Book 1: Chapter 57
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 1: Chapter 57

The Mahabharata in Sanskrit

Book 1
Chapter 57

1 [व]
राजॊपरिचरॊ नाम धर्मनित्यॊ महीपतिः
बभूव मृगयां गन्तुं स कदा चिद धृतव्रतः
2 स चेदिविषयं रम्यं वसुः पौरवनन्दनः
इन्द्रॊपदेशाज जग्राह गरहणीयं महीपतिः
3 तम आश्रमे नयस्तशस्त्रं निवसन्तं तपॊ रतिम
देवः साक्षात सवयं वज्री समुपायान महीपतिम
4 इन्द्रत्वम अर्हॊ राजायं तपसेत्य अनुचिन्त्य वै
तं सान्त्वेन नृपं साक्षात तपसः संन्यवर्तयत
5 [ईन्द्र]
न संकीर्येत धर्मॊ ऽयं पृथिव्यां पृथिवीपते
तं पाहि धर्मॊ हि धृतः कृत्स्नं धारयते जगत
6 लॊक्यं धर्मं पालय तवं नित्ययुक्तः समाहितः
धर्मयुक्तस ततॊ लॊकान पुण्यान आप्स्यसि शाश्वतान
7 दिविष्ठस्य भुविष्ठस तवं सखा भूत्वा मम परियः
ऊधः पृथिव्या यॊ देशस तम आवस नराधिप
8 पशव्यश चैव पुण्यश च सुस्थिरॊ धनधान्यवान
सवारक्ष्यश चैव सौम्यश च भॊग्यैर भूमिगुणैर वृतः
9 अत्य अन्यान एष देशॊ हि धनरत्नादिभिर युतः
वसु पूर्णा च वसुधा वस चेदिषु चेदिप
10 धर्मशीला जनपदाः सुसंतॊषाश च साधवः
न च मिथ्या परलापॊ ऽतर सवैरेष्व अपि कुतॊ ऽनयथा
11 न च पित्रा विभज्यन्ते नरा गुरुहिते रताः
युञ्जते धुरि नॊ गाश च कृशाः संधुक्षयन्ति च
12 सर्वे वर्णाः सवधर्मस्थाः सदा चेदिषु मानद
न ते ऽसत्य अविदितं किं चित तरिषु लॊकेषु यद भवेत
13 देवॊपभॊग्यं दिव्यं च आकाशे सफाटिकं महत
आकाशगं तवां मद्दत्तं विमानम उपपत्स्यते
14 तवम एकः सर्वमर्त्येषु विमानवरम आस्थितः
चरिष्यस्य उपरिस्थॊ वै देवॊ विग्रहवान इव
15 ददामि ते वैजयन्तीं मालाम अम्लान पङ्कजाम
धारयिष्यति संग्रामे या तवां शस्त्रैर अविक्षतम
16 लक्षणं चैतद एवेह भविता ते नराधिप
इन्द्र मालेति विख्यातं धन्यम अप्रतिमं महत
17 [व]
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः
इष्टप्रदानम उद्दिश्य शिष्टानां परिपालिनीम
18 तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस तदा
परवेशं कारयाम आस गते संवत्सरे तदा
19 ततः परभृति चाद्यापि यष्ट्याः कषितिप सत्तमैः
परवेशः करियते राजन यथा तेन परवर्तितः
20 अपरे दयुस तथा चास्याः करियते उच्छ्रयॊ नृपैः
अलंकृतायाः पिटकैर गन्धैर माल्यैश च भूषणैः
माल्यदाम परिक्षिप्ता विधिवत करियते ऽपि च
21 भगवान पूज्यते चात्र हास्यरूपेण शंकरः
सवयम एव गृहीतेन वसॊः परीत्या महात्मनः
22 एतां पूजां महेन्द्रस तु दृष्ट्वा देवकृतां शुभाम
वसुना राजमुख्येन परीतिमान अब्रवीद विभुः
23 ये पूजयिष्यन्ति नरा राजानश च महं मम
कारयिष्यन्ति च मुदा यथा चेदिपतिर नृपः
24 तेषां शरीर विजयश चैव सराष्ट्राणां भविष्यति
तथा सफीतॊ जनपदॊ मुदितश च भविष्यति
25 एवं महात्मना तेन महेन्द्रेण नराधिप
वसुः परीत्या मघवता महाराजॊ ऽभिसत्कृतः
26 उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः
भूमिदानादिभिर दानैर यथा पूता भवन्ति वै
वरदानमहायज्ञैस तथा शक्रॊत्सवेन ते
27 संपूजितॊ मघवता वसुश चेदिपतिस तदा
पालयाम आस धर्मेण चेदिस्थः पृथिवीम इमाम
इन्द्र परीत्या भूमिपतिश चकारेन्द्र महं वसुः
28 पुत्राश चास्य महावीर्याः पञ्चासन्न अमितौजसः
नाना राज्येषु च सुतान स सम्राड अभ्यषेचयत
29 महारथॊ मगध राड विश्रुतॊ यॊ बृहद्रथः
