Book 7: Chapter 134
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 7: Chapter 134

The Mahabharata in Sanskrit

Book 7
Chapter 134

1 [स]
तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम
खड्गम उद्यम्य वेगेन दरौणिर अभ्यपतद दरुतम
2 [अष्व]
कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम
एष ते ऽदय शिरः कायाद उद्धरामि सुदुर्मते
3 [स]
तम उत्पतन्तं वेगेन राजा दुर्यॊधनः सवयम
नयवारयन महाराज कृपश च दविपदां वरः
4 [कर्ण]
शूरॊ ऽयं समरश्लाघी दुर्मतिश च दविजाधमः
आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम
5 [अष्व]
तवैतत कषम्यते ऽसमाभिः सूतात्मज सुदुर्मते
दर्पम उत्सिक्तम एतत ते फल्गुनॊ नाशयिष्यति
6 [दुर]
अश्वत्थामन परसीदस्व कषन्तुम अर्हसि मानद
कॊपः खलु न कर्तव्यः सूतपुत्रे कथं चन
7 तवयि कर्णे कृपे दरॊणे मद्रराजे ऽथ सौबले
महत कार्यं समायत्तं परसीद दविजसत्तम
8 एते हय अभिमुखाः सर्वे राधेयेन युयुत्सवः
आयान्ति पाण्डवा बरह्मन्न आह्वयन्तः समन्ततः
9 [स]
कर्णॊ ऽपि रथिनां शरेष्ठश चापम उद्यम्य वीर्यवान
कौरवाग्र्यैः परिवृतः शक्रॊ देवगणैर इव
पर्यतिष्ठत तेजस्वी सवबाहुबलम आश्रितः
10 ततः परववृते युद्धं कर्णस्य सह पाण्डवैः
संरब्धस्य महाराज सिंहनाद विनादितम
11 ततस ते पाण्डवा राजन पाञ्चालाश च यशस्विनः
दृष्ट्वा कर्णं महाबाहुम उच्चैः शब्दम अथानदन
12 अयं कर्णः कुतः कर्णस तिष्ठ कर्ण महारणे
युध्यस्व सहितॊ ऽसमाभिर दुरात्मन पुरुषाधम
13 अन्ये तु दृष्ट्वा राधेयं करॊधरक्तेक्षणाब्रुवन
हन्यताम अयम उत्सिक्तः सूतपुत्रॊ ऽलपचेतनः
14 सर्वैः पार्थिवशार्दूलैर नानेनार्थॊ ऽसति जीवता
अत्यन्तवैरी पार्थानां सततं पापपूरुषः
15 एष मूलं हय अनर्थानां दुर्यॊधन मते सथितः
हतैनम इति जल्पन्तः कषत्रियाः समुपाद्रवन
16 महता शरवर्षेण छादयन्तॊ महारथाः
वधार्धं सूतपुत्रस्य पाण्डवेयेन चॊदिताः
17 तांस तु सर्वांस तथा दृष्ट्वा धावमानान महारथान
न विव्यथे सूर पुत्रॊ न च तरासम अगच्छत
18 दृष्ट्वा नगरकल्पं तम उद्धूतं सैन्यसागरम
पिप्रीषुस तव पुत्राणां संग्रामेष्व अपराजितः
19 सायकौघेन बलवान कषिप्रकारी महाबलः
वारयाम आस तत सैन्यं समन्ताद भरतर्षभ
20 ततस तु शरवर्षेण पार्थिवास तम अवारयन
धनूंषि ते विधुन्वानाः शतशॊ ऽथ सहस्रशः
अयॊधयन्त राधेयं शक्रं दैत्य गणा इव
21 शरवर्षं तु तत कर्णः पार्थिवैः समुदीरितम
शरवर्षेण महता समन्ताद वयकिरत परभॊ
22 तद युद्धम अभवत तेषां कृतप्रतिकृतैषिणाम
यथा देवासुरे युद्धे शक्रस्य सह दानवैः
23 तत्राद्भुतम अपश्याम सूतपुत्रस्य लाघवम
यद एनं समरे यत्ता नाप्नुवन्त परे युधि
24 निवार्य च शरौघांस तान पार्थिवानां महारथः
युगेष्व ईषासु छत्रेषु धवजेषु च हयेषु च
आत्मनामाङ्कितान बाणान राधेयः पराहिणॊच छितान
25 ततस ते वयाकुलीभूता राजानः कर्ण पीडिताः
बभ्रमुस तत्र तत्रैव गावः शीतार्दिता इव
26 हयानां वध्यमानानां गजानां रथिनां तथा
