Book 1: Chapter 94
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 1: Chapter 94

The Mahabharata in Sanskrit

Book 1
Chapter 94

1 [व]
स एवं शंतनुर धीमान देवराजर्षिसत्कृतः
धर्मात्मा सर्वलॊकेषु सत्यवाग इति विश्रुतः
2 दमॊ दानं कषमा बुद्धिर हरीर धृतिस तेज उत्तमम
नित्यान्य आसन महासत्त्वे शंतनौ पुरुषर्षभे
3 एवं स गुणसंपन्नॊ धर्मार्थकुशलॊ नृपः
आसीद भरत वंशस्य गॊप्ता साधु जनस्य च
4 कम्बुग्रीवः पृथु वयंसॊ मत्तवारणविक्रमः
धर्म एव परः कामाद अर्थाच चेति वयवस्थितः
5 एतान्य आसन महासत्त्वे शंतनौ भरतर्षभ
न चास्य सदृशः कश चित कषत्रियॊ धर्मतॊ ऽभवत
6 वर्तमानं हि धर्मे सवे सर्वधर्मविदां वरम
तं महीपा महीपालं राजराज्ये ऽभयषेचयन
7 वीतशॊकभयाबाधाः सुखस्वप्नविबॊधनाः
परति भारत गॊप्तारं समपद्यन्त भूमिपाः
8 शंतनु परमुखैर गुप्ते लॊके नृपतिभिस तदा
नियमात सर्ववर्णानां बरह्मॊत्तरम अवर्तत
9 बरह्म पर्यचरत कषत्रं विशः कषत्रम अनुव्रताः
बरह्मक्षत्रानुरक्ताश च शूद्राः पर्यचरन विशः
10 स हास्तिनपुरे रम्ये कुरूणां पुटभेदने
वसन सागरपर्यन्ताम अन्वशाद वै वसुंधराम
11 स देवराजसदृशॊ धर्मज्ञः सत्यवाग ऋजुः
दानधर्मतपॊ यॊगाच छरिया परमया युतः
12 अरागद्वेषसंयुक्तः सॊमवत परियदर्शनः
तेजसा सूर्यसंकाशॊ वायुवेगसमॊ जवे
अन्तकप्रतिमः कॊपे कषमया पृथिवीसमः
13 वधः पशुवराहाणां तथैव मृगपक्षिणाम
शंतनौ पृथिवीपाले नावर्तत वृथा नृपः
14 धर्मब्रह्मॊत्तरे राज्ये शंतनुर विनयात्मवान
समं शशास भूतानि कामरागविवर्जितः
15 देवर्षिपितृयज्ञार्थम आरभ्यन्त तदा करियाः
न चाधर्मेण केषां चित पराणिनाम अभवद वधः
16 असुखानाम अनाथानां तिर्यग्यॊनिषु वर्तताम
स एव राजा भूतानां सर्वेषाम अभवत पिता
17 तस्मिन कुरुपतिश्रेष्ठे राजराजेश्वरे सति
शरिता वाग अभवत सत्यं दानधर्माश्रितं मनः
18 स समाः षॊडशाष्टौ च चतस्रॊ ऽषटौ तथापराः
रतिम अप्राप्नुवन सत्रीषु बभूव वनगॊचरः
19 तथारूपस तथाचारस तथा वृत्तस तथा शरुतः
गाङ्गेयस तस्य पुत्रॊ ऽभून नाम्ना देवव्रतॊ वसुः
20 सर्वास्त्रेषु स निष्णातः पार्थिवेष्व इतरेषु च
महाबलॊ महासत्त्वॊ महावीर्यॊ महारथः
21 स कदा चिन मृगं विद्ध्वा गङ्गाम अनुसरन नदीम
भागीरथीम अल्पजलां शंतनुर दृष्टवान नृपः
22 तां दृष्ट्वा चिन्तयाम आस शंतनुः पुरुषर्षभः
सयन्दते किं नव इयं नाद्य सरिच्छ्रेष्ठा यथा पुरा
23 ततॊ निमित्तम अन्विच्छन ददर्श स महामनाः
कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम
24 दिव्यम अस्त्रं विकुर्वाणं यथा देवं पुरंदरम
कृत्स्नां गङ्गां समावृत्य शरैस तीक्ष्णैर अवस्थितम
25 तां शरैर आवृतां दृष्ट्वा नदीं गङ्गां तद अन्तिके
अभवद विस्मितॊ राजा कर्म दृष्ट्वातिमानुषम