परत्यग्रहः कुशाम्बश च यम आहुर मणिवाहनम
मच छिल्लश च यदुश चैव राजन्यश चापराजितः
30 एते तस्य सुता राजन राजर्षेर भूरि तेजसः
नयवेशयन नामभिः सवैस ते देशांश च पुराणि च
वासवाः पञ्च राजानः पृथग वंशाश च शाश्वताः
31 वसन्तम इन्द्र परासादे आकाशे सफाटिके च तम
उपतस्थुर महात्मानं गन्धर्वाप्सरसॊ नृपम
राजॊपरिचरेत्य एवं नाम तस्याथ विश्रुतम
32 पुरॊपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः
अरौत्सीच चेतना युक्तः कामात कॊलाहलः किल
33 गिरिं कॊलाहलं तं तु पदा वसुर अताडयत
निश्चक्राम नदी तेन परहार विवरेण सा
34 तस्यां नद्याम अजनयन मिथुनं पर्वतः सवयम
तस्माद विमॊक्षणात परीता नदी राज्ञे नयवेदयत
35 यः पुमान अभवत तत्र तं स राजर्षिसत्तमः
वसुर वसु परदश चक्रे सेनापतिम अरिंदमम
चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः
36 वसॊः पत्नी तु गिरिका कामात काले नयवेदयत
ऋतुकालम अनुप्राप्तं सनाता पुंसवने शुचिः
37 तद अहः पितरश चैनम ऊचुर जहि मृगान इति
तं राजसत्तमं परीतास तदा मतिमतां वरम
38 स पितॄणां नियॊगं तम अव्यतिक्रम्य पार्थिवः
चचार मृगयां कामी गिरिकाम एव संस्मरन
अतीव रूपसंपन्नां साक्षाच छरियम इवापराम
39 तस्य रेतः परचस्कन्द चरतॊ रुचिरे वने
सकन्न मात्रं च तद रेतॊ वृक्षपत्रेण भूमिपः
40 परतिजग्राह मिथ्या मे न सकंदेद रेत इत्य उत
ऋतुश च तस्या पत्न्या मे न मॊघः सयाद इति परभुः
41 संचिन्त्यैवं तदा राजा विचार्य च पुनः पुनः
अमॊघत्वं च विज्ञाय रेतसॊ राजसत्तमः
42 शुक्रप्रस्थापने कालं महिष्याः परसमीक्ष्य सः
अभिमन्त्र्याथ तच छुक्रम आरात तिष्ठन्तम आशुगम
सूक्ष्मधर्मार्थतत्त्वज्ञॊ जञात्वा शयेनं ततॊ ऽबरवीत
43 मत्प्रियार्थम इदं सौम्य शुक्रं मम गृहं नय
गिरिकायाः परयच्छाशु तस्या हय आर्तवम अद्य वै
44 गृहीत्वा तत तदा शयेनस तूर्णम उत्पत्य वेगवान
जवं परमम आस्थाय परदुद्राव विहंगमः
45 तम अपश्यद अथायान्तं शयेनं शयेनस तथापरः
अभ्यद्रवच च तं सद्यॊ दृष्ट्वैवामिष शङ्कया
46 तुण्डयुद्धम अथाकाशे ताव उभौ संप्रचक्रतुः
युध्यतॊर अपतद रेतस तच चापि यमुनाम्भसि
47 तत्राद्रिकेति विख्याता बरह्मशापाद वराप्सराः
मीनभावम अनुप्राप्ता बभूव यमुना चरी
48 शयेनपादपरिभ्रष्टं तद वीर्यम अथ वासवम
जग्राह तरसॊपेत्य साद्रिका मत्स्यरूपिणी
49 कदा चिद अथ मत्सीं तां बबन्धुर मत्स्यजीविनः
मासे च दशमे पराप्ते तदा भरतसत्तम
उज्जह्नुर उदरात तस्याः सत्रीपुमांसं च मानुषम
50 आश्चर्यभूतं मत्वा तद राज्ञस ते परत्यवेदयन
काये मत्स्या इमौ राजन संभूतौ मानुषाव इति
51 तयॊः पुमांसं जग्राह राजॊपरिचरस तदा
स मत्स्यॊ नाम राजासीद धार्मिकः सत्यसंगरः
52 साप्सरा मुक्तशापा च कषणेन समपद्यत
पुरॊक्ता या भगवता तिर्यग्यॊनिगता शुभे
मानुषौ जनयित्वा तवं शापमॊक्षम अवाप्स्यसि
53 ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना
संत्यज्य मत्स्यरूपं सा दिव्यं रूपम अवाप्य च
सिद्धर्षिचारणपथं जगामाथ वराप्सराः
54 या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी
राज्ञा दत्ताथ दाशाय इयं तव भवत्व इति
रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः
55 सा तु सत्यवती नाम मत्स्यघात्य अभिसंश्रयात
आसीन मत्स्यसगन्धैव कं चित कालं शुचिस्मिता