तत्र तत्राभ्यवेक्षामः संघान कर्णेन पातितान
27 शिरॊभिः पतितौ राजन बाहुभिश च समन्ततः
आस्तीर्णा वसुधा सर्वा शूराणाम अनिवर्तिनाम
28 हतैश च हन्यमानैश च निष्टनद्भिश च सर्वशः
बभूवायॊधनं रौद्रं वैवस्वतपुरॊपमम
29 ततॊ दुर्यॊधनॊ राजा दृष्ट्वा कर्णस्य विक्रमम
अश्वत्थामानम आसाद्य तदा वाक्यम उवाच ह
30 युध्यते ऽसौ रणे कर्णॊ दंशितः सर्वपार्थिवैः
पश्यैतां दरवतीं सेनां कर्ण सायकपीडिताम
कार्त्तिकेयेन विध्वस्ताम आसुरीं पृतनाम इव
31 दृष्ट्वैनां निर्जितां सेनां रणे कर्णेन धीमता
अभियात्य एष बीभत्सुः सूतपुत्र जिघांसया
32 तद यथा पश्यमानानां सूतपुत्रं महारथम
न हन्यात पाण्डवः संख्ये तथा नीतिर विधीयताम
33 ततॊ दरौणिः कृपः शल्यॊ हार्दिक्यश च महारथः
परत्युद्ययुस तदा पार्थं सूतपुत्र परीप्सया
34 आयान्तं दृश्यकौन्तेयं वृत्रं देव चमूम इव
परयुद्ययौ तदा कर्णॊ यथा शक्रः परतापवान
35 [धृ]
संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमॊपमम
कर्णॊ वैकर्तनः सूत परत्यपद्यत किम उत्तरम
36 स हय अस्पर्धत पार्थेन नित्यम एव महारथः
आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे
37 स तु तं सहसा पराप्तं नित्यम अत्यन्तवैरिणम
कर्णॊ वैकर्तनः सूत किम उत्तरम अपद्यत
38 [स]
आयान्तं पाण्डवं दृष्ट्वा गजः परतिगजं यथा
असंभ्रान्ततरः कर्णः पर्त्युदीयाद धनंजयम
39 तम आपतन्तं वेगेन वैकर्तनम अजिह्मगैः
वारयाम आस तेजस्वी पाण्डवः शत्रुतापनः
40 तं कर्णः शरजालेन छादयाम आस मारिष
विव्याध च सुसंक्रुद्धः शरैस तरिभिर अजिह्मगैः
41 तस्य तल लाघवं पार्थॊ नामृष्यत महाबलः
तस्मै बाणाञ शिला धौतान परसन्नाग्रान अजिह्मगान
42 पराहिणॊत सूतपुत्राय तरिंशतं शत्रुतापनः
विव्याध चैनं संरब्धॊ बाणेनैकेन वीर्यवान
43 सव्ये भुजाग्रे बलवान नाराचेन हसन्न इव
तस्य विद्धस्य वेगेन कराच चापं पपात ह
44 पुनर आदाय तच चापं निमेषार्धान महाबलः
छादयाम आस बाणौघैः फल्गुनं कृतहस्तवत
45 शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत
वयधमच छरवर्षेण समयन्न इव धनंजयः
46 तौ परस्परम आसाद्य शरवर्षेण पार्थिव
छादयेतां महेष्वासौ कृप परतिकृतैषिणौ
47 तद अद्भुतम अभूद युद्धं कर्ण पाण्डवयॊर मृधे
करुद्धयॊर वाशिता हेतॊर वन्ययॊर गजयॊर इव
48 ततः पार्थॊ महेष्वासॊ दृष्ट्वा कर्णस्य विक्रमम
मुष्टिदेशे धनुस तस्य चिच्छेद तवरयान्वितः
49 अश्वांश च चतुरॊ भल्लैर अनयद यमसादनम
सारथेश च शिरः कायाद अहरच छत्रुतापनः
50 अथैनं छिन्नधन्वानं हताश्वं हतसारथिम
विव्याध सायकैः पार्थ चतुर्भिः पाण्डुनन्दनः
51 हताश्वात तु रथात तूर्णम अवप्लुत्य नरर्षभः
आरुरॊह रथं तूर्णं कृपस्य शरपीडितः
52 राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ
धनंजय शरैर नुन्नाः पराद्रवन्त दिशॊ दश
53 दरवतस तान समालॊक्य राजा दुर्यॊधनॊ नृप
निवर्तयाम आस तदा वाक्यं चेदम उवाच ह
54 अलं दरुतेन वः शूरास तिष्ठध्वं कषत्रियर्षभाः
