Book 1: Chapter 61
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 1: Chapter 61

The Mahabharata in Sanskrit

Book 1
Chapter 61

1 [ज]
देवानां दानवानां च यक्षाणाम अथ रक्षसाम
अन्येषां चैव भूतानां सर्वेषां भगवन्न अहम
2 शरॊतुम इच्छामि तत्त्वेन मानुषेषु महात्मनाम
जन्म कर्म च भूतानाम एतेषाम अनुपूर्वशः
3 [व]
मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः
परथमं दानवांश चैव तांस ते वक्ष्यामि सर्वशः
4 विप्रचित्तिर इति खयातॊ य आसीद दानवर्षभः
जरासंध इति खयातः स आसीन मनुजर्षभः
5 दितेः पुत्रस तु यॊ राजन हिरण्यकशिपुः समृतः
स जज्ञे मानुषे लॊके शिशुपालॊ नरर्षभः
6 संह्राद इति विख्यातः परह्रादस्यानुजस तु यः
स शल्य इति विख्यातॊ जज्ञे बाह्लील पुंगवः
7 अनुह्रादस तु तेजस्वी यॊ ऽभूत खयातॊ जघन्यजः
धृष्टकेतुर इति खयातः स आसीन मनुजेश्वरः
8 यस तु राजञ शिबिर नाम दैतेयः परिकीर्तितः
दरुम इत्य अभिविख्यातः स आसीद भुवि पार्थिवः
9 बाष्कलॊ नाम यस तेषाम आसीद असुरसत्तमः
भगदत्त इति खयातः स आसीन मनुजेश्वरः
10 अयः शिरा अश्वशिरा अयः शङ्कुश च वीर्यवान
तथा गगनमूर्धा च वेगवांश चात्र पञ्चमः
11 पञ्चैते जज्ञिरे राजन वीर्यवन्तॊ महासुराः
केकयेषु महात्मानः पार्थिवर्षभ सत्तमाः
12 केतुमान इति विख्यातॊ यस ततॊ ऽनयः परतापवान
अमितौजा इति खयातः पृथिव्यां सॊ ऽभवन्न नृपः
13 सवर्भानुर इति विख्यातः शरीमान यस तु महासुरः
उग्रसेन इति खयात उग्र कर्मा नराधिपः
14 यस तव अश्व इति विख्यातः शरीमान आसीन महासुरः
अशॊकॊ नाम राजासीन महावीर्यपराक्रमः
15 तस्माद अवरजॊ यस तु राजन्न अश्वपतिः समृतः
दैतेयः सॊ ऽभवद राजा हार्दिक्यॊ मनुजर्षभः
16 वृषपर्वेति विख्यातः शरीमान यस तु महासुरः
दीर्घप्रज्ञ इति खयातः पृथिव्यां सॊ ऽभवन नृपः
17 अजकस तव अनुजॊ राजन य आसीद वृषपर्वणः
स मल्ल इति विख्यातः पृथिव्याम अभवन नृपः
18 अश्वग्रीव इति खयातः सत्त्ववान यॊ महासुरः
रॊचमान इति खयातः पृथिव्यां सॊ ऽभवन नृपः
19 सूक्ष्मस तु मतिमान राजन कीर्तिमान यः परकीर्तितः
बृहन्त इति विख्यातः कषिताव आसीत स पार्थिवः
20 तुहुण्ड इति विख्यातॊ य आसीद असुरॊत्तमः
सेना बिन्दुर इति खयातः स बभूव नराधिपः
21 इसृपा नाम यस तेषाम असुराणां बलाधिकः
पापजिन नाम राजासीद भुवि विख्यातविक्रमः
22 एकचक्र इति खयात आसीद यस तु महासुरः
परतिविन्ध्य इति खयातॊ बभूव परथितः कषितौ
23 विरूपाक्षस तु दैतेयश चित्रयॊधी महासुरः
चित्रवर्मेति विख्यातः कषिताव आसीत स पार्थिवः
24 हरस तव अरिहरॊ वीर आसीद यॊ दानवॊत्तमः
सुवास्तुर इति विख्यातः स जज्ञे मनुजर्षभः
25 अहरस तु महातेजाः शत्रुपक्ष कषयं करः
बाह्लीकॊ नाम राजा स बभूव परथितः कषितौ
26 निचन्द्रश चन्द्र वक्त्रश च य आसीद असुरॊत्तमः
मुञ्ज केश इति खयातः शरीमान आसीत स पार्थिवः
27 निकुम्भस तव अजितः संख्ये महामतिर अजायत
