpatataḥ kāṃś cid dūrād api narottamān
śūrān saṃpatataś cānyān kālarātryai nyavedayat
79 tathaiva syandanāgreṇa pramathan sa vidhāvati
śaravarṣaiś ca vividhair avarṣac chātravāṃs tataḥ
80 punaś ca suvicitreṇa śatacandreṇa carmaṇā
tena cākāśavarṇena tadācarata so 'sinā
81 tathā sa śibiraṃ teṣāṃ drauṇir āhavadurmadaḥ
vyakṣobhayata rājendra mahāhradam iva dvipaḥ
82 utpetus tena śabdena yodhā rājan vicetasaḥ
nidrārtāś ca bhayārtāś ca vyadhāvanta tatas tataḥ
83 visvaraṃ cukruśuś cānye bahvabaddhaṃ tathāvadan
na ca sma pratipadyante śastrāṇi vasanāni ca
84 vimuktakeśāś cāpy anye nābhyajānan parasparam
utpatantaḥ pare bhītāḥ ke cit tatra tathābhraman
purīṣam asṛjan ke cit ke cin mūtraṃ prasusruvuḥ
85 bandhanāni ca rājendra saṃchidya turagā dvipāḥ
samaṃ paryapataṃś cānye kurvanto mahad ākulam
86 tatra ke cin narā bhītā vyalīyanta mahītale
tathaiva tān nipatitān apiṃṣan gajavājinaḥ
87 tasmiṃs tathā vartamāne rakṣāṃsi puruṣarṣabha
tṛptāni vyanadann uccair mudā bharatasattama
88 sa śabdaḥ prerito rājan bhūtasaṃghair mudā yutaiḥ
apūrayad diśaḥ sarvā divaṃ cāpi mahāsvanaḥ
89 teṣām ārtasvaraṃ śrutvā vitrastā gajavājinaḥ
muktāḥ paryapatan rājan mṛdnantaḥ śibire janam
90 tais tatra paridhāvadbhiś caraṇodīritaṃ rajaḥ
akaroc chibire teṣāṃ rajanyāṃ dviguṇaṃ tamaḥ
91 tasmiṃs tamasi saṃjāte pramūḍhāḥ sarvato janāḥ
nājānan pitaraḥ putrān bhrātṝn bhrātara eva ca
92 gajā gajān atikramya nirmanuṣyā hayā hayān
atāḍayaṃs tathābhañjaṃs tathāmṛdnaṃś ca bhārata
93 te bhagnāḥ prapatantaś ca nighnantaś ca parasparam
nyapātayanta ca parān pātayitvā tathāpiṣan
94 vicetasaḥ sanidrāś ca tamasā cāvṛtā narāḥ
jaghnuḥ svān eva tatrātha kālenābhipracoditāḥ
95 tyaktvā dvārāṇi ca dvāḥsthās tathā gulmāṃś ca gaulmikāḥ
prādravanta yathāśakti kāṃdiśīkā vicetasaḥ
96 vipranaṣṭāś ca te 'nyonyaṃ nājānanta tadā vibho
krośantas tāta putreti daivopahatacetasaḥ
97 palāyatāṃ diśas teṣāṃ svān apy utsṛjya bāndhavān
gotra nāmabhir anyonyam ākrandanta tato janāḥ
98 hāhākāraṃ ca kurvāṇāḥ pṛthivyāṃ śerate pare
tān buddhvā raṇamatto 'sau droṇaputro vyapothayat
99 tatrāpare vadhyamānā muhur muhur acetasaḥ
śibirān niṣpatanti sma kṣatriyā bhayapīḍitāḥ
100 tāṃs tu niṣpatatas trastāñ śibirāñ jīvitaiṣiṇaḥ
kṛtavarmā kṛpaś caiva dvāradeśe nijaghnatuḥ
101 viśastra yantrakavacān muktakeśān kṛtāñjalīn
vepamānān kṣitau bhītān naiva kāṃś cid amuñcatām
102 nāmucyata tayoḥ kaś cin niṣkrāntaḥ śibirād bahiḥ
kṛpasya ca mahārāja hārdikyasya ca durmateḥ
103 bhūyaś caiva cikīrṣantau droṇaputrasya tau priyam