26 जातमात्रं पुरा दृष्टं तं पुत्रं शंतनुस तदा
नॊपलेभे समृतिं धीमान अभिज्ञातुं तम आत्मजम
27 स तु तं पितरं दृष्ट्वा मॊहयाम आस मायया
संमॊह्य तु ततः कषिप्रं तत्रैवान्तरधीयत
28 तद अद्भुतं तदा दृष्ट्वा तत्र राजा स शंतनुः
शङ्कमानः सुतं गङ्गाम अब्रवीद दर्शयेति ह
29 दर्शयाम आस तं गङ्गा बिभ्रती रूपम उत्तमम
गृहीत्वा दक्षिणे पाणौ तं कुमारम अलंकृतम
30 अलंकृताम आभरणैर अरजॊ ऽमबरधारिणीम
दृष्टपूर्वाम अपि सतीं नाभ्यजानात स शंतनुः
31 [ग]
यं पुत्रम अष्टमं राजंस तवं पुरा मय्य अजायिथाः
स ते ऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम
32 वेदान अधिजगे साङ्गान वसिष्ठाद एव वीर्यवान
कृतास्त्रः परमेष्वासॊ देवराजसमॊ युधि
33 सुराणां संमतॊ नित्यम असुराणां च भारत
उशना वेद यच छास्त्रम अयं तद वेद सर्वशः
34 तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः
यद वेद शास्त्रं तच चापि कृत्स्नम अस्मिन परतिष्ठितम
तव पुत्रे महाबाहौ साङ्गॊपाङ्गं महात्मनि
35 ऋषिः परैर अनाधृष्यॊ जामदग्न्यः परतापवान
यद अस्त्रं वेद रामश च तद अप्य अस्मिन परतिष्ठितम
36 महेष्वासम इमं राजन राजधर्मार्थकॊविदम
मया दत्तं निजं पुत्रं वीरं वीर गृहान नय
37 [व]
तयैवं समनुज्ञातः पुत्रम आदाय शंतनुः
भराजमानं यथादित्यम आययौ सवपुरं परति
38 पौरवः सवपुरं गत्वा पुरंदर पुरॊपमम
सर्वकामसमृद्धार्थं मेने आत्मानम आत्मना
पौरवेषु ततः पुत्रं यौवराज्ये ऽभयषेचयत
39 पौरवाञ शंतनॊः पुत्रः पितरं च महायशाः
राष्ट्रं च रञ्जयाम आस वृत्तेन भरतर्षभ
40 स तथा सह पुत्रेण रममाणॊ महीपतिः
वर्तयाम आस वर्षाणि चत्वार्य अमितविक्रमः
41 स कदा चिद वनं यातॊ यमुनाम अभितॊ नदीम
महीपतिर अनिर्देश्यम आजिघ्रद गन्धम उत्तमम
42 तस्य परभवम अन्विच्छन विचचार समन्ततः
स ददर्श तदा कन्यां दाशानां देवरूपिणीम
43 ताम अपृच्छत स दृष्ट्वैव कन्याम असितलॊचनाम
कस्य तवम असि का चासि किं च भीरु चिकीर्षसि
44 साब्रवीद दाशकन्यास्मि धर्मार्थं वाहये तरीम
पितुर नियॊगाद भद्रं ते दाशराज्ञॊ महात्मनः
45 रूपमाधुर्य गन्धैस तां संयुक्तां देवरूपिणीम
समीक्ष्य राजा दाशेयीं कामयाम आस शंतनुः
46 स गत्वा पितरं तस्या वरयाम आस तां तदा
पर्यपृच्छत ततस तस्याः पितरं चात्मकारणात
47 स च तं परत्युवाचेदं दाशराजॊ महीपतिम
जातमात्रैव मे देया वराय वरवर्णिनी
हृदि कामस तु मे कश चित तं निबॊध जनेश्वर
48 यदीमां धर्मपत्नीं तवं मत्तः परार्थयसे ऽनघ
सत्यवाग असि सत्येन समयं कुरु मे ततः
49 समयेन परदद्यां ते कन्याम अहम इमां नृप
न हि मे तवत्समः कश चिद वरॊ जातु भविष्यति
50 [ष]
शरुत्वा तव वरं दाशव्यवस्येयम अहं न वा
दातव्यं चेत परदास्यामि न तव अदेयं कथं चन
