Book 9: Chapter 45
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 9: Chapter 45

The Mahabharata in Sanskrit

Book 9
Chapter 45

1 [वै]
शृणु मातृगणान राजन कुमारानुचरान इमान
कीर्त्यमानान मया वीर सपत्नगणसूदनान
2 यशस्विनीनां मातॄणां शृणु नामानि भारत
याभिर वयाप्तास तरयॊ लॊकाः कल्याणीभिश चराचराः
3 परभावती विशालाक्षी पलिता गॊनसी तथा
शरीमती बहुला चैव तथैव बहुपुत्रिका
4 अप्सु जाता च गॊपाली बृहद अम्बालिका तथा
जयावती मालतिका धरुवरत्ना भयंकरी
5 वसु दामा सुदामा च विशॊका नन्दिनी तथा
एकचूडा महाचूडा चक्रनेमिश च भारत
6 उत्तेजनी जयत्सेना कमलाक्ष्य अथ शॊभना
शत्रुंजया तथा चैव करॊधना शलभी खरी
7 माधवी शुभवक्त्रा च तीर्थनेमिश च भारत
गीतप्रिया च कल्याणी कद्रुला चामिताशना
8 मेघस्वना भॊगवती सुभ्रूश च कनकावती
अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत
9 पद्मावती सुनक्षत्रा कन्दरा बहुयॊजना
संतानिका च कौरव्य कमला च महाबला
10 सुदामा बहु दामा च सुप्रभा च यशस्विनी
नृत्यप्रिया च राजेन्द्र शतॊलूखल मेखला
11 शतघण्टा शतानन्दा भग नन्दा च भागिनी
वपुष्मती चन्द्र शीता भद्र काली च भारत
12 संकारिका निष्कुटिका भरमा चत्वरवासिनी
सुमङ्गला सवस्तिमती वृद्धिकामा जय परिया
13 धनदा सुप्रसादा च भवदा च जलेश्वरी
एडी भेडी सुमेडी च वेताल जननी तथा
कण्डूतिः कालिका चैव देव मित्रा च भारत
14 लम्बसी केतकी चैव चित्रसेना तहा बला
कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप
15 कुण्डारिका कॊकलिका कण्डरा च शतॊदरी
उत्क्राथिनी जरेणा च महावेगा च कङ्कणा
16 मनॊजवा कण्टकिनी परघसा पूतना तथा
खशया चुर्व्युटिर वामा करॊशनाथ तडित परभा
17 मण्डॊदरी च तुण्डा च कॊटरा मेघवासिनी
सुभगा लम्बिनी लम्बा वसु चूडा विकत्थनी
18 ऊर्ध्ववेणी धरा चैव पिङ्गाक्षी लॊहमेखला
पृथु वक्त्रा मधुरिका मधु कुम्भा तथैव च
19 पक्षालिका मन्थनिका जरायुर जर्जरानना
खयाता दहदहा चैव तथा धमधमा नृप
20 खण्डखण्डा च राजेन्द्र पूषणा मणिकुण्डला
अमॊचा चैव कौरव्य तथा लम्बपयॊधरा
21 वेणुवीणा धरा चैव पिङ्गाक्षी लॊहमेखला
शशॊलूक मुखी कृष्णा खरजङ्घा महाजवा
22 शिशुमार मुखी शवेता लॊहिताक्षी विभीषणा
जटालिका कामचरी दीर्घजिह्वा बलॊत्कटा
23 कालेडिका वामनिका मुकुटा चैव भारत
लॊहिताक्षी महाकाया हरि पिण्डी च भूमिप
24 एकाक्षरा सुकुसुमा कृष्ण कर्णी च भारत
कषुर कर्णी चतुष्कर्णी कर्णप्रावरणा तथा
25 चतुष्पथ निकेता च गॊकर्णी महिषानना
खरकर्णी महाकर्णी भेरी सवनमहास्वना
26 शङ्खकुम्भ सवना चैव भङ्गदा च महाबला
गणा च सुगणा चैव तथाभीत्य अथ कामदा
27 चतुष्पथ रता चैव भूरि तीर्था अन्यगॊचरा