triṣu deśeṣu dadatuḥ śibirasya hutāśanam
104 tataḥ prakāśe śibire khaḍgena pitṛnandanaḥ
aśvatthāmā mahārāja vyacarat kṛtahastavat
105 kāṃś cid āpatato vīrān aparāṃś ca pradhāvataḥ
vyayojayata khaḍgena prāṇair dvija varo narān
106 kāṃś cid yodhān sa khaḍgena madhye saṃchidya vīryavān
apātayad droṇasutaḥ saṃrabdhas tilakāṇḍavat
107 vinadadbhir bhṛśāyās tair narāśvadviradottamaiḥ
patitair abhavat kīrṇā medinī bharatarṣabha
108 mānuṣāṇāṃ sahasreṣu hateṣu patiteṣu ca
udatiṣṭhan kabandhāni bahūny utthāya cāpatan
109 sāyudhān sāṅgadān bāhūn nicakarta śirāṃsi ca
hastihastopamān ūrūn hastān pādāṃś ca bhārata
110 pṛṣṭhac chinnāñ śiraś chinnān pārśvac chinnāṃs tathāparān
samāsādyākarod drauṇiḥ kāṃś cic cāpi parāṅmukhān
111 madhyakāyān narān anyāṃś cichedānyāṃś ca karṇataḥ
aṃsadeśe nihatyānyān kāye prāveśayac chiraḥ
112 evaṃ vicaratas tasya nighnataḥ subahūn narān
tamasā rajanī ghorā babhau dāruṇadarśanā
113 kiṃ cit prāṇaiś ca puruṣair hataiś cānyaiḥ sahasraśaḥ
bahunā ca gajāśvena bhūr abhūd bhīmadarśanā
114 yakṣarakṣaḥsamākīrṇe rathāśvadvipadāruṇe
kruddhena droṇaputreṇa saṃchinnāḥ prāpatan bhuvi
115 mātṝr anye pitṝn anye bhrātṝn anye vicukruśuḥ
ke cid ūcur na tat kruddhair dhārtarāṣṭraiḥ kṛtaṃ raṇe
116 yatkṛtaṃ naḥ prasuptānāṃ rakṣobhiḥ krūrakarmabhiḥ
asāṃnidhyād dhi pārthānām idaṃ naḥ kadanaṃ kṛtam
117 na devāsuragandharvair na yakṣair na ca rākṣasaiḥ
śakyo vijetuṃ kaunteyo goptā yasya janārdanaḥ
118 brahmaṇyaḥ satyavāg dāntaḥ sarvabhūtānukampakaḥ
na ca suptaṃ pramattaṃ vā nyastaśastraṃ kṛtāñjalim
dhāvantaṃ muktakeśaṃ vā hanti pārtho dhanaṃjayaḥ
119 tad idaṃ naḥ kṛtaṃ ghoraṃ rakṣobhiḥ krūrakarmabhiḥ
iti lālapyamānāḥ sma śerate bahavo janāḥ
120 stanatāṃ ca manuṣyāṇām apareṣāṃ ca kūjatām
tato muhūrtāt prāśāmyat sa śabdas tumulo mahān
121 śoṇitavyatiṣiktāyāṃ vasudhāyāṃ ca bhūmipa
tad rajas tumulaṃ ghoraṃ kṣaṇenāntar adhīyata
122 saṃveṣṭamānān udvignān nirutsāhān sahasraśaḥ
nyapātayan narān kruddhaḥ paśūn paśupatir yathā
123 anyonyaṃ saṃpariṣvajya śayānān dravato 'parān
saṃlīnān yudhyamānāṃś ca sarvān drauṇir apothayat
124 dahyamānā hutāśena vadhyamānāś ca tena te
parasparaṃ tadā yodhā anayan yamasādanam
125 tasyā rajanyās tv ardhena pāṇḍavānāṃ mahad balam
gamayām āsa rājendra drauṇir yama niveśanam
126 niśācarāṇāṃ sattvānāṃ sa rātrir harṣavardhinī
āsīn naragajāśvānāṃ raudrī kṣayakarī bhṛśam
127 tatrādṛśyanta rakṣāṃsi piśācāś ca pṛthagvidhāḥ
khādanto naramāṃsāni pibantaḥ śoṇitāni ca
128 karālāḥ piṅgalā raudrāḥ śailadantā rajasvalāḥ