भूमौ भूमिपतिः शरेष्ठॊ देवाधिप इति समृतः
28 शरभॊ नाम यस तेषां दैतेयानां महासुरः
पौरवॊ नाम राजर्षिः स बभूव नरेष्व इह
29 दवितीयः शलभस तेषाम असुराणां बभूव यः
परह्रादॊ नाम बाह्लीकः स बभूव नराधिपः
30 चन्द्रस तु दितिजश्रेष्ठॊ लॊके ताराधिपॊपमः
ऋषिकॊ नाम राजर्षिर बभूव नृपसत्तमः
31 मृतपा इति विख्यातॊ य आसीद असुरॊत्तमः
पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम
32 गविष्ठस तु महातेजा यः परख्यातॊ महासुरः
दरुमसेन इति खयातः पृथिव्यां सॊ ऽभवन नृपः
33 मयूर इति विख्यातः शरीमान यस तु महासुरः
स विश्व इति विख्यातॊ बभूव पृथिवीपतिः
34 सुपर्ण इति विख्याततस्माद अवरजस तु यः
कालकीर्तिर इति खयातः पृथिव्यां सॊ ऽभवन नृपः
35 चन्द्र हन्तेति यस तेषां कीर्तितः परवरॊ ऽसुरः
शुनकॊ नाम राजर्षिः स बभूव नराधिपः
36 विनाशनस तु चन्द्रस्य य आख्यातॊ महासुरः
जानकिर नाम राजर्षिः स बभूव नराधिपः
37 दीर्घजिह्वस तु कौरव्य य उक्तॊ दानवर्षभः
काशिराज इति खयातः पृथिव्यां पृथिवीपतिः
38 गरहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम
कराथ इत्य अभिविख्यातः सॊ ऽभवन मनुजाधिपः
39 अनायुषस तु पुत्राणां चतुर्णां परवरॊ ऽसुरः
विक्षरॊ नाम तेजस्वी वसु मित्रॊ ऽभवन नृपः
40 दवितीयॊ विक्षराद्यस तु नराधिप महासुरः
पांसुराष्ट्राधिप इति विश्रुतः सॊ ऽभवन नृपः
41 बलवीर इति खयातॊ यस तव आसीद असुरॊत्तमः
पौण्ड्र मत्स्यक इत्य एव स बभूव नराधिपः
42 वृत्र इत्य अभिविख्यातॊ यस तु राजन महासुरः
मणिमान नाम राजर्षिः स बभूव नराधिपः
43 करॊधहन्तेति यस तस्य बभूवावरजॊ ऽसुरः
दण्ड इत्य अभिविख्यातः स आसीन नृपतिः कषितौ
44 करॊधवर्धन इत्य एव यस तव अन्यः परिकीर्तितः
दण्डधार इति खयातः सॊ ऽभवन मनुजेश्वरः
45 कालकायास तु ये पुत्रास तेषाम अष्टौ नराधिपाः
जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः
46 मगधेषु जयत्सेनः शरीमान आसीत स पार्थिवः
अष्टानां परवरस तेषां कालेयानां महासुरः
47 दवितीयस तु ततस तेषां शरीमान हरिहयॊपमः
अपराजित इत्य एव स बभूव नराधिपः
48 तृतीयस तु महाराज महाबाहुर महासुरः
निषादाधिपतिर जज्ञे भुवि भीमपराक्रमः
49 तेषाम अन्यतमॊ यस तु चतुर्थः परिकीर्तितः
शरेणिमान इति विख्यातः कषितौ राजर्षिसत्तमः
50 पञ्चमस तु बभूवैषां परवरॊ यॊ महासुरः
महौजा इति विख्यातॊ बभूवेह परंतपः
51 षष्ठस तु मतिमान यॊ वै तेषाम आसीन महासुरः
अभीरुर इति विख्यातः कषितौ राजर्षिसत्तमः
52 समुद्रसेनश च नृपस तेषाम एवाभवद गुणान
विश्रुतः सागरान्तायां कषितौ धर्मार्थतत्त्ववित
53 बृहन्न नामाष्टमस तेषां कालेयानां परंतपः
बभूव राजन धर्मात्मा सर्वभूतहिते रतः
54 गणः करॊधवशॊ नाम यस ते राजन परकीर्तितः
ततः संजज्ञिरे वीराः कषिताव इह नराधिपाः
55 नन्दिकः कर्णवेष्टश च सिद्धार्थाः कीटकस तथा
सुवीरश च सुबाहुश च महावीरॊ ऽथ बाह्लिकः