पशुदा वित्तदा चैव सुखदा च महायशाः
पयॊदा गॊमहिषदा सुविषाणा च भारत
28 परतिष्ठा सुप्रतिष्ठा च रॊचमाना सुरॊचना
गॊकर्णी च सुकर्णीच ससिरा सथेरिका तथा
एकचक्रा मेघरवा मेघमाला विरॊचना
29 एताश चान्याश च बहवॊ मातरॊ भरतर्षभ
कार्त्तिकेयानुयायिन्यॊ नानारूपाः सहस्रशः
30 दीर्घनख्यॊ दीर्घदन्त्यॊ दीर्घतुण्ड्यश च भारत
सरला मधुराश चैव यौवनस्थाः सवलंकृताः
31 माहात्म्येन च संयुक्ताः कामरूपधरास तथा
निर्मांस गात्र्यः शवेताश च तथा काञ्चनसंनिभाः
32 कृष्णमेघनिभाश चान्या धूम्राश च भरतर्षभ
अरुणाभा महाभागा दीर्घकेश्यः सिताम्बराः
33 ऊर्ध्ववेणी धराश चैव पिङ्गाक्ष्यॊ लम्बमेखलाः
लम्बॊदर्यॊ लम्बकर्णास तथा लम्बपरॊ धराः
34 ताम्राक्ष्यस ताम्रवर्णाश च हर्यक्ष्यश च तथापरे
वरदाः कामचारिण्यॊ नित्यप्रमुदितास तथा
35 याम्यॊ रौद्र्यस तथा सौम्याः कौबेर्यॊ ऽथ महाबलाः
वारुण्यॊ ऽथ च माहेन्द्र्यस तथाग्नेय्यः परंतप
36 वायव्यश चाथ कौमार्यॊ बराह्म्यश च भरतर्षबः
रूपेणाप्सरसां तुल्या जवे वायुसमास तथा
37 परपुष्टॊपमा वाक्ये तथर्द्ध्या धनदॊपमाः
शक्र वीर्यॊपमाश चैव दीप्त्या वह्नि समास तथा
38 वृक्षचत्वरवासिन्यश चतुष्पथ निकेतनाः
गुहा शमशानवासिन्यः शैलप्रस्रवणालयाः
39 नानाभरणधारिण्यॊ नाना माल्याम्बरास तथा
नाना विच्चित्र वेषाश च नाना भाषास तथैव च
40 एते चान्ये च बहवॊ गणाः शत्रुभयं कराः
अनुजग्मुर महात्मानं तरिदशेन्द्रस्य संमते
41 ततः शक्त्यस्त्रम अददद भगवान पाकशासनः
गुहाय राजशार्दूल विनाशाय सुरद्विषाम
42 महास्वनां महाघण्टां दयॊतमानां सितप्रभाम
तरुणादित्यवर्णां च पताकां भरतर्षभ
43 ददौ पशुपतिस तस्मै सर्वभूतमहाचमूम
उग्रां नानाप्रहरणां तपॊ वीर्यबलान्विताम
44 विष्णुर ददौ वैजयन्तीं मालां बलविवर्धिनीम
उमा ददौ चारजसी वाससी सूर्यसप्रभे
45 गङ्गां कमण्डलुं दिव्यम अमृतॊद्भवम उत्तमम
ददौ परीत्या कुमाराय दण्डं चैव बृहस्पतिः
46 गरुडॊ दयितं पुत्रं मयूरं चित्रबर्हिणम
अरुणस ताम्रचूडं च परददौ चरणायुधम
47 पशं तु वरुणॊ राजा बलवीर्यसमन्वितम
कृष्णाजिनं तथा बरह्मा बरह्मण्याय ददौ परभुः
समरेषु जयं चैव परददौ लॊकभावनः
48 सेनापत्यम अनुप्राप्य सकान्दॊ देवगणस्य ह
शुशुभे जवलितॊ ऽरचिष्मान दवितीया इव पावकः
ततः पारिषदैश चैव मातृभिश च समन्वितः
49 सा सेना नैरृती भीमा सघण्टॊच्छ्रितकेतना
सभेरी शङ्खमुरजा सायुधा सपताकिनी
शारदी दयौर इवाभाति जयॊतिर्भिर उपशॊभिता
50 ततॊ देव निकायास ते भूतसेना गणास तथा
वादयाम आसुर अव्यग्रा भेरीशङ्खांश च पुष्कलान
51 पटहाञ झर्झरांश चैव कृकचान गॊविषाणिकान
आडम्बरान गॊमुखांश चडिडिमांश च महास्वनान
52 तुष्टुवुस ते कुमारं च सर्वे देवाः सवासवाः