एष पार्थ वधायाहं सवयं गच्छामि संयुगे
अहं पार्थान हनिष्यामि सपाञ्चालान स सॊमकान
55 अद्य मे युध्यमानस्य सह गाण्डीवधन्वना
दरक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये
56 अद्य मद्बाणजालानि विमुक्तानि सहस्रशः
दरक्ष्यन्ति समरे यॊधाः शलभानाम इवायतीः
57 अद्य बाणमयं वर्षं सृजतॊ मम धन्विनः
जीमूतस्येव घर्मान्ते दरक्ष्यन्ति युधि सैनिकाः
58 जेष्याम्य अद्य रणे पार्थं सायकैर नतपर्वभिः
तिष्ठध्वं समरे शूरा भयं तयजत फल्गुनात
59 न हि मद्वीर्यम आसाद्य फल्गुनः परसहिष्यति
यथा वेलां समासाद्य सागरॊ मकरालयः
60 इत्य उक्त्वा परययौ राजा सैन्येन महता वृतः
फल्गुनं परति दुर्धर्षः करॊधसंरक्तलॊचनः
61 तं परयान्तं महाबाहुं दृष्ट्वा शारद्वतस तदा
अश्वत्थामानम आसाद्य वाक्यम एतद उवाच ह
62 एष राजा महाबाहुर अमर्षी करॊधमूर्छितः
पतंगवृत्तिम आस्थाय फल्गुनं यॊद्धुम इच्छति
63 यावन नः पश्यमानानां पराणान पार्थेन संगतः
न जह्यात पुरुषव्याघ्रस तावद वारय कौरवम
64 यावत फल्गुन बाणानां गॊचरं नाधिगच्छति
कौरवः पार्थिवॊ वीरस तावद वारय तं दरुतम
65 यावत पार्थ शरैर घॊरैर निर्मुक्तॊरग संनिभैः
न भस्मीक्रियते राजा तावद युद्धान निवार्यताम
66 अयुक्तम इव पश्यामि तिष्ठस्त्व अस्मासु मानद
सवयं युद्धाय यद राजा पार्थं यात्य असहायवान
67 दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना
युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः
68 मातुलेनैवम उक्तस तु दरौणिः शस्त्रभृतां वरः
दुर्यॊधनम इदं वाक्यं तवरितं समभाषत
69 मयि जीवति गान्धारे न युद्धं गन्तुम अर्हसि
माम अनादृत्य कौरव्य तव नित्यं हितैषिणम
70 न हि ते संभ्रमः कार्यः पार्थस्य विजयं परति
अहम आवारयिष्यामि पार्थं तिष्ठ सुयॊधन
71 [दुर]
आचार्यः पाण्डुपुत्रान वै पुत्रवत परिरक्षति
तवम अप्य उपेक्षां कुरुषे तेषु नित्यं दविजॊत्तम
72 मम वा मन्दभाग्यत्वान मन्दस ते विक्रमॊ युधि
धर्मराज परियार्थं वा दरौपद्या वा न विद्म तत
73 धिग अस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः
सुखार्हाः परमं दुःखं पराप्नुवन्त्य अपराजिताः
74 कॊ हि शस्त्रभृतां मुख्यॊ महेश्वर समॊ युधि
शत्रून न कषपयेच छक्तॊ यॊ न सयाद गौतमी सुतः
75 अश्वत्थामन परसीदस्व नाशयैतान ममाहितान
तवास्त्रगॊचरे शक्ताः सथातुं देवापि नानघ
76 पाञ्चालान सॊमकांश चैव जहि दरॊणे सहानुगान
वयं शेषान हनिष्यामस तवयैव परिरक्षिताः
77 एते हि सॊमका विप्र पाञ्चालाश च यशस्विनः
मम सैन्येषु संरब्धा विचरन्ति दवाग्निवत
78 तान वारय महाबाहॊ केकयांश च नरॊत्तम
पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना
79 आदौ वा यदि वा पश्चात तवेदं कर्म मारिष
तवम उत्पन्नॊ महाबाहॊ पाञ्चालानां वधं परति
80 करिष्यसि जगत सर्वम अपाञ्चालं किलाच्युत
एवं सिद्धाब्रुवन वाचॊ भविष्यति च तत तथा
81 न ते ऽसत्रगॊचरे शक्ताः सथातुं देवाः स वासवाः