56 करॊधॊ विचित्यः सुरसः शरीमान नीलश च भूमिपः
वीर धामा च कौरव्य भूमिपालश च नामतः
57 दन्तवक्त्रश च नामासीद दुर्जयश चैव नामतः
रुक्मी च नृपशार्दूलॊ राजा च जनमेजयः
58 आषाढॊ वायुवेगश च भूमितेजास तथैव च
एकलव्यः सुमित्रश च वाटधानॊ ऽथ गॊमुखः
59 कारूषकाश च राजानः कषेमधूर्तिस तथैव च
शरुतायुर उद्धवश चैव बृहत्सेनस तथैव च
60 कषेमॊग्र तीर्थः कुहरः कलिङ्गेषु नराधिपः
मतिमांश च मनुष्येन्द्र ईश्वरश चेति विश्रुतः
61 गणात करॊधवशाद एवं राजपूगॊ ऽभवत कषितौ
जातः पुरा महाराज महाकीर्तिर महाबलः
62 यस तव आसीद देवकॊ नाम देवराजसमद्युतिः
स गन्धर्वपतिर मुख्यः कषितौ जज्ञे नराधिपः
63 बृहस्पतेर बृहत कीर्तेर देवर्षेर विद्धि भारत
अंशाद दरॊणं समुत्पन्नं भारद्वाजम अयॊनिजम
64 धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः
बृहत कीर्तिर महातेजाः संजज्ञे मनुजेष्व इह
65 धनुर्वेदे च वेदे च यं तं वेदविदॊ विदुः
वरिष्ठम इन्द्रकर्माणं दरॊणं सवकुलवर्धनम
66 महादेवान्तकाभ्यां च कामात करॊधाच च भारत
एकत्वम उपपन्नानां जज्ञे शूरः परंतपः
67 अश्वत्थामा महावीर्यः शत्रुपक्ष कषयं करः
वीरः कमलपत्राक्षः कषिताव आसीन नराधिप
68 जज्ञिरे वसवस तव अष्टौ गङ्गायां शंतनॊः सुताः
वसिष्ठस्य च शापेन नियॊगाद वासवस्य च
69 तेषाम अवरजॊ भीष्मः कुरूणाम अभयंकरः
मतिमान वेदविद वाग्मी शत्रुपक्ष कषयं करः
70 जामदग्न्येन रामेण यः स सर्वविदां वरः
अयुध्यत महातेजा भार्गवेण महात्मना
71 यस तु राजन कृपॊ नाम बरह्मर्षिर अभवत कषितौ
रुद्राणां तं गणाद विद्धि संभूतम अतिपौरुषम
72 शकुनिर नाम यस तव आसीद राजा लॊके महारथः
दवापरं विद्धि तं राजन संभूतम अरिमर्दनम
73 सात्यकिः सत्यसंधस तु यॊ ऽसौ वृष्णिकुलॊद्वहः
पक्षात स जज्ञे मरुतां देवानाम अरिमर्दनः
74 दरुपदश चापि राजर्षिस तत एवाभवद गणात
मानुषे नृप लॊके ऽसमिन सर्वशस्त्रभृतां वरः
75 ततश च कृतवर्माणं विद्धि राजञ जनाधिपम
जातम अप्रतिकर्माणं कषत्रियर्षभ सत्तमम
76 मरुतां तु गणाद विद्धि संजातम अरिमर्दनम
विराटं नाम राजर्षिं परराष्ट्र परतापनम
77 अरिष्टायास तु यः पुत्रॊ हंस इत्य अभिविश्रुतः
स गन्धर्वपतिर जज्ञे कुरुवंशविवर्धनः
78 धृतराष्ट्र इति खयातः कृष्णद्वैपायनाद अपि
दीर्घबाहुर महातेजाः परज्ञा चक्षुर नराधिपः
मातुर दॊषाद ऋषेः कॊपाद अन्ध एव वयजायत
79 अत्रेस तु सुमहाभागं पुत्रं पुत्रवतां वरम
विदुरं विद्धि लॊके ऽसमिञ जातं बुद्धिमतां वरम
80 कलेर अंशात तु संजज्ञे भुवि दुर्यॊधनॊ नृपः
दुर्बुद्धिर दुर्मतिश चैव कुरूणाम अयशः करः
81 जगतॊ यः स सर्वस्य विद्विष्टः कलिपूरुषः
यः सर्वां घातयाम आस पृथिवीं पुरुषाधमः
येन वैरं समुद्दीप्तं भूतान्त करणं महत
82 पौलस्त्या भरातरः सर्वे जज्ञिरे मनुजेष्व इह
शतं दुःशासनादीनां सर्वेषां करूरकर्मणाम
83 दुर्मुखॊ दुःसहश चैव ये चान्ये नानुशब्दिताः