जगुश च देवगन्धर्वा ननृतुश चाप्सरॊगणाः
53 ततः परीतॊ महासेनस तरिदशेभ्यॊ वरं ददौ
रिपून हन्तास्मि समरे ये वॊ वधचिकीर्षवः
54 परतिगृह्य वरं देवास तस्माद विबुधसत्तमात
परीतात्मानॊ महात्मानॊ मेनिरे निहतान रिपून
55 सर्वेषां भूतसांघानां हर्षान नादः समुत्थितः
अपूरयत लॊकांस तरीन वरे दत्ते महात्मना
56 स निर्ययौ महासेनॊ महत्या सेनया वृतः
वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम
57 वयवसायॊ जयॊ धर्मः सिद्धिर लक्ष्मीर धृतिः समृतिः
महासेनस्य सैन्यानाम अग्रे जग्मुर नराधिप
58 स तया भीमया देवः शूलमुद्गर हस्तया
गदामुसलनाराचशक्तितॊमर हस्तया
दृप्तसिंहनिनादिन्या विनद्य परययौ गुहः
59 तं दृष्ट्वा सर्वदैतेया राक्षसा दानवास तथा
वयद्रवन्त दिशः सर्वा भयॊद्विग्नाः समन्ततः
अभ्यद्रवन्त देवास तान विविधायुधपाणयः
60 दृष्ट्वा च स ततः करुद्धः सकन्दस तेजॊबलान्वितः
शक्त्यस्त्रं भगवान भीमं पुनः पुनर अवासृजत
आदधच चात्मनस तेजॊ हविषेद्ध इवानलः
61 अभ्यस्यमाने शक्त्यस्त्रे सकन्देनामित तेजसा
उल्का जवाला महाराज पपात वसुधातले
62 संह्रादयन्तश च तथा निर्घाताश चापतन कषितौ
यथान्त कालसमये सुघॊराः सयुस तथा नृप
63 कषिप्ता हय एका तथा शक्तिः सुघॊरानल सूनुना
ततः कॊट्यॊ विनिष्पेतुः शक्तीनां भरतर्षभ
64 स शक्त्यस्त्रेण संग्रामे जघान भगवान परभुः
दैत्येन्द्रं तारकं नाम महाबलपराक्रमम
वृतं दैत्यायुतैर वीरैर बलिभिर दशभिर नृप
65 महिषं चाष्टभिः पद्मैर वृतं संख्ये निजघ्निवान
तरिपादं चायुत शतैर जघान दशभिर वृतम
66 हरदॊदरं निखर्वैश च वृतं दशभिर ईश्वरः
जघानानुचरैः सार्धं विविधायुधपाणिभिः
67 तत्राकुर्वन्त विपुलं नाद्दं वध्यत्सु शत्रुषु
कुमारानुचरा राजन पूरयन्तॊ दिशॊ दश
68 शक्त्यस्त्रस्य तु राजेन्द्र ततॊ ऽरचिर्भिः समन्ततः
दग्धाः सहस्रशॊ दैत्या नादैः सकन्दस्य चापरे
69 पताकयावधूताश च हताः के चित सुरद्विषः
केच्चीद घण्टा रव तरस्ता निपेतुर वसुधातले
के चित परहरणैश छिन्ना विनिपेतुर गतासवः
70 एवं सुरद्विषॊ ऽनेकान बलवान आततायिनः
जघान समरे वीरः कार्त्तिकेयॊ महाबलः
71 बाणॊ नामाथ दैतेयॊ बलेः पुत्रॊ महाबलः
करौञ्चं पर्वतम आसाद्य देवसंघान अबाधत
72 तम अभ्ययान महासेनः सुरशत्रुम उदारधीः
स कार्त्तिकेयस्य भयात करौञ्चं शरणम एयिवान
73 ततः करौञ्चं महामन्युः करौञ्चनाद निनादितम
शक्त्या बिभेद भगवान कार्त्तिकेयॊ ऽगनिदत्तया
74 सशाल सकन्धसरलं तरस्तवानरवारणम
पुलिनत्रस्त विहगं विनिष्पतित पन्नगम
75 गॊलाङ्गूरर्क्ष संघैश च दरवद्भिर अनुनादितम
कुरङ्ग गतिनिर्घॊषम उद्भ्रान्तसृमराचितम
76 विनिष्पतद्भिः शरभैः सिंहैश च सहसा दरुतैः
शॊच्याम अपि दशां पराप्तॊ रराजैव स पर्वतः