jaṭilā dīrghasakthāś ca pañca pādā mahodarāḥ
129 paścād aṅgulayo rūkṣā virūpā bhairavasvanāḥ
ghaṭajānavo 'tihrasvāś ca nīlakaṇṭhā vibhīṣaṇāḥ
130 saputradārāḥ sukrūrā durdarśana sunirghṛṇāḥ
vividhāni ca rūpāṇi tatrādṛśyanta rakṣasām
131 pītvā ca śoṇitaṃ hṛṣṭāḥ prānṛtyan gaṇaśo 'pare
idaṃ varam idaṃ medhyam idaṃ svādv iti cābruvan
132 medo majjāsthi raktānāṃ vasānāṃ ca bhṛśāsitāḥ
paramāṃsāni khādantaḥ kravyādā māṃsajīvinaḥ
133 vasāṃ cāpy apare pītvā paryadhāvan vikukṣilāḥ
nānā vaktrās tathā raudrāḥ kravyādāḥ piśitāśinaḥ
134 ayutāni ca tatrāsan prayutāny arbudāni ca
rakṣasāṃ ghorarūpāṇāṃ mahatāṃ krūrakarmaṇām
135 muditānāṃ vitṛptānāṃ tasmin mahati vaiśase
sametāni bahūny āsan bhūtāni ca janādhipa
136 pratyūṣakāle śibirāt pratigantum iyeṣa saḥ
nṛśoṇitāvasiktasya drauṇer āsīd asi tsaruḥ
pāṇinā saha saṃśliṣṭa ekībhūta iva prabho
137 sa niḥśeṣān arīn kṛtvā virarāja janakṣaye
yugānte sarvabhūtāni bhasmakṛtveva pāvakaḥ
138 yathāpratijñaṃ tat karmakṛtvā drauṇāyaniḥ prabho
durgamāṃ padavīṃ kṛtvā pitur āsīd gatajvaraḥ
139 yathaiva saṃsupta jane śibire prāviśan niśi
tathaiva hatvā niḥśabde niścakrāma nararṣabhaḥ
140 niṣkramya śibirāt tasmāt tābhyāṃ saṃgamya vīryavān
ācakhyau karma tat sarvaṃ hṛṣṭaḥ saṃharṣayan vibho
141 tāv apy ācakhyatus tasmai priyaṃ priyakarau tadā
pāñcālān sṛñjayāṃś caiva vinikṛttān sahasraśaḥ
prītyā coccair udakrośaṃs tathaivāsphoṭayaṃs talān
142 evaṃvidhā hi sā rātriḥ somakānāṃ janakṣaye
prasuptānāṃ pramattānām āsīt subhṛśadāruṇā
143 asaṃśayaṃ hi kālasya paryāyo duratikramaḥ
tādṛśā nihatā yatra kṛtvāsmākaṃ janakṣayam
144 [dhṛ]
prāg eva sumahat karma drauṇir etan mahārathaḥ
nākarod īdṛśaṃ kasmān mat putra vijaye dhṛtaḥ
145 atha kasmād dhate kṣatre karmedaṃ kṛtavān asau
droṇaputro maheṣvāsas tan me śaṃsitum arhasi
146 [s]
teṣāṃ nūnaṃ bhayān nāsau kṛtavān kurunandana
asāṃnidhyād dhi pārthānāṃ keśavasya ca dhīmataḥ
147 sātyakeś cāpi karmedaṃ droṇaputreṇa sādhitam
na hi teṣāṃ samakṣaṃ tān hanyād api marutpatiḥ
148 etad īdṛśakaṃ vṛttaṃ rājan supta jane vibho
tato janakṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam
diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ
149 paryaṣvajat tato drauṇis tābhyāṃ ca pratinanditaḥ
idaṃ harṣāc ca sumahad ādade vākyam uttamam
150 pāñcālā nihatāḥ sarve draupadeyāś ca sarvaśaḥ
somakā matsyaśeṣāś ca sarve vinihatā mayā
151 idānīṃ kṛtakṛtyāḥ sma yāmatatraiva māciram
yadi jīvati no rājā tasmai śaṃsāmahe priyam

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1301 of 2013 Book 65% ~17 min left