51 [दाष]
अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः
तवद ऊर्ध्वम अभिषेक्तव्यॊ नान्यः कश चन पार्थिव
52 [व]
नाकामयत तं दातुं वरं दाशाय शंतनुः
शरीरजेन तीव्रेण दह्यमानॊ ऽपि भारत
53 स चिन्तयन्न एव तदा दाशकन्यां महीपतिः
परत्ययाद धास्तिन पुरं शॊकॊपहतचेतनः
54 ततः कदा चिच छॊचन्तं शंतनुं धयानम आस्थितम
पुत्रॊ देवव्रतॊ ऽभयेत्य पितरं वाक्यम अब्रवीत
55 सर्वतॊ भवतः कषेमं विधेयाः सर्वपार्थिवाः
तत किमर्थम इहाभीक्ष्णं परिशॊचसि दुःखितः
धयायन्न इव च किं राजन नाभिभाषसि किं चन
56 एवम उक्तः सपुत्रेण शंतनुः परत्यभाषत
असंशयं धयानपरं यथा मात्थ तथास्म्य उत
57 अपत्यं नस तवम एवैकः कुले महति भारत
अनित्यता च मर्त्यानाम अतः शॊचामि पुत्रक
58 कथं चित तव गाङ्गेय विपत्तौ नास्ति नः कुलम
असंशयं तवम एवैकः शताद अपि वरः सुतः
59 न चाप्य अहं वृथा भूयॊ दारान कर्तुम इहॊत्सहे
संतानस्याविनाशाय कामये भद्रम अस्तु ते
अनपत्यतैक पुत्रत्वम इत्य आहुर धर्मवादिनः
60 अग्निहॊत्रं तरयॊ वेदा यज्ञाश च सहदक्षिणाः
सर्वाण्य एतान्य अपत्यस्य कलां नार्हन्ति षॊडशीम
61 एवम एव मनुष्येषु सयाच च सर्वप्रजास्व अपि
यद अपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः
एषा तरयी पुराणानाम उत्तमानां च शाश्वती
62 तवं च शूरः सदामर्षी शस्त्रनित्यश च भारत
नान्यत्र शस्त्रात तस्मात ते निधनं विद्यते ऽनघ
63 सॊ ऽसमि संशयम आपन्नस तवयि शान्ते कथं भवेत
इति ते कारणं तात दुःखस्यॊक्तम अशेषतः
64 ततस तत कारणं जञात्वा कृत्स्नं चैवम अशेषतः
देवव्रतॊ महाबुद्धिः परययाव अनुचिन्तयन
65 अभ्यगच्छत तदैवाशु वृद्धामात्यं पितुर हितम
तम अपृच्छत तदाभ्येत्य पितुस तच छॊककारणम
66 तस्मै स कुरुमुख्याय यथावत परिपृच्छते
वरं शशंस कन्यां ताम उद्दिश्य भरतर्षभ
67 ततॊ देवव्रतॊ वृद्धैः कषत्रियैः सहितस तदा
अभिगम्य दाशराजानं कन्यां वव्रे पितुः सवयम
68 तं दाशः परतिजग्राह विधिवत परतिपूज्य च
अब्रवीच चैनम आसीनं राजसंसदि भारत
69 तवम एव नाथः पर्याप्तः शंतनॊः पुरुषर्षभ
पुत्रः पुत्रवतां शरेष्ठः किं नु वक्ष्यामि ते वचः
70 कॊ हि संबन्धकं शलाघ्यम ईप्सितं यौनम ईदृशम
अतिक्रामन न तप्येत साक्षाद अपि शतक्रतुः
71 अपत्यं चैतद आर्यस्य यॊ युष्माकं समॊ गुणैः
यस्य शुक्रात सत्यवती परादुर्भूता यशस्विनी
72 तेन मे बहुशस तात पिता ते परिकीर्तितः
अर्हः सत्यवतीं वॊढुं सर्वराजसु भारत
73 असितॊ हय अपि देवर्षिः परत्याख्यातः पुरा मया
सत्यवत्या भृशं हय अर्थी स आसीद ऋषिसत्तमः
74 कन्यापितृत्वात किं चित तु वक्ष्यामि भरतर्षभ
बलवत सपत्नताम अत्र दॊषं पश्यामि केवलम
75 यस्य हि तवं सपत्नः सया गन्धर्वस्यासुरस्य वा