77 विद्याधराः समुत्पेतुस तस्य शृङ्गनिवासिनः
किंनराश च समुद्विग्नाः शक्तिपात रवॊद्धताः
78 ततॊ दैत्या विनिष्पेतुः शतशॊ ऽथ सहस्रशः
परदीप्तात पर्वतश्रेष्ठाद विचित्राभरण सरजः
79 तान निजघ्नुर अतिक्रम्य कुमारानुचरा मृधे
बिभेद शक्त्या करौञ्चं च पावकिः परवीरहा
80 बहुधा चैकधा चैव कृत्वात्मानं महात्मना
शक्तिः कषिप्ता रणे तस्य पाणिम एति पुनः पुनः
81 एवं परभावॊ भगवान अतॊ भूयश च पावकिः
करौञ्चस तेन विनिर्भिन्नॊ दैत्याश च शतशॊ हताः
82 ततः स भगवान देवॊ निहत्य विबुधद्विषः
सभाज्यमानॊ विबुधैः परं हर्षम अवाप ह
83 ततॊ दुन्दुभयॊ राजन नेदुः शङ्खाश च भारत
मुमुचुर देव यॊषाश च पुष्पवर्षम अनुत्तमम
84 दिव्यगन्धम उपादाय ववौ पुण्यश च मारुतः
गन्धर्वास तुष्टुवुश चैनं यज्वानश च महर्षयः
85 के चिद एनं वयवस्यन्ति पितामहसुतं परभुम
सनत्कुमारं सर्वेषां बरह्मयॊनिं तम अग्रजम
86 के चिन महेश्वर सुतं के चित पुत्रं विभावसॊः
उमायाः कृत्तिकानां च गङ्गायाश च वदन्त्य उत
87 एकधा च दविधा चैव चतुर्धा च महाबलम
यॊगिनाम ईश्वरं देवं शतशॊ ऽथ सहस्रशः
88 एतत ते कथितं राजन कार्त्तिकेयाभिषेचनम
शृणु चैव सरस्वत्यास तीर्थवंशस्य पुण्यताम
89 बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु
कुमारेण महाराज तरिविष्टपम इवापरम
90 ऐश्वर्याणि च तत्रस्थॊ ददाव ईशः पृथक पृथक
तदा नैरृतमुख्येभ्यस तरैलॊक्ये पावकात्मजः
91 एवं स भगवांस तस्मिंस तीर्थे दैत्य कुलान्तकः
अभिषिक्तॊ महाराज देव सेनापतिः सुरैः
92 औजसं नाम तत तीर्थं यत्र पूर्वम अपां पतिः
अभिषिक्तः सुरगणैर वरुणॊ भरतर्षभ
93 तस्मिंस तीर्थवरे सनात्वा सकन्दं चाभ्यर्च्य लाङ्गली
बराह्मणेभ्यॊ ददौ रुक्मं वासांस्य आभरणानि च
94 उषित्वा रजनीं तत्र माधवः परवीरहा
पूज्य तीर्थवरं तच च सपृष्ट्वा तॊयं च लाङ्गली
हृष्टः परीतमनाश चैव हय अभवन माधवॊत्तमः
95 एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि
यथाभिषिक्तॊ भगवान सकन्दॊ देवैः समागतैः
1 [vai]
śṛṇu mātṛgaṇān rājan kumārānucarān imān
kīrtyamānān mayā vīra sapatnagaṇasūdanān
2 yaśasvinīnāṃ mātṝṇāṃ śṛṇu nāmāni bhārata
yābhir vyāptās trayo lokāḥ kalyāṇībhiś carācarāḥ
3 prabhāvatī viśālākṣī palitā gonasī tathā
śrīmatī bahulā caiva tathaiva bahuputrikā
4 apsu jātā ca gopālī bṛhad ambālikā tathā
jayāvatī mālatikā dhruvaratnā bhayaṃkarī
5 vasu dāmā sudāmā ca viśokā nandinī tathā
ekacūḍā mahācūḍā cakranemiś ca bhārata
6 uttejanī jayatsenā kamalākṣy atha śobhanā
śatruṃjayā tathā caiva krodhanā śalabhī kharī
7 mādhavī śubhavaktrā ca tīrthanemiś ca bhārata