दुर्यॊधन सहायास ते पौलस्त्या भरतर्षभ
84 धर्मस्यांशं तु राजानं विद्धि राजन युधिष्ठिरम
भीमसेनं तु वातस्य देवराजस्य चार्जुनम
85 अश्विनॊस तु तथैवांशौ रूपेणाप्रतिमौ भुवि
नकुलः सहदेवश च सर्वलॊकमनॊहरौ
86 यः सुवर्चेति विख्यातः सॊमपुत्रः परतापवान
अभिमन्युर बृहत कीर्तिर अर्जुनस्य सुतॊ ऽभवत
87 अग्नेर अंशं तु विद्धि तवं धृष्टद्युम्नं महारथम
शिखण्डिनम अथॊ राजन सत्रीपुंसं विद्धि राक्षसम
88 दरौपदेयाश च ये पञ्च बभूवुर भरतर्षभ
विश्वे देवगणान राजंस तान विद्धि भरतर्षभ
89 आमुक्तकवचः कर्णॊ यस तु जज्ञे महारथः
दिवाकरस्य तं विद्धि देवस्यांशम अनुत्तमम
90 यस तु नारायणॊ नाम देवदेवः सनातनः
तस्यांशॊ मानुषेष्व आसीद वासुदेवः परतापवान
91 शेषस्यांशस तु नागस्य बलदेवॊ महाबलः
सनत्कुमारं परद्युम्नं विद्धि राजन महौजसम
92 एवम अन्ये मनुष्येन्द्र बहवॊ ऽंशा दिवौकसाम
जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः
93 गणस तव अप्सरसां यॊ वै मया राजन परकीर्तितः
तस्य भागः कषितौ जज्ञे नियॊगाद वासवस्य च
94 तानि षॊडश देवीनां सहस्राणि नराधिप
बभूवुर मानुषे लॊके नारायण परिग्रहः
95 शरियस तु भागः संजज्ञे रत्यर्थं पृथिवीतले
दरुपदस्य कुले कन्या वेदिमध्याद अनिन्दिता
96 नातिह्रस्वा न महती नीलॊत्पलसुगन्धिनी
पद्मायताक्षी सुश्रॊणी असितायत मूर्धजा
97 सर्वलक्षणसंपन्ना वैडूर्य मणिसंनिभा
पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः
98 सिद्दिर धृतिश च ये देव्यौ पञ्चानां मातरौ तु ते
कुन्ती माद्री च जज्ञाते मतिस तु सुबलात्मजा
99 इति देवासुराणां ते गन्धर्वाप्सरसां तथा
अंशावतरणं राजन रक्षसानां च कीर्तितम
100 ये पृथिव्यां समुद्भूता राजानॊ युद्धदुर्मदाः
महात्मानॊ यदूनां च ये जाता विपुले कुले
101 धन्यं यशस्यं पुत्रीयम आयुष्यं विजयावहम
इदम अंशावतरणं शरॊतव्यम अनसूयता
102 अंशावतरणं शरुत्वा देवगन्धर्वरक्षसाम
परभवाप्ययवित पराज्ञॊ न कृच्छ्रेष्व अवसीदति
1 [j]
devānāṃ dānavānāṃ ca yakṣāṇām atha rakṣasām
anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavann aham
2 śrotum icchāmi tattvena mānuṣeṣu mahātmanām
janma karma ca bhūtānām eteṣām anupūrvaśaḥ
3 [v]
mānuṣeṣu manuṣyendra saṃbhūtā ye divaukasaḥ
prathamaṃ dānavāṃś caiva tāṃs te vakṣyāmi sarvaśaḥ
4 vipracittir iti khyāto ya āsīd dānavarṣabhaḥ
jarāsaṃdha iti khyātaḥ sa āsīn manujarṣabhaḥ
5 diteḥ putras tu yo rājan hiraṇyakaśipuḥ smṛtaḥ
sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ
6 saṃhrāda iti vikhyātaḥ prahrādasyānujas tu yaḥ
sa śalya iti vikhyāto jajñe bāhlīla puṃgavaḥ
7 anuhrādas tu tejasvī yo 'bhūt khyāto jaghanyajaḥ
dhṛṣṭaketur iti khyātaḥ sa āsīn manujeśvaraḥ
8 yas tu rājañ śibir nāma daiteyaḥ parikīrtitaḥ