न स जातु सुखं जीवेत तवयि करुद्धे परंतप
76 एतावान अत्र दॊषॊ हि नान्यः कश चन पार्थिव
एतज जानीहि भद्रं ते दानादाने परंतप
77 एवम उक्तस तु गाङ्गेयस तद युक्तं परत्यभाषत
शृण्वतां भूमिपालानां पितुर अर्थाय भारत
78 इदं मे मतम आदत्स्व सत्यं सत्यवतां वर
नैव जातॊ न वाजात ईदृशं वक्तुम उत्सहेत
79 एवम एतत करिष्यामि यथा तवम अनुभाषसे
यॊ ऽसयां जनिष्यते पुत्रः स नॊ राजा भविष्यति
80 इत्य उक्तः पुनर एवाथ तं दाशः परत्यभाषत
चिकीर्षुर दुष्करं कर्म राज्यार्थे भरतर्षभ
81 तवम एव नाथः पर्याप्तः शंतनॊर अमितद्युतेः
कन्यायाश चैव धर्मात्मन परभुर दानाय चेश्वरः
82 इदं तु वचनं सौम्य कार्यं चैव निबॊध मे
कौमारिकाणां शीलेन वक्ष्याम्य अहम अरिंदम
83 यत तवया सत्यवत्य अर्थे सत्यधर्मपरायण
राजमध्ये परतिज्ञातम अनुरूपं तवैव तत
84 नान्यथा तन महाबाहॊ संशयॊ ऽतर न कश चन
तवापत्यं भवेद यत तु तत्र नः संशयॊ महान
85 तस्य तन मतम आज्ञाय सत्यधर्मपरायणः
परत्यजानात तदा राजन पितुः परियचिकीर्षया
86 [देवव्रत]
दाशराजनिबॊधेदं वचनं मे नृपॊत्तम
शृण्वतां भूमिपालानां यद बरवीमि पितुः कृते
87 राज्यं तावत पूर्वम एव मया तयक्तं नराधिप
अपत्यहेतॊर अपि च करॊम्य एष विनिश्चयम
88 अद्य परभृति मे दाशब्रह्मचर्यं भविष्यति
अपुत्रस्यापि मे लॊका भविष्यन्त्य अक्षया दिवि
89 [व]
तस्य तद वचनं शरुत्वा संप्रहृष्टतनू रुहः
ददानीत्य एव तं दाशॊ धर्मात्मा परत्यभाषत
90 ततॊ ऽनतरिक्षे ऽपसरसॊ देवाः सर्षिगणास तथा
अभ्यवर्षन्त कुसुमैर भीष्मॊ ऽयम इति चाब्रुवन
91 ततः स पितुर अर्थाय ताम उवाच यशस्विनीम
अधिरॊह रथं मातर गच्छावः सवगृहान इति
92 एवम उक्त्वा तु भीष्मस तां रथम आरॊप्य भामिनीम
आगम्य हास्तिनपुरं शंतनॊः संन्यवेदयत
93 तस्य तद दुष्करं कर्म परशशंसुर नराधिपाः
समेताश च पृथक चैव भीष्मॊ ऽयम इति चाब्रुवन
94 तद दृष्ट्वा दुष्करं कर्मकृतं भीष्मेण शंतनुः
सवच्छन्दमरणं तस्मै ददौ तुष्टः पिता सवयम
1 [v]
sa evaṃ śaṃtanur dhīmān devarājarṣisatkṛtaḥ
dharmātmā sarvalokeṣu satyavāg iti viśrutaḥ
2 damo dānaṃ kṣamā buddhir hrīr dhṛtis teja uttamam
nityāny āsan mahāsattve śaṃtanau puruṣarṣabhe
3 evaṃ sa guṇasaṃpanno dharmārthakuśalo nṛpaḥ
āsīd bharata vaṃśasya goptā sādhu janasya ca
4 kambugrīvaḥ pṛthu vyaṃso mattavāraṇavikramaḥ
dharma eva paraḥ kāmād arthāc ceti vyavasthitaḥ
5 etāny āsan mahāsattve śaṃtanau bharatarṣabha
na cāsya sadṛśaḥ kaś cit kṣatriyo dharmato 'bhavat
6 vartamānaṃ hi dharme sve sarvadharmavidāṃ varam
taṃ mahīpā mahīpālaṃ rājarājye 'bhyaṣecayan
7 vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ
prati bhārata goptāraṃ samapadyanta bhūmipāḥ
8 śaṃtanu pramukhair gupte loke nṛpatibhis tadā
niyamāt sarvavarṇānāṃ brahmottaram avartata
9 brahma paryacarat kṣatraṃ viśaḥ kṣatram anuvratāḥ
brahmakṣatrānuraktāś ca śūdrāḥ paryacaran viśaḥ
10 sa hāstinapure ramye kurūṇāṃ puṭabhedane
vasan sāgaraparyantām anvaśād vai vasuṃdharām
11 sa devarājasadṛśo dharmajñaḥ satyavāg ṛjuḥ
dānadharmatapo yogāc chriyā paramayā yutaḥ
12 arāgadveṣasaṃyuktaḥ somavat priyadarśanaḥ
tejasā sūryasaṃkāśo vāyuvegasamo jave
antakapratimaḥ kope kṣamayā pṛthivīsamaḥ
13 vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām
śaṃtanau pṛthivīpāle nāvartata vṛthā nṛpaḥ
14 dharmabrahmottare rājye śaṃtanur vinayātmavān
samaṃ śaśāsa bhūtāni kāmarāgavivarjitaḥ
15 devarṣipitṛyajñārtham ārabhyanta tadā kriyāḥ
na cādharmeṇa keṣāṃ cit prāṇinām abhavad vadhaḥ
16 asukhānām anāthānāṃ tiryagyoniṣu vartatām
sa eva rājā bhūtānāṃ sarveṣām abhavat pitā
17 tasmin kurupatiśreṣṭhe rājarājeśvare sati
śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ
18 sa samāḥ ṣoḍaśāṣṭau ca catasro 'ṣṭau tathāparāḥ
ratim aprāpnuvan strīṣu babhūva vanagocaraḥ
19 tathārūpas tathācāras tathā vṛttas tathā śrutaḥ
gāṅgeyas tasya putro 'bhūn nāmnā devavrato vasuḥ
20 sarvāstreṣu sa niṣṇātaḥ pārthiveṣv itareṣu ca
mahābalo mahāsattvo mahāvīryo mahārathaḥ
21 sa kadā cin mṛgaṃ viddhvā gaṅgām anusaran nadīm
bhāgīrathīm alpajalāṃ śaṃtanur dṛṣṭavān nṛpaḥ
22 tāṃ dṛṣṭvā cintayām āsa śaṃtanuḥ puruṣarṣabhaḥ
syandate kiṃ nv iyaṃ nādya saricchreṣṭhā yathā purā
23 tato nimittam anvicchan dadarśa sa mahāmanāḥ
kumāraṃ rūpasaṃpannaṃ bṛhantaṃ cārudarśanam
24 divyam astraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram
kṛtsnāṃ gaṅgāṃ samāvṛtya śarais tīkṣṇair avasthitam
25 tāṃ śarair āvṛtāṃ dṛṣṭvā nadīṃ gaṅgāṃ tad antike
abhavad vismito rājā karma dṛṣṭvātimānuṣam
26 jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ śaṃtanus tadā
nopalebhe smṛtiṃ dhīmān abhijñātuṃ tam ātmajam
27 sa tu taṃ pitaraṃ dṛṣṭvā mohayām āsa māyayā
saṃmohya tu tataḥ kṣipraṃ tatraivāntaradhīyata
28 tad adbhutaṃ tadā dṛṣṭvā tatra rājā sa śaṃtanuḥ
śaṅkamānaḥ sutaṃ gaṅgām abravīd darśayeti ha
29 darśayām āsa taṃ gaṅgā bibhratī rūpam uttamam
gṛhītvā dakṣiṇe pāṇau taṃ kumāram alaṃkṛtam