gītapriyā ca kalyāṇī kadrulā cāmitāśanā
8 meghasvanā bhogavatī subhrūś ca kanakāvatī
alātākṣī vīryavatī vidyujjihvā ca bhārata
9 padmāvatī sunakṣatrā kandarā bahuyojanā
saṃtānikā ca kauravya kamalā ca mahābalā
10 sudāmā bahu dāmā ca suprabhā ca yaśasvinī
nṛtyapriyā ca rājendra śatolūkhala mekhalā
11 śataghaṇṭā śatānandā bhaga nandā ca bhāginī
vapuṣmatī candra śītā bhadra kālī ca bhārata
12 saṃkārikā niṣkuṭikā bhramā catvaravāsinī
sumaṅgalā svastimatī vṛddhikāmā jaya priyā
13 dhanadā suprasādā ca bhavadā ca jaleśvarī
eḍī bheḍī sumeḍī ca vetāla jananī tathā
kaṇḍūtiḥ kālikā caiva deva mitrā ca bhārata
14 lambasī ketakī caiva citrasenā tahā balā
kukkuṭikā śaṅkhanikā tathā jarjarikā nṛpa
15 kuṇḍārikā kokalikā kaṇḍarā ca śatodarī
utkrāthinī jareṇā ca mahāvegā ca kaṅkaṇā
16 manojavā kaṇṭakinī praghasā pūtanā tathā
khaśayā curvyuṭir vāmā krośanātha taḍit prabhā
17 maṇḍodarī ca tuṇḍā ca koṭarā meghavāsinī
subhagā lambinī lambā vasu cūḍā vikatthanī
18 ūrdhvaveṇī dharā caiva piṅgākṣī lohamekhalā
pṛthu vaktrā madhurikā madhu kumbhā tathaiva ca
19 pakṣālikā manthanikā jarāyur jarjarānanā
khyātā dahadahā caiva tathā dhamadhamā nṛpa
20 khaṇḍakhaṇḍā ca rājendra pūṣaṇā maṇikuṇḍalā
amocā caiva kauravya tathā lambapayodharā
21 veṇuvīṇā dharā caiva piṅgākṣī lohamekhalā
śaśolūka mukhī kṛṣṇā kharajaṅghā mahājavā
22 śiśumāra mukhī śvetā lohitākṣī vibhīṣaṇā
jaṭālikā kāmacarī dīrghajihvā balotkaṭā
23 kāleḍikā vāmanikā mukuṭā caiva bhārata
lohitākṣī mahākāyā hari piṇḍī ca bhūmipa
24 ekākṣarā sukusumā kṛṣṇa karṇī ca bhārata
kṣura karṇī catuṣkarṇī karṇaprāvaraṇā tathā
25 catuṣpatha niketā ca gokarṇī mahiṣānanā
kharakarṇī mahākarṇī bherī svanamahāsvanā
26 śaṅkhakumbha svanā caiva bhaṅgadā ca mahābalā
gaṇā ca sugaṇā caiva tathābhīty atha kāmadā
27 catuṣpatha ratā caiva bhūri tīrthā anyagocarā
paśudā vittadā caiva sukhadā ca mahāyaśāḥ
payodā gomahiṣadā suviṣāṇā ca bhārata
28 pratiṣṭhā supratiṣṭhā ca rocamānā surocanā
gokarṇī ca sukarṇīca sasirā stherikā tathā
ekacakrā megharavā meghamālā virocanā
29 etāś cānyāś ca bahavo mātaro bharatarṣabha
kārttikeyānuyāyinyo nānārūpāḥ sahasraśaḥ
30 dīrghanakhyo dīrghadantyo dīrghatuṇḍyaś ca bhārata
saralā madhurāś caiva yauvanasthāḥ svalaṃkṛtāḥ