56 शुश्रूषार्थं पितुर नावं तां तु वाहयतीं जले
तीर्थयात्रां परिक्रामन्न अपश्यद वै पराशरः
57 अतीव रूपसंपन्नां सिद्धानाम अपि काङ्क्षिताम
दृष्ट्वैव च स तान धीमांश चकमे चारुदर्शनाम
विद्वांस तां वासवीं कन्यां कार्यवान मुनिपुंगवः
58 साब्रवीत पश्य भगवन पारावारे ऋषीन सथितान
आवयॊर दृश्यतॊर एभिः कथं नु सयां समागमः
59 एवं तयॊक्तॊ भगवान नीहारम असृजत परभुः
येन देशः स सर्वस तु तमॊ भूत इवाभवत
60 दृष्ट्वा सृष्टं तु नीहारं ततस तं परमर्षिणा
विस्मिता चाब्रवीत कन्या वरीडिता च मनस्विनी
61 विद्धि मां भगवन कन्यां सदा पितृवशानुगाम
तवत संयॊगाच च दुष्येत कन्या भावॊ ममानघ
62 कन्यात्वे दूषिते चापि कथं शक्ष्ये दविजॊत्तम
गन्तुं गृहं गृहे चाहं धीमन न सथातुम उत्सहे
एतत संचिन्त्य भगवन विधत्स्व यद अनन्तरम
63 एवम उक्तवतीं तां तु परीतिमान ऋषिसत्तमः
उवाच मत्प्रियं कृत्वा कन्यैव तवं भविष्यसि
64 वृणीष्व च वरं भीरु यं तवम इच्छसि भामिनि
वृथा हिन परसादॊ मे भूतपूर्वः शुचिस्मिते
65 एवम उक्ता वरं वव्रे गात्रसौगन्ध्यम उत्तमम
स चास्यै भगवान परादान मनसः काङ्क्षितं परभुः
66 ततॊ लब्धवरा परीता सत्रीभावगुणभूषिता
जगाम सह संसर्गम ऋषिणाद्भुत कर्मणा
67 तेन गन्धवतीत्य एव नामास्याः परथितं भुवि
ततॊ यॊजनगन्धेति तस्या नाम परिश्रुतम
68 पराशरॊ ऽपि भगवाञ जगाम सवं निवेशनम
इति सत्यवती हृष्टा लब्ध्वा वरम अनुत्तमम
69 पराशरेण संयुक्ता सद्यॊ गर्भं सुषाव सा
जज्ञे च यमुना दवीपे पाराशर्यः सवीर्यवान
70 स मातरम उपस्थाय तपस्य एव मनॊ दधे
समृतॊ ऽहं दर्शयिष्यामि कृत्येष्व इति च सॊ ऽबरवीत
71 एवं दवैपायनॊ जज्ञे सत्यवत्यां पराशरात
दवीपे नयस्तः स यद बालस तस्माद दवैपायनॊ ऽभवत
72 पादापसारिणं धर्मं विद्वान स तु युगे युगे
आयुः शक्तिं च मर्त्यानां युगानुगम अवेक्ष्य च
73 बरह्मणॊ बराह्मणानां च तथानुग्रह काम्यया
विव्यास वेदान यस्माच च तस्माद वयास इति समृतः
74 वेदान अध्यापयाम आस महाभारत पञ्चमान
सुमन्तुं जैमिनिं पैलं शुकं चैव सवम आत्मजम
75 परभुर वरिष्ठॊ वरदॊ वैशम्पायनम एव च
संहितास तैः पृथक्त्वेन भारतस्य परकाशिताः
76 तथा भीष्मः शांतनवॊ गङ्गायाम अमितद्युतिः
वसु वीर्यात समभवन महावीर्यॊ महायशाः
77 शूले परॊतः पुराणर्षिर अचॊरश चॊरशङ्कया
अणी माण्डव्य इति वै विख्यातः सुमहायशाः
78 स धर्मम आहूय पुरा महर्षिर इदम उक्तवान
इषीकया मया बाल्याद एका विद्धा शकुन्तिका
79 तत किल्बिषं समरे धर्मनान्यत पापम अहं समरे
तन मे सहस्रसमितं कस्मान नेहाजयत तपः
80 गरीयान बराह्मणवधः सर्वभूतवधाद यतः
तस्मात तवं किल्बिषाद अस्माच छूद्र यॊनौ जनिष्यसि
81 तेन शापेन धर्मॊ ऽपि शूद्रयॊनाव अजायत
विद्वान विदुर रूपेण धार्मी तनुर अकिल्बिषी
82 संजयॊ मुनिकल्पस तु जज्ञे सूतॊ गवल्गणात
सूर्याच च कुन्ति कन्यायां जज्ञे कर्णॊ महारथः
सहजं कवचं विभ्रत कुण्डलॊद्द्यॊतिताननः
83 अनुग्रहार्थं लॊकानां विष्णुर लॊकनमस्कृतः
वसुदेवात तु देवक्यां परादुर्भूतॊ महायशाः
84 अनादि निधनॊ देवः स कर्ता जगतः परभुः
अव्यक्तम अक्षरं बरह्म परधानं निर्गुणात्मकम
85 आत्मानम अव्ययं चैव परकृतिं परभवं परम
पुरुषं विश्वकर्माणं सत्त्वयॊगं धरुवाक्षरम
86 अनन्तम अचलं देवं हंसं नारायणं परभुम