druma ity abhivikhyātaḥ sa āsīd bhuvi pārthivaḥ
9 bāṣkalo nāma yas teṣām āsīd asurasattamaḥ
bhagadatta iti khyātaḥ sa āsīn manujeśvaraḥ
10 ayaḥ śirā aśvaśirā ayaḥ śaṅkuś ca vīryavān
tathā gaganamūrdhā ca vegavāṃś cātra pañcamaḥ
11 pañcaite jajñire rājan vīryavanto mahāsurāḥ
kekayeṣu mahātmānaḥ pārthivarṣabha sattamāḥ
12 ketumān iti vikhyāto yas tato 'nyaḥ pratāpavān
amitaujā iti khyātaḥ pṛthivyāṃ so 'bhavann nṛpaḥ
13 svarbhānur iti vikhyātaḥ śrīmān yas tu mahāsuraḥ
ugrasena iti khyāta ugra karmā narādhipaḥ
14 yas tv aśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ
aśoko nāma rājāsīn mahāvīryaparākramaḥ
15 tasmād avarajo yas tu rājann aśvapatiḥ smṛtaḥ
daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ
16 vṛṣaparveti vikhyātaḥ śrīmān yas tu mahāsuraḥ
dīrghaprajña iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
17 ajakas tv anujo rājan ya āsīd vṛṣaparvaṇaḥ
sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ
18 aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ
rocamāna iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
19 sūkṣmas tu matimān rājan kīrtimān yaḥ prakīrtitaḥ
bṛhanta iti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ
20 tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ
senā bindur iti khyātaḥ sa babhūva narādhipaḥ
21 isṛpā nāma yas teṣām asurāṇāṃ balādhikaḥ
pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ
22 ekacakra iti khyāta āsīd yas tu mahāsuraḥ
prativindhya iti khyāto babhūva prathitaḥ kṣitau
23 virūpākṣas tu daiteyaś citrayodhī mahāsuraḥ
citravarmeti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ
24 haras tv ariharo vīra āsīd yo dānavottamaḥ
suvāstur iti vikhyātaḥ sa jajñe manujarṣabhaḥ
25 aharas tu mahātejāḥ śatrupakṣa kṣayaṃ karaḥ
bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau
26 nicandraś candra vaktraś ca ya āsīd asurottamaḥ
muñja keśa iti khyātaḥ śrīmān āsīt sa pārthivaḥ
27 nikumbhas tv ajitaḥ saṃkhye mahāmatir ajāyata
bhūmau bhūmipatiḥ śreṣṭho devādhipa iti smṛtaḥ
28 śarabho nāma yas teṣāṃ daiteyānāṃ mahāsuraḥ
pauravo nāma rājarṣiḥ sa babhūva nareṣv iha
29 dvitīyaḥ śalabhas teṣām asurāṇāṃ babhūva yaḥ
prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ
30 candras tu ditijaśreṣṭho loke tārādhipopamaḥ
ṛṣiko nāma rājarṣir babhūva nṛpasattamaḥ
31 mṛtapā iti vikhyāto ya āsīd asurottamaḥ
paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama
32 gaviṣṭhas tu mahātejā yaḥ prakhyāto mahāsuraḥ
drumasena iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
33 mayūra iti vikhyātaḥ śrīmān yas tu mahāsuraḥ
sa viśva iti vikhyāto babhūva pṛthivīpatiḥ
34 suparṇa iti vikhyātatasmād avarajas tu yaḥ
kālakīrtir iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
35 candra hanteti yas teṣāṃ kīrtitaḥ pravaro 'suraḥ
śunako nāma rājarṣiḥ sa babhūva narādhipaḥ
36 vināśanas tu candrasya ya ākhyāto mahāsuraḥ
jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ
37 dīrghajihvas tu kauravya ya ukto dānavarṣabhaḥ
kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ
38 grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam
krātha ity abhivikhyātaḥ so 'bhavan manujādhipaḥ
39 anāyuṣas tu putrāṇāṃ caturṇāṃ pravaro 'suraḥ
vikṣaro nāma tejasvī vasu mitro 'bhavan nṛpaḥ
40 dvitīyo vikṣarādyas tu narādhipa mahāsuraḥ
pāṃsurāṣṭrādhipa iti viśrutaḥ so 'bhavan nṛpaḥ
41 balavīra iti khyāto yas tv āsīd asurottamaḥ
pauṇḍra matsyaka ity eva sa babhūva narādhipaḥ
42 vṛtra ity abhivikhyāto yas tu rājan mahāsuraḥ
maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ
43 krodhahanteti yas tasya babhūvāvarajo 'suraḥ
daṇḍa ity abhivikhyātaḥ sa āsīn nṛpatiḥ kṣitau
44 krodhavardhana ity eva yas tv anyaḥ parikīrtitaḥ
daṇḍadhāra iti khyātaḥ so 'bhavan manujeśvaraḥ
45 kālakāyās tu ye putrās teṣām aṣṭau narādhipāḥ
jajñire rājaśārdūla śārdūlasamavikramāḥ
46 magadheṣu jayatsenaḥ śrīmān āsīt sa pārthivaḥ
aṣṭānāṃ pravaras teṣāṃ kāleyānāṃ mahāsuraḥ
47 dvitīyas tu tatas teṣāṃ śrīmān harihayopamaḥ
aparājita ity eva sa babhūva narādhipaḥ
48 tṛtīyas tu mahārāja mahābāhur mahāsuraḥ
niṣādādhipatir jajñe bhuvi bhīmaparākramaḥ
49 teṣām anyatamo yas tu caturthaḥ parikīrtitaḥ
śreṇimān iti vikhyātaḥ kṣitau rājarṣisattamaḥ
50 pañcamas tu babhūvaiṣāṃ pravaro yo mahāsuraḥ
mahaujā iti vikhyāto babhūveha paraṃtapaḥ
51 ṣaṣṭhas tu matimān yo vai teṣām āsīn mahāsuraḥ
abhīrur iti vikhyātaḥ kṣitau rājarṣisattamaḥ
52 samudrasenaś ca nṛpas teṣām evābhavad guṇān
viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit
53 bṛhann nāmāṣṭamas teṣāṃ kāleyānāṃ paraṃtapaḥ
babhūva rājan dharmātmā sarvabhūtahite rataḥ
54 gaṇaḥ krodhavaśo nāma yas te rājan prakīrtitaḥ
tataḥ saṃjajñire vīrāḥ kṣitāv iha narādhipāḥ
55 nandikaḥ karṇaveṣṭaś ca siddhārthāḥ kīṭakas tathā
suvīraś ca subāhuś ca mahāvīro 'tha bāhlikaḥ