31 māhātmyena ca saṃyuktāḥ kāmarūpadharās tathā
nirmāṃsa gātryaḥ śvetāś ca tathā kāñcanasaṃnibhāḥ
32 kṛṣṇameghanibhāś cānyā dhūmrāś ca bharatarṣabha
aruṇābhā mahābhāgā dīrghakeśyaḥ sitāmbarāḥ
33 ūrdhvaveṇī dharāś caiva piṅgākṣyo lambamekhalāḥ
lambodaryo lambakarṇās tathā lambaparo dharāḥ
34 tāmrākṣyas tāmravarṇāś ca haryakṣyaś ca tathāpare
varadāḥ kāmacāriṇyo nityapramuditās tathā
35 yāmyo raudryas tathā saumyāḥ kauberyo 'tha mahābalāḥ
vāruṇyo 'tha ca māhendryas tathāgneyyaḥ paraṃtapa
36 vāyavyaś cātha kaumāryo brāhmyaś ca bharatarṣabaḥ
rūpeṇāpsarasāṃ tulyā jave vāyusamās tathā
37 parapuṣṭopamā vākye tatharddhyā dhanadopamāḥ
śakra vīryopamāś caiva dīptyā vahni samās tathā
38 vṛkṣacatvaravāsinyaś catuṣpatha niketanāḥ
guhā śmaśānavāsinyaḥ śailaprasravaṇālayāḥ
39 nānābharaṇadhāriṇyo nānā mālyāmbarās tathā
nānā viccitra veṣāś ca nānā bhāṣās tathaiva ca
40 ete cānye ca bahavo gaṇāḥ śatrubhayaṃ karāḥ
anujagmur mahātmānaṃ tridaśendrasya saṃmate
41 tataḥ śaktyastram adadad bhagavān pākaśāsanaḥ
guhāya rājaśārdūla vināśāya suradviṣām
42 mahāsvanāṃ mahāghaṇṭāṃ dyotamānāṃ sitaprabhām
taruṇādityavarṇāṃ ca patākāṃ bharatarṣabha
43 dadau paśupatis tasmai sarvabhūtamahācamūm
ugrāṃ nānāpraharaṇāṃ tapo vīryabalānvitām
44 viṣṇur dadau vaijayantīṃ mālāṃ balavivardhinīm
umā dadau cārajasī vāsasī sūryasaprabhe
45 gaṅgāṃ kamaṇḍaluṃ divyam amṛtodbhavam uttamam
dadau prītyā kumārāya daṇḍaṃ caiva bṛhaspatiḥ
46 garuḍo dayitaṃ putraṃ mayūraṃ citrabarhiṇam
aruṇas tāmracūḍaṃ ca pradadau caraṇāyudham
47 paśaṃ tu varuṇo rājā balavīryasamanvitam
kṛṣṇājinaṃ tathā brahmā brahmaṇyāya dadau prabhuḥ
samareṣu jayaṃ caiva pradadau lokabhāvanaḥ
48 senāpatyam anuprāpya skāndo devagaṇasya ha
śuśubhe jvalito 'rciṣmān dvitīyā iva pāvakaḥ
tataḥ pāriṣadaiś caiva mātṛbhiś ca samanvitaḥ
49 sā senā nairṛtī bhīmā saghaṇṭocchritaketanā
sabherī śaṅkhamurajā sāyudhā sapatākinī
śāradī dyaur ivābhāti jyotirbhir upaśobhitā
50 tato deva nikāyās te bhūtasenā gaṇās tathā
vādayām āsur avyagrā bherīśaṅkhāṃś ca puṣkalān
51 paṭahāñ jharjharāṃś caiva kṛkacān goviṣāṇikān
āḍambarān gomukhāṃś caḍiḍimāṃś ca mahāsvanān
52 tuṣṭuvus te kumāraṃ ca sarve devāḥ savāsavāḥ
jaguś ca devagandharvā nanṛtuś cāpsarogaṇāḥ
53 tataḥ prīto mahāsenas tridaśebhyo varaṃ dadau