धातारम अजरं नित्यं तम आहुः परम अव्ययम
87 पुरुषः स विभुः कर्ता सर्वभूतपितामहः
धर्मसंवर्धनार्थाय परजज्ञे ऽनधकवृष्णिषु
88 अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ
सात्यकिः कृतवर्मा च नारायणम अनुव्रतौ
सत्यकाद धृदिकाच चैव जज्ञाते ऽसत्रविशारदौ
89 भरद्वाजस्य च सकन्नं दरॊण्यां शुक्रम अवर्धत
महर्षेर उग्रतपसस तस्माद दरॊणॊ वयजायत
90 गौतमान मिथुनं जज्ञे शरस्तम्बाच छरद्वतः
अश्वत्थाम्नश च जननी कृपश चैव महाबलः
अश्वत्थामा ततॊ जज्ञे दरॊणाद अस्त्रभृतां वरः
91 तथैव धृष्टद्युम्नॊ ऽपि साक्षाद अग्निसमद्युतिः
वैताने कर्मणि तते पावकात समजायत
वीरॊ दरॊण विनाशाय धनुषा सह वीर्यवान
92 तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा
विभ्राजमाना वपुषा बिभ्रती रूपम उत्तमम
93 परह्राद शिष्यॊ नग्नजित सुबलश चाभवत ततः
तस्य परजा धर्महन्त्री जज्ञे देव परकॊपनात
94 गान्धारराजपुत्रॊ ऽभूच छकुनिः सौबलस तथा
दुर्यॊधनस्य माता च जज्ञाते ऽरथविदाव उभौ
95 कृष्णद्वैपायनाज जज्ञे धृतराष्ट्रॊ जनेश्वरः
कषेत्रे विचित्रवीर्यस्य पाण्डुश चैव महाबलः
96 पाण्डॊस तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक
दवयॊः सत्रियॊर गुणज्येष्ठस तेषाम आसीद युधिष्ठिरः
97 धर्माद युधिष्ठिरॊ जज्ञे मारुतात तु वृकॊदरः
इन्द्राद धनंजयः शरीमान सर्वशस्त्रभृतां वरः
98 जज्ञाते रूपसंपन्नाव अश्विभ्यां तु यमाव उभौ
नकुलः सहदेवश च गुरुशुश्रूषणे रतौ
99 तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः
दुर्यॊधनप्रभृतयॊ युयुत्सुः करणस तथा
100 अभिमन्युः सुभद्रायाम अर्जुनाद अभ्यजायत
सवस्तीयॊ वासुदेवस्य पौत्रः पाण्डॊर महात्मनः
101 पाण्डवेभ्यॊ ऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे
कुमारा रूपसंपन्नाः सर्वशस्त्रविशारदाः
102 परतिविन्ध्यॊ युधिष्ठिरात सुत सॊमॊ वृकॊदरात
अर्जुनाच छरुत कीर्तिस तु शतानीकस तु नाकुलिः
103 तथैव सहदेवाच च शरुतसेनः परतापवान
हिडिम्बायां च भीमेन वने जज्ञे घटॊत्कचः
104 शिखण्डी दरुपदाज जज्ञे कन्या पुत्रत्वम आगता
यां यक्षः पुरुषं चक्रे सथूणः परियचिकीर्षया
105 कुरूणां विग्रहे तस्मिन समागच्छन बहून्य अथ
राज्ञां शतसहस्राणि यॊत्स्यमानानि संयुगे
106 तेषाम अपरिमेयानि नामधेयानि सर्वशः
न शक्यं परिसंख्यातुं वर्षाणाम अयुतैर अपि
एते तु कीर्तिता मुख्या यैर आख्यानम इदं ततम
1 [v]
rājoparicaro nāma dharmanityo mahīpatiḥ
babhūva mṛgayāṃ gantuṃ sa kadā cid dhṛtavrataḥ
2 sa cediviṣayaṃ ramyaṃ vasuḥ pauravanandanaḥ
indropadeśāj jagrāha grahaṇīyaṃ mahīpatiḥ
3 tam āśrame nyastaśastraṃ nivasantaṃ tapo ratim
devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim
4 indratvam arho rājāyaṃ tapasety anucintya vai
taṃ sāntvena nṛpaṃ sākṣāt tapasaḥ saṃnyavartayat
5 [īndra]
na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate
taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat
6 lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ
dharmayuktas tato lokān puṇyān āpsyasi śāśvatān
7 diviṣṭhasya bhuviṣṭhas tvaṃ sakhā bhūtvā mama priyaḥ
ūdhaḥ pṛthivyā yo deśas tam āvasa narādhipa