56 krodho vicityaḥ surasaḥ śrīmān nīlaś ca bhūmipaḥ
vīra dhāmā ca kauravya bhūmipālaś ca nāmataḥ
57 dantavaktraś ca nāmāsīd durjayaś caiva nāmataḥ
rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ
58 āṣāḍho vāyuvegaś ca bhūmitejās tathaiva ca
ekalavyaḥ sumitraś ca vāṭadhāno 'tha gomukhaḥ
59 kārūṣakāś ca rājānaḥ kṣemadhūrtis tathaiva ca
śrutāyur uddhavaś caiva bṛhatsenas tathaiva ca
60 kṣemogra tīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ
matimāṃś ca manuṣyendra īśvaraś ceti viśrutaḥ
61 gaṇāt krodhavaśād evaṃ rājapūgo 'bhavat kṣitau
jātaḥ purā mahārāja mahākīrtir mahābalaḥ
62 yas tv āsīd devako nāma devarājasamadyutiḥ
sa gandharvapatir mukhyaḥ kṣitau jajñe narādhipaḥ
63 bṛhaspater bṛhat kīrter devarṣer viddhi bhārata
aṃśād droṇaṃ samutpannaṃ bhāradvājam ayonijam
64 dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ
bṛhat kīrtir mahātejāḥ saṃjajñe manujeṣv iha
65 dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ
variṣṭham indrakarmāṇaṃ droṇaṃ svakulavardhanam
66 mahādevāntakābhyāṃ ca kāmāt krodhāc ca bhārata
ekatvam upapannānāṃ jajñe śūraḥ paraṃtapaḥ
67 aśvatthāmā mahāvīryaḥ śatrupakṣa kṣayaṃ karaḥ
vīraḥ kamalapatrākṣaḥ kṣitāv āsīn narādhipa
68 jajñire vasavas tv aṣṭau gaṅgāyāṃ śaṃtanoḥ sutāḥ
vasiṣṭhasya ca śāpena niyogād vāsavasya ca
69 teṣām avarajo bhīṣmaḥ kurūṇām abhayaṃkaraḥ
matimān vedavid vāgmī śatrupakṣa kṣayaṃ karaḥ
70 jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ
ayudhyata mahātejā bhārgaveṇa mahātmanā
71 yas tu rājan kṛpo nāma brahmarṣir abhavat kṣitau
rudrāṇāṃ taṃ gaṇād viddhi saṃbhūtam atipauruṣam
72 śakunir nāma yas tv āsīd rājā loke mahārathaḥ
dvāparaṃ viddhi taṃ rājan saṃbhūtam arimardanam
73 sātyakiḥ satyasaṃdhas tu yo 'sau vṛṣṇikulodvahaḥ
pakṣāt sa jajñe marutāṃ devānām arimardanaḥ
74 drupadaś cāpi rājarṣis tata evābhavad gaṇāt
mānuṣe nṛpa loke 'smin sarvaśastrabhṛtāṃ varaḥ
75 tataś ca kṛtavarmāṇaṃ viddhi rājañ janādhipam
jātam apratikarmāṇaṃ kṣatriyarṣabha sattamam
76 marutāṃ tu gaṇād viddhi saṃjātam arimardanam
virāṭaṃ nāma rājarṣiṃ pararāṣṭra pratāpanam
77 ariṣṭāyās tu yaḥ putro haṃsa ity abhiviśrutaḥ
sa gandharvapatir jajñe kuruvaṃśavivardhanaḥ
78 dhṛtarāṣṭra iti khyātaḥ kṛṣṇadvaipāyanād api
dīrghabāhur mahātejāḥ prajñā cakṣur narādhipaḥ
mātur doṣād ṛṣeḥ kopād andha eva vyajāyata
79 atres tu sumahābhāgaṃ putraṃ putravatāṃ varam
viduraṃ viddhi loke 'smiñ jātaṃ buddhimatāṃ varam