ripūn hantāsmi samare ye vo vadhacikīrṣavaḥ
54 pratigṛhya varaṃ devās tasmād vibudhasattamāt
prītātmāno mahātmāno menire nihatān ripūn
55 sarveṣāṃ bhūtasāṃghānāṃ harṣān nādaḥ samutthitaḥ
apūrayata lokāṃs trīn vare datte mahātmanā
56 sa niryayau mahāseno mahatyā senayā vṛtaḥ
vadhāya yudhi daityānāṃ rakṣārthaṃ ca divaukasām
57 vyavasāyo jayo dharmaḥ siddhir lakṣmīr dhṛtiḥ smṛtiḥ
mahāsenasya sainyānām agre jagmur narādhipa
58 sa tayā bhīmayā devaḥ śūlamudgara hastayā
gadāmusalanārācaśaktitomara hastayā
dṛptasiṃhaninādinyā vinadya prayayau guhaḥ
59 taṃ dṛṣṭvā sarvadaiteyā rākṣasā dānavās tathā
vyadravanta diśaḥ sarvā bhayodvignāḥ samantataḥ
abhyadravanta devās tān vividhāyudhapāṇayaḥ
60 dṛṣṭvā ca sa tataḥ kruddhaḥ skandas tejobalānvitaḥ
śaktyastraṃ bhagavān bhīmaṃ punaḥ punar avāsṛjat
ādadhac cātmanas tejo haviṣeddha ivānalaḥ
61 abhyasyamāne śaktyastre skandenāmita tejasā
ulkā jvālā mahārāja papāta vasudhātale
62 saṃhrādayantaś ca tathā nirghātāś cāpatan kṣitau
yathānta kālasamaye sughorāḥ syus tathā nṛpa
63 kṣiptā hy ekā tathā śaktiḥ sughorānala sūnunā
tataḥ koṭyo viniṣpetuḥ śaktīnāṃ bharatarṣabha
64 sa śaktyastreṇa saṃgrāme jaghāna bhagavān prabhuḥ
daityendraṃ tārakaṃ nāma mahābalaparākramam
vṛtaṃ daityāyutair vīrair balibhir daśabhir nṛpa
65 mahiṣaṃ cāṣṭabhiḥ padmair vṛtaṃ saṃkhye nijaghnivān
tripādaṃ cāyuta śatair jaghāna daśabhir vṛtam
66 hradodaraṃ nikharvaiś ca vṛtaṃ daśabhir īśvaraḥ
jaghānānucaraiḥ sārdhaṃ vividhāyudhapāṇibhiḥ
67 tatrākurvanta vipulaṃ nāddaṃ vadhyatsu śatruṣu
kumārānucarā rājan pūrayanto diśo daśa
68 śaktyastrasya tu rājendra tato 'rcirbhiḥ samantataḥ
dagdhāḥ sahasraśo daityā nādaiḥ skandasya cāpare
69 patākayāvadhūtāś ca hatāḥ ke cit suradviṣaḥ
keccīd ghaṇṭā rava trastā nipetur vasudhātale
ke cit praharaṇaiś chinnā vinipetur gatāsavaḥ
70 evaṃ suradviṣo 'nekān balavān ātatāyinaḥ
jaghāna samare vīraḥ kārttikeyo mahābalaḥ
71 bāṇo nāmātha daiteyo baleḥ putro mahābalaḥ
krauñcaṃ parvatam āsādya devasaṃghān abādhata
72 tam abhyayān mahāsenaḥ suraśatrum udāradhīḥ
sa kārttikeyasya bhayāt krauñcaṃ śaraṇam eyivān
73 tataḥ krauñcaṃ mahāmanyuḥ krauñcanāda nināditam
śaktyā bibheda bhagavān kārttikeyo 'gnidattayā
74 saśāla skandhasaralaṃ trastavānaravāraṇam