8 paśavyaś caiva puṇyaś ca susthiro dhanadhānyavān
svārakṣyaś caiva saumyaś ca bhogyair bhūmiguṇair vṛtaḥ
9 aty anyān eṣa deśo hi dhanaratnādibhir yutaḥ
vasu pūrṇā ca vasudhā vasa cediṣu cedipa
10 dharmaśīlā janapadāḥ susaṃtoṣāś ca sādhavaḥ
na ca mithyā pralāpo 'tra svaireṣv api kuto 'nyathā
11 na ca pitrā vibhajyante narā guruhite ratāḥ
yuñjate dhuri no gāś ca kṛśāḥ saṃdhukṣayanti ca
12 sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada
na te 'sty aviditaṃ kiṃ cit triṣu lokeṣu yad bhavet
13 devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat
ākāśagaṃ tvāṃ maddattaṃ vimānam upapatsyate
14 tvam ekaḥ sarvamartyeṣu vimānavaram āsthitaḥ
cariṣyasy uparistho vai devo vigrahavān iva
15 dadāmi te vaijayantīṃ mālām amlāna paṅkajām
dhārayiṣyati saṃgrāme yā tvāṃ śastrair avikṣatam
16 lakṣaṇaṃ caitad eveha bhavitā te narādhipa
indra māleti vikhyātaṃ dhanyam apratimaṃ mahat
17 [v]
yaṣṭiṃ ca vaiṇavīṃ tasmai dadau vṛtraniṣūdanaḥ
iṣṭapradānam uddiśya śiṣṭānāṃ paripālinīm
18 tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatis tadā
praveśaṃ kārayām āsa gate saṃvatsare tadā
19 tataḥ prabhṛti cādyāpi yaṣṭyāḥ kṣitipa sattamaiḥ
praveśaḥ kriyate rājan yathā tena pravartitaḥ
20 apare dyus tathā cāsyāḥ kriyate ucchrayo nṛpaiḥ
alaṃkṛtāyāḥ piṭakair gandhair mālyaiś ca bhūṣaṇaiḥ
mālyadāma parikṣiptā vidhivat kriyate 'pi ca
21 bhagavān pūjyate cātra hāsyarūpeṇa śaṃkaraḥ
svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ
22 etāṃ pūjāṃ mahendras tu dṛṣṭvā devakṛtāṃ śubhām
vasunā rājamukhyena prītimān abravīd vibhuḥ
23 ye pūjayiṣyanti narā rājānaś ca mahaṃ mama
kārayiṣyanti ca mudā yathā cedipatir nṛpaḥ
24 teṣāṃ śrīr vijayaś caiva sarāṣṭrāṇāṃ bhaviṣyati
tathā sphīto janapado muditaś ca bhaviṣyati
25 evaṃ mahātmanā tena mahendreṇa narādhipa
vasuḥ prītyā maghavatā mahārājo 'bhisatkṛtaḥ
26 utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ
bhūmidānādibhir dānair yathā pūtā bhavanti vai
varadānamahāyajñais tathā śakrotsavena te
27 saṃpūjito maghavatā vasuś cedipatis tadā
pālayām āsa dharmeṇa cedisthaḥ pṛthivīm imām
indra prītyā bhūmipatiś cakārendra mahaṃ vasuḥ
28 putrāś cāsya mahāvīryāḥ pañcāsann amitaujasaḥ
nānā rājyeṣu ca sutān sa samrāḍ abhyaṣecayat
29 mahāratho magadha rāḍ viśruto yo bṛhadrathaḥ
pratyagrahaḥ kuśāmbaś ca yam āhur maṇivāhanam
mac chillaś ca yaduś caiva rājanyaś cāparājitaḥ
30 ete tasya sutā rājan rājarṣer bhūri tejasaḥ
nyaveśayan nāmabhiḥ svais te deśāṃś ca purāṇi ca
vāsavāḥ pañca rājānaḥ pṛthag vaṃśāś ca śāśvatāḥ
31 vasantam indra prāsāde ākāśe sphāṭike ca tam
upatasthur mahātmānaṃ gandharvāpsaraso nṛpam
rājoparicarety evaṃ nāma tasyātha viśrutam
32 puropavāhinīṃ tasya nadīṃ śuktimatīṃ giriḥ