30 alaṃkṛtām ābharaṇair arajo 'mbaradhāriṇīm
dṛṣṭapūrvām api satīṃ nābhyajānāt sa śaṃtanuḥ
31 [g]
yaṃ putram aṣṭamaṃ rājaṃs tvaṃ purā mayy ajāyithāḥ
sa te 'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam
32 vedān adhijage sāṅgān vasiṣṭhād eva vīryavān
kṛtāstraḥ parameṣvāso devarājasamo yudhi
33 surāṇāṃ saṃmato nityam asurāṇāṃ ca bhārata
uśanā veda yac chāstram ayaṃ tad veda sarvaśaḥ
34 tathaivāṅgirasaḥ putraḥ surāsuranamaskṛtaḥ
yad veda śāstraṃ tac cāpi kṛtsnam asmin pratiṣṭhitam
tava putre mahābāhau sāṅgopāṅgaṃ mahātmani
35 ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān
yad astraṃ veda rāmaś ca tad apy asmin pratiṣṭhitam
36 maheṣvāsam imaṃ rājan rājadharmārthakovidam
mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya
37 [v]
tayaivaṃ samanujñātaḥ putram ādāya śaṃtanuḥ
bhrājamānaṃ yathādityam āyayau svapuraṃ prati
38 pauravaḥ svapuraṃ gatvā puraṃdara puropamam
sarvakāmasamṛddhārthaṃ mene ātmānam ātmanā
pauraveṣu tataḥ putraṃ yauvarājye 'bhyaṣecayat
39 pauravāñ śaṃtanoḥ putraḥ pitaraṃ ca mahāyaśāḥ
rāṣṭraṃ ca rañjayām āsa vṛttena bharatarṣabha
40 sa tathā saha putreṇa ramamāṇo mahīpatiḥ
vartayām āsa varṣāṇi catvāry amitavikramaḥ
41 sa kadā cid vanaṃ yāto yamunām abhito nadīm
mahīpatir anirdeśyam ājighrad gandham uttamam
42 tasya prabhavam anvicchan vicacāra samantataḥ
sa dadarśa tadā kanyāṃ dāśānāṃ devarūpiṇīm
43 tām apṛcchat sa dṛṣṭvaiva kanyām asitalocanām
kasya tvam asi kā cāsi kiṃ ca bhīru cikīrṣasi
44 sābravīd dāśakanyāsmi dharmārthaṃ vāhaye tarīm
pitur niyogād bhadraṃ te dāśarājño mahātmanaḥ
45 rūpamādhurya gandhais tāṃ saṃyuktāṃ devarūpiṇīm
samīkṣya rājā dāśeyīṃ kāmayām āsa śaṃtanuḥ
46 sa gatvā pitaraṃ tasyā varayām āsa tāṃ tadā
paryapṛcchat tatas tasyāḥ pitaraṃ cātmakāraṇāt
47 sa ca taṃ pratyuvācedaṃ dāśarājo mahīpatim
jātamātraiva me deyā varāya varavarṇinī
hṛdi kāmas tu me kaś cit taṃ nibodha janeśvara
48 yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase 'nagha
satyavāg asi satyena samayaṃ kuru me tataḥ
49 samayena pradadyāṃ te kanyām aham imāṃ nṛpa
na hi me tvatsamaḥ kaś cid varo jātu bhaviṣyati
50 [ṣ]
śrutvā tava varaṃ dāśavyavasyeyam ahaṃ na vā
dātavyaṃ cet pradāsyāmi na tv adeyaṃ kathaṃ cana
51 [dāṣa]
asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ
tvad ūrdhvam abhiṣektavyo nānyaḥ kaś cana pārthiva
52 [v]
nākāmayata taṃ dātuṃ varaṃ dāśāya śaṃtanuḥ
śarīrajena tīvreṇa dahyamāno 'pi bhārata
53 sa cintayann eva tadā dāśakanyāṃ mahīpatiḥ
pratyayād dhāstina puraṃ śokopahatacetanaḥ
54 tataḥ kadā cic chocantaṃ śaṃtanuṃ dhyānam āsthitam
putro devavrato 'bhyetya pitaraṃ vākyam abravīt
55 sarvato bhavataḥ kṣemaṃ vidheyāḥ sarvapārthivāḥ
tat kimartham ihābhīkṣṇaṃ pariśocasi duḥkhitaḥ
dhyāyann iva ca kiṃ rājan nābhibhāṣasi kiṃ cana
56 evam uktaḥ saputreṇa śaṃtanuḥ pratyabhāṣata
asaṃśayaṃ dhyānaparaṃ yathā māttha tathāsmy uta
57 apatyaṃ nas tvam evaikaḥ kule mahati bhārata
anityatā ca martyānām ataḥ śocāmi putraka
58 kathaṃ cit tava gāṅgeya vipattau nāsti naḥ kulam
asaṃśayaṃ tvam evaikaḥ śatād api varaḥ sutaḥ
59 na cāpy ahaṃ vṛthā bhūyo dārān kartum ihotsahe
saṃtānasyāvināśāya kāmaye bhadram astu te
anapatyataika putratvam ity āhur dharmavādinaḥ
60 agnihotraṃ trayo vedā yajñāś ca sahadakṣiṇāḥ
sarvāṇy etāny apatyasya kalāṃ nārhanti ṣoḍaśīm
61 evam eva manuṣyeṣu syāc ca sarvaprajāsv api
yad apatyaṃ mahāprājña tatra me nāsti saṃśayaḥ
eṣā trayī purāṇānām uttamānāṃ ca śāśvatī
62 tvaṃ ca śūraḥ sadāmarṣī śastranityaś ca bhārata
nānyatra śastrāt tasmāt te nidhanaṃ vidyate 'nagha
63 so 'smi saṃśayam āpannas tvayi śānte kathaṃ bhavet
iti te kāraṇaṃ tāta duḥkhasyoktam aśeṣataḥ
64 tatas tat kāraṇaṃ jñātvā kṛtsnaṃ caivam aśeṣataḥ
devavrato mahābuddhiḥ prayayāv anucintayan
65 abhyagacchat tadaivāśu vṛddhāmātyaṃ pitur hitam
tam apṛcchat tadābhyetya pitus tac chokakāraṇam
66 tasmai sa kurumukhyāya yathāvat paripṛcchate
varaṃ śaśaṃsa kanyāṃ tām uddiśya bharatarṣabha
67 tato devavrato vṛddhaiḥ kṣatriyaiḥ sahitas tadā
abhigamya dāśarājānaṃ kanyāṃ vavre pituḥ svayam
68 taṃ dāśaḥ pratijagrāha vidhivat pratipūjya ca
abravīc cainam āsīnaṃ rājasaṃsadi bhārata
69 tvam eva nāthaḥ paryāptaḥ śaṃtanoḥ puruṣarṣabha
putraḥ putravatāṃ śreṣṭhaḥ kiṃ nu vakṣyāmi te vacaḥ
70 ko hi saṃbandhakaṃ ślāghyam īpsitaṃ yaunam īdṛśam
atikrāman na tapyeta sākṣād api śatakratuḥ
71 apatyaṃ caitad āryasya yo yuṣmākaṃ samo guṇaiḥ
yasya śukrāt satyavatī prādurbhūtā yaśasvinī
72 tena me bahuśas tāta pitā te parikīrtitaḥ
arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata
73 asito hy api devarṣiḥ pratyākhyātaḥ purā mayā
satyavatyā bhṛśaṃ hy arthī sa āsīd ṛṣisattamaḥ
74 kanyāpitṛtvāt kiṃ cit tu vakṣyāmi bharatarṣabha
balavat sapatnatām atra doṣaṃ paśyāmi kevalam
75 yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā
na sa jātu sukhaṃ jīvet tvayi kruddhe paraṃtapa
76 etāvān atra doṣo hi nānyaḥ kaś cana pārthiva
etaj jānīhi bhadraṃ te dānādāne paraṃtapa
77 evam uktas tu gāṅgeyas tad yuktaṃ pratyabhāṣata
śṛṇvatāṃ bhūmipālānāṃ pitur arthāya bhārata
78 idaṃ me matam ādatsva satyaṃ satyavatāṃ vara
naiva jāto na vājāta īdṛśaṃ vaktum utsahet
79 evam etat kariṣyāmi yathā tvam anubhāṣase
yo 'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati
80 ity uktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata
cikīrṣur duṣkaraṃ karma rājyārthe bharatarṣabha
81 tvam eva nāthaḥ paryāptaḥ śaṃtanor amitadyuteḥ
kanyāyāś caiva dharmātman prabhur dānāya ceśvaraḥ
82 idaṃ tu vacanaṃ saumya kāryaṃ caiva nibodha me
kaumārikāṇāṃ śīlena vakṣyāmy aham ariṃdama
83 yat tvayā satyavaty arthe satyadharmaparāyaṇa
rājamadhye pratijñātam anurūpaṃ tavaiva tat
84 nānyathā tan mahābāho saṃśayo 'tra na kaś cana
tavāpatyaṃ bhaved yat tu tatra naḥ saṃśayo mahān
85 tasya tan matam ājñāya satyadharmaparāyaṇaḥ
pratyajānāt tadā rājan pituḥ priyacikīrṣayā
86 [devavrata]
dāśarājanibodhedaṃ vacanaṃ me nṛpottama
śṛṇvatāṃ bhūmipālānāṃ yad bravīmi pituḥ kṛte
87 rājyaṃ tāvat pūrvam eva mayā tyaktaṃ narādhipa
apatyahetor api ca karomy eṣa viniścayam
88 adya prabhṛti me dāśabrahmacaryaṃ bhaviṣyati
aputrasyāpi me lokā bhaviṣyanty akṣayā divi
89 [v]
tasya tad vacanaṃ śrutvā saṃprahṛṣṭatanū ruhaḥ
dadānīty eva taṃ dāśo dharmātmā pratyabhāṣata
90 tato 'ntarikṣe 'psaraso devāḥ sarṣigaṇās tathā
abhyavarṣanta kusumair bhīṣmo 'yam iti cābruvan
91 tataḥ sa pitur arthāya tām uvāca yaśasvinīm
adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti
92 evam uktvā tu bhīṣmas tāṃ ratham āropya bhāminīm
āgamya hāstinapuraṃ śaṃtanoḥ saṃnyavedayat
93 tasya tad duṣkaraṃ karma praśaśaṃsur narādhipāḥ
sametāś ca pṛthak caiva bhīṣmo 'yam iti cābruvan
94 tad dṛṣṭvā duṣkaraṃ karmakṛtaṃ bhīṣmeṇa śaṃtanuḥ
svacchandamaraṇaṃ tasmai dadau tuṣṭaḥ pitā svayam

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

95 of 2013 Book 5% ~11 min left