pulinatrasta vihagaṃ viniṣpatita pannagam
75 golāṅgūrarkṣa saṃghaiś ca dravadbhir anunāditam
kuraṅga gatinirghoṣam udbhrāntasṛmarācitam
76 viniṣpatadbhiḥ śarabhaiḥ siṃhaiś ca sahasā drutaiḥ
śocyām api daśāṃ prāpto rarājaiva sa parvataḥ
77 vidyādharāḥ samutpetus tasya śṛṅganivāsinaḥ
kiṃnarāś ca samudvignāḥ śaktipāta ravoddhatāḥ
78 tato daityā viniṣpetuḥ śataśo 'tha sahasraśaḥ
pradīptāt parvataśreṣṭhād vicitrābharaṇa srajaḥ
79 tān nijaghnur atikramya kumārānucarā mṛdhe
bibheda śaktyā krauñcaṃ ca pāvakiḥ paravīrahā
80 bahudhā caikadhā caiva kṛtvātmānaṃ mahātmanā
śaktiḥ kṣiptā raṇe tasya pāṇim eti punaḥ punaḥ
81 evaṃ prabhāvo bhagavān ato bhūyaś ca pāvakiḥ
krauñcas tena vinirbhinno daityāś ca śataśo hatāḥ
82 tataḥ sa bhagavān devo nihatya vibudhadviṣaḥ
sabhājyamāno vibudhaiḥ paraṃ harṣam avāpa ha
83 tato dundubhayo rājan neduḥ śaṅkhāś ca bhārata
mumucur deva yoṣāś ca puṣpavarṣam anuttamam
84 divyagandham upādāya vavau puṇyaś ca mārutaḥ
gandharvās tuṣṭuvuś cainaṃ yajvānaś ca maharṣayaḥ
85 ke cid enaṃ vyavasyanti pitāmahasutaṃ prabhum
sanatkumāraṃ sarveṣāṃ brahmayoniṃ tam agrajam
86 ke cin maheśvara sutaṃ ke cit putraṃ vibhāvasoḥ
umāyāḥ kṛttikānāṃ ca gaṅgāyāś ca vadanty uta
87 ekadhā ca dvidhā caiva caturdhā ca mahābalam
yoginām īśvaraṃ devaṃ śataśo 'tha sahasraśaḥ
88 etat te kathitaṃ rājan kārttikeyābhiṣecanam
śṛṇu caiva sarasvatyās tīrthavaṃśasya puṇyatām
89 babhūva tīrthapravaraṃ hateṣu suraśatruṣu
kumāreṇa mahārāja triviṣṭapam ivāparam
90 aiśvaryāṇi ca tatrastho dadāv īśaḥ pṛthak pṛthak
tadā nairṛtamukhyebhyas trailokye pāvakātmajaḥ
91 evaṃ sa bhagavāṃs tasmiṃs tīrthe daitya kulāntakaḥ
abhiṣikto mahārāja deva senāpatiḥ suraiḥ
92 aujasaṃ nāma tat tīrthaṃ yatra pūrvam apāṃ patiḥ
abhiṣiktaḥ suragaṇair varuṇo bharatarṣabha
93 tasmiṃs tīrthavare snātvā skandaṃ cābhyarcya lāṅgalī
brāhmaṇebhyo dadau rukmaṃ vāsāṃsy ābharaṇāni ca
94 uṣitvā rajanīṃ tatra mādhavaḥ paravīrahā
pūjya tīrthavaraṃ tac ca spṛṣṭvā toyaṃ ca lāṅgalī
hṛṣṭaḥ prītamanāś caiva hy abhavan mādhavottamaḥ
95 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
yathābhiṣikto bhagavān skando devaiḥ samāgataiḥ

Support the archive. Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1273 of 2013 Book 63% ~10 min left