80 kaler aṃśāt tu saṃjajñe bhuvi duryodhano nṛpaḥ
durbuddhir durmatiś caiva kurūṇām ayaśaḥ karaḥ
81 jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ
yaḥ sarvāṃ ghātayām āsa pṛthivīṃ puruṣādhamaḥ
yena vairaṃ samuddīptaṃ bhūtānta karaṇaṃ mahat
82 paulastyā bhrātaraḥ sarve jajñire manujeṣv iha
śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām
83 durmukho duḥsahaś caiva ye cānye nānuśabditāḥ
duryodhana sahāyās te paulastyā bharatarṣabha
84 dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram
bhīmasenaṃ tu vātasya devarājasya cārjunam
85 aśvinos tu tathaivāṃśau rūpeṇāpratimau bhuvi
nakulaḥ sahadevaś ca sarvalokamanoharau
86 yaḥ suvarceti vikhyātaḥ somaputraḥ pratāpavān
abhimanyur bṛhat kīrtir arjunasya suto 'bhavat
87 agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham
śikhaṇḍinam atho rājan strīpuṃsaṃ viddhi rākṣasam
88 draupadeyāś ca ye pañca babhūvur bharatarṣabha
viśve devagaṇān rājaṃs tān viddhi bharatarṣabha
89 āmuktakavacaḥ karṇo yas tu jajñe mahārathaḥ
divākarasya taṃ viddhi devasyāṃśam anuttamam
90 yas tu nārāyaṇo nāma devadevaḥ sanātanaḥ
tasyāṃśo mānuṣeṣv āsīd vāsudevaḥ pratāpavān
91 śeṣasyāṃśas tu nāgasya baladevo mahābalaḥ
sanatkumāraṃ pradyumnaṃ viddhi rājan mahaujasam
92 evam anye manuṣyendra bahavo 'ṃśā divaukasām
jajñire vasudevasya kule kulavivardhanāḥ
93 gaṇas tv apsarasāṃ yo vai mayā rājan prakīrtitaḥ
tasya bhāgaḥ kṣitau jajñe niyogād vāsavasya ca
94 tāni ṣoḍaśa devīnāṃ sahasrāṇi narādhipa
babhūvur mānuṣe loke nārāyaṇa parigrahaḥ
95 śriyas tu bhāgaḥ saṃjajñe ratyarthaṃ pṛthivītale
drupadasya kule kanyā vedimadhyād aninditā
96 nātihrasvā na mahatī nīlotpalasugandhinī
padmāyatākṣī suśroṇī asitāyata mūrdhajā
97 sarvalakṣaṇasaṃpannā vaiḍūrya maṇisaṃnibhā
pañcānāṃ puruṣendrāṇāṃ cittapramathinī rahaḥ
98 siddir dhṛtiś ca ye devyau pañcānāṃ mātarau tu te
kuntī mādrī ca jajñāte matis tu subalātmajā
99 iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā
aṃśāvataraṇaṃ rājan rakṣasānāṃ ca kīrtitam
100 ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ
mahātmāno yadūnāṃ ca ye jātā vipule kule
101 dhanyaṃ yaśasyaṃ putrīyam āyuṣyaṃ vijayāvaham
idam aṃśāvataraṇaṃ śrotavyam anasūyatā
102 aṃśāvataraṇaṃ śrutvā devagandharvarakṣasām
prabhavāpyayavit prājño na kṛcchreṣv avasīdati

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

62 of 2013 Book 3% ~12 min left