arautsīc cetanā yuktaḥ kāmāt kolāhalaḥ kila
33 giriṃ kolāhalaṃ taṃ tu padā vasur atāḍayat
niścakrāma nadī tena prahāra vivareṇa sā
34 tasyāṃ nadyām ajanayan mithunaṃ parvataḥ svayam
tasmād vimokṣaṇāt prītā nadī rājñe nyavedayat
35 yaḥ pumān abhavat tatra taṃ sa rājarṣisattamaḥ
vasur vasu pradaś cakre senāpatim ariṃdamam
cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ
36 vasoḥ patnī tu girikā kāmāt kāle nyavedayat
ṛtukālam anuprāptaṃ snātā puṃsavane śuciḥ
37 tad ahaḥ pitaraś cainam ūcur jahi mṛgān iti
taṃ rājasattamaṃ prītās tadā matimatāṃ varam
38 sa pitṝṇāṃ niyogaṃ tam avyatikramya pārthivaḥ
cacāra mṛgayāṃ kāmī girikām eva saṃsmaran
atīva rūpasaṃpannāṃ sākṣāc chriyam ivāparām
39 tasya retaḥ pracaskanda carato rucire vane
skanna mātraṃ ca tad reto vṛkṣapatreṇa bhūmipaḥ
40 pratijagrāha mithyā me na skaṃded reta ity uta
ṛtuś ca tasyā patnyā me na moghaḥ syād iti prabhuḥ
41 saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ
amoghatvaṃ ca vijñāya retaso rājasattamaḥ
42 śukraprasthāpane kālaṃ mahiṣyāḥ prasamīkṣya saḥ
abhimantryātha tac chukram ārāt tiṣṭhantam āśugam
sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato 'bravīt
43 matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya
girikāyāḥ prayacchāśu tasyā hy ārtavam adya vai
44 gṛhītvā tat tadā śyenas tūrṇam utpatya vegavān
javaṃ paramam āsthāya pradudrāva vihaṃgamaḥ
45 tam apaśyad athāyāntaṃ śyenaṃ śyenas tathāparaḥ
abhyadravac ca taṃ sadyo dṛṣṭvaivāmiṣa śaṅkayā
46 tuṇḍayuddham athākāśe tāv ubhau saṃpracakratuḥ
yudhyator apatad retas tac cāpi yamunāmbhasi
47 tatrādriketi vikhyātā brahmaśāpād varāpsarāḥ
mīnabhāvam anuprāptā babhūva yamunā carī
48 śyenapādaparibhraṣṭaṃ tad vīryam atha vāsavam
jagrāha tarasopetya sādrikā matsyarūpiṇī
49 kadā cid atha matsīṃ tāṃ babandhur matsyajīvinaḥ
māse ca daśame prāpte tadā bharatasattama
ujjahnur udarāt tasyāḥ strīpumāṃsaṃ ca mānuṣam
50 āścaryabhūtaṃ matvā tad rājñas te pratyavedayan
kāye matsyā imau rājan saṃbhūtau mānuṣāv iti
51 tayoḥ pumāṃsaṃ jagrāha rājoparicaras tadā
sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ
52 sāpsarā muktaśāpā ca kṣaṇena samapadyata
puroktā yā bhagavatā tiryagyonigatā śubhe
mānuṣau janayitvā tvaṃ śāpamokṣam avāpsyasi
53 tataḥ sā janayitvā tau viśastā matsyaghātinā
saṃtyajya matsyarūpaṃ sā divyaṃ rūpam avāpya ca
siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ
54 yā kanyā duhitā tasyā matsyā matsyasagandhinī
rājñā dattātha dāśāya iyaṃ tava bhavatv iti
rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ
55 sā tu satyavatī nāma matsyaghāty abhisaṃśrayāt
āsīn matsyasagandhaiva kaṃ cit kālaṃ śucismitā
56 śuśrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale
tīrthayātrāṃ parikrāmann apaśyad vai parāśaraḥ
57 atīva rūpasaṃpannāṃ siddhānām api kāṅkṣitām
dṛṣṭvaiva ca sa tān dhīmāṃś cakame cārudarśanām
vidvāṃs tāṃ vāsavīṃ kanyāṃ kāryavān munipuṃgavaḥ
58 sābravīt paśya bhagavan pārāvāre ṛṣīn sthitān
āvayor dṛśyator ebhiḥ kathaṃ nu syāṃ samāgamaḥ
59 evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ
yena deśaḥ sa sarvas tu tamo bhūta ivābhavat
60 dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatas taṃ paramarṣiṇā
vismitā cābravīt kanyā vrīḍitā ca manasvinī
61 viddhi māṃ bhagavan kanyāṃ sadā pitṛvaśānugām
tvat saṃyogāc ca duṣyeta kanyā bhāvo mamānagha
62 kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama
gantuṃ gṛhaṃ gṛhe cāhaṃ dhīman na sthātum utsahe
etat saṃcintya bhagavan vidhatsva yad anantaram
63 evam uktavatīṃ tāṃ tu prītimān ṛṣisattamaḥ
uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi
64 vṛṇīṣva ca varaṃ bhīru yaṃ tvam icchasi bhāmini
vṛthā hina prasādo me bhūtapūrvaḥ śucismite
65 evam uktā varaṃ vavre gātrasaugandhyam uttamam
sa cāsyai bhagavān prādān manasaḥ kāṅkṣitaṃ prabhuḥ
66 tato labdhavarā prītā strībhāvaguṇabhūṣitā
jagāma saha saṃsargam ṛṣiṇādbhuta karmaṇā
67 tena gandhavatīty eva nāmāsyāḥ prathitaṃ bhuvi
tato yojanagandheti tasyā nāma pariśrutam
68 parāśaro 'pi bhagavāñ jagāma svaṃ niveśanam
iti satyavatī hṛṣṭā labdhvā varam anuttamam
69 parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā
jajñe ca yamunā dvīpe pārāśaryaḥ savīryavān
70 sa mātaram upasthāya tapasy eva mano dadhe
smṛto 'haṃ darśayiṣyāmi kṛtyeṣv iti ca so 'bravīt
71 evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt
dvīpe nyastaḥ sa yad bālas tasmād dvaipāyano 'bhavat
72 pādāpasāriṇaṃ dharmaṃ vidvān sa tu yuge yuge
āyuḥ śaktiṃ ca martyānāṃ yugānugam avekṣya ca
73 brahmaṇo brāhmaṇānāṃ ca tathānugraha kāmyayā
vivyāsa vedān yasmāc ca tasmād vyāsa iti smṛtaḥ
74 vedān adhyāpayām āsa mahābhārata pañcamān
sumantuṃ jaiminiṃ pailaṃ śukaṃ caiva svam ātmajam
75 prabhur variṣṭho varado vaiśampāyanam eva ca
saṃhitās taiḥ pṛthaktvena bhāratasya prakāśitāḥ
76 tathā bhīṣmaḥ śāṃtanavo gaṅgāyām amitadyutiḥ
vasu vīryāt samabhavan mahāvīryo mahāyaśāḥ
77 śūle protaḥ purāṇarṣir acoraś coraśaṅkayā
aṇī māṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ
78 sa dharmam āhūya purā maharṣir idam uktavān
iṣīkayā mayā bālyād ekā viddhā śakuntikā
79 tat kilbiṣaṃ smare dharmanānyat pāpam ahaṃ smare
tan me sahasrasamitaṃ kasmān nehājayat tapaḥ
80 garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ
tasmāt tvaṃ kilbiṣād asmāc chūdra yonau janiṣyasi
81 tena śāpena dharmo 'pi śūdrayonāv ajāyata
vidvān vidura rūpeṇa dhārmī tanur akilbiṣī
82 saṃjayo munikalpas tu jajñe sūto gavalgaṇāt
sūryāc ca kunti kanyāyāṃ jajñe karṇo mahārathaḥ
sahajaṃ kavacaṃ vibhrat kuṇḍaloddyotitānanaḥ
83 anugrahārthaṃ lokānāṃ viṣṇur lokanamaskṛtaḥ
vasudevāt tu devakyāṃ prādurbhūto mahāyaśāḥ
84 anādi nidhano devaḥ sa kartā jagataḥ prabhuḥ
avyaktam akṣaraṃ brahma pradhānaṃ nirguṇātmakam
85 ātmānam avyayaṃ caiva prakṛtiṃ prabhavaṃ param
puruṣaṃ viśvakarmāṇaṃ sattvayogaṃ dhruvākṣaram
86 anantam acalaṃ devaṃ haṃsaṃ nārāyaṇaṃ prabhum
dhātāram ajaraṃ nityaṃ tam āhuḥ param avyayam
87 puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ
dharmasaṃvardhanārthāya prajajñe 'ndhakavṛṣṇiṣu
88 astrajñau tu mahāvīryau sarvaśastraviśāradau
sātyakiḥ kṛtavarmā ca nārāyaṇam anuvratau
satyakād dhṛdikāc caiva jajñāte 'straviśāradau
89 bharadvājasya ca skannaṃ droṇyāṃ śukram avardhata
maharṣer ugratapasas tasmād droṇo vyajāyata
90 gautamān mithunaṃ jajñe śarastambāc charadvataḥ
aśvatthāmnaś ca jananī kṛpaś caiva mahābalaḥ
aśvatthāmā tato jajñe droṇād astrabhṛtāṃ varaḥ
91 tathaiva dhṛṣṭadyumno 'pi sākṣād agnisamadyutiḥ
vaitāne karmaṇi tate pāvakāt samajāyata
vīro droṇa vināśāya dhanuṣā saha vīryavān
92 tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī śubhā
vibhrājamānā vapuṣā bibhratī rūpam uttamam
93 prahrāda śiṣyo nagnajit subalaś cābhavat tataḥ
tasya prajā dharmahantrī jajñe deva prakopanāt
94 gāndhārarājaputro 'bhūc chakuniḥ saubalas tathā
duryodhanasya mātā ca jajñāte 'rthavidāv ubhau
95 kṛṣṇadvaipāyanāj jajñe dhṛtarāṣṭro janeśvaraḥ
kṣetre vicitravīryasya pāṇḍuś caiva mahābalaḥ
96 pāṇḍos tu jajñire pañca putrā devasamāḥ pṛthak
dvayoḥ striyor guṇajyeṣṭhas teṣām āsīd yudhiṣṭhiraḥ
97 dharmād yudhiṣṭhiro jajñe mārutāt tu vṛkodaraḥ
indrād dhanaṃjayaḥ śrīmān sarvaśastrabhṛtāṃ varaḥ
98 jajñāte rūpasaṃpannāv aśvibhyāṃ tu yamāv ubhau
nakulaḥ sahadevaś ca guruśuśrūṣaṇe ratau
99 tathā putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ
duryodhanaprabhṛtayo yuyutsuḥ karaṇas tathā
100 abhimanyuḥ subhadrāyām arjunād abhyajāyata
svastīyo vāsudevasya pautraḥ pāṇḍor mahātmanaḥ
101 pāṇḍavebhyo 'pi pañcabhyaḥ kṛṣṇāyāṃ pañca jajñire
kumārā rūpasaṃpannāḥ sarvaśastraviśāradāḥ
102 prativindhyo yudhiṣṭhirāt suta somo vṛkodarāt
arjunāc chruta kīrtis tu śatānīkas tu nākuliḥ
103 tathaiva sahadevāc ca śrutasenaḥ pratāpavān
hiḍimbāyāṃ ca bhīmena vane jajñe ghaṭotkacaḥ
104 śikhaṇḍī drupadāj jajñe kanyā putratvam āgatā
yāṃ yakṣaḥ puruṣaṃ cakre sthūṇaḥ priyacikīrṣayā
105 kurūṇāṃ vigrahe tasmin samāgacchan bahūny atha
rājñāṃ śatasahasrāṇi yotsyamānāni saṃyuge
106 teṣām aparimeyāni nāmadheyāni sarvaśaḥ
na śakyaṃ parisaṃkhyātuṃ varṣāṇām ayutair api
ete tu kīrtitā mukhyā yair ākhyānam idaṃ tatam

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

58 of 2013 Book 3% ~13 min left