किम उ पार्थाः सपाञ्चालाः सत्यम एतद वचॊ मम
1 [s]
tathā paruṣitaṃ dṛṣṭvā sūtaputreṇa mātulam
khaḍgam udyamya vegena drauṇir abhyapatad drutam
2 [aṣv]
karṇa paśya sudurbuddhe tiṣṭhedānīṃ narādhama
eṣa te 'dya śiraḥ kāyād uddharāmi sudurmate
3 [s]
tam utpatantaṃ vegena rājā duryodhanaḥ svayam
nyavārayan mahārāja kṛpaś ca dvipadāṃ varaḥ
4 [karṇa]
śūro 'yaṃ samaraślāghī durmatiś ca dvijādhamaḥ
āsādayatu madvīryaṃ muñcemaṃ kurusattama
5 [aṣv]
tavaitat kṣamyate 'smābhiḥ sūtātmaja sudurmate
darpam utsiktam etat te phalguno nāśayiṣyati
6 [dur]
aśvatthāman prasīdasva kṣantum arhasi mānada
kopaḥ khalu na kartavyaḥ sūtaputre kathaṃ cana
7 tvayi karṇe kṛpe droṇe madrarāje 'tha saubale
mahat kāryaṃ samāyattaṃ prasīda dvijasattama
8 ete hy abhimukhāḥ sarve rādheyena yuyutsavaḥ
āyānti pāṇḍavā brahmann āhvayantaḥ samantataḥ
9 [s]
karṇo 'pi rathināṃ śreṣṭhaś cāpam udyamya vīryavān
kauravāgryaiḥ parivṛtaḥ śakro devagaṇair iva
paryatiṣṭhata tejasvī svabāhubalam āśritaḥ
10 tataḥ pravavṛte yuddhaṃ karṇasya saha pāṇḍavaiḥ
saṃrabdhasya mahārāja siṃhanāda vināditam
11 tatas te pāṇḍavā rājan pāñcālāś ca yaśasvinaḥ
dṛṣṭvā karṇaṃ mahābāhum uccaiḥ śabdam athānadan
12 ayaṃ karṇaḥ kutaḥ karṇas tiṣṭha karṇa mahāraṇe
yudhyasva sahito 'smābhir durātman puruṣādhama
13 anye tu dṛṣṭvā rādheyaṃ krodharaktekṣaṇābruvan
hanyatām ayam utsiktaḥ sūtaputro 'lpacetanaḥ
14 sarvaiḥ pārthivaśārdūlair nānenārtho 'sti jīvatā
atyantavairī pārthānāṃ satataṃ pāpapūruṣaḥ
15 eṣa mūlaṃ hy anarthānāṃ duryodhana mate sthitaḥ
hatainam iti jalpantaḥ kṣatriyāḥ samupādravan
16 mahatā śaravarṣeṇa chādayanto mahārathāḥ
vadhārdhaṃ sūtaputrasya pāṇḍaveyena coditāḥ
17 tāṃs tu sarvāṃs tathā dṛṣṭvā dhāvamānān mahārathān
na vivyathe sūra putro na ca trāsam agacchata
18 dṛṣṭvā nagarakalpaṃ tam uddhūtaṃ sainyasāgaram
piprīṣus tava putrāṇāṃ saṃgrāmeṣv aparājitaḥ
19 sāyakaughena balavān kṣiprakārī mahābalaḥ
vārayām āsa tat sainyaṃ samantād bharatarṣabha
20 tatas tu śaravarṣeṇa pārthivās tam avārayan
dhanūṃṣi te vidhunvānāḥ śataśo 'tha sahasraśaḥ
ayodhayanta rādheyaṃ śakraṃ daitya gaṇā iva
21 śaravarṣaṃ tu tat karṇaḥ pārthivaiḥ samudīritam
śaravarṣeṇa mahatā samantād vyakirat prabho
22 tad yuddham abhavat teṣāṃ kṛtapratikṛtaiṣiṇām
yathā devāsure yuddhe śakrasya saha dānavaiḥ
23 tatrādbhutam apaśyāma sūtaputrasya lāghavam
yad enaṃ samare yattā nāpnuvanta pare yudhi
24 nivārya ca śaraughāṃs tān pārthivānāṃ mahārathaḥ
yugeṣv īṣāsu chatreṣu dhvajeṣu ca hayeṣu ca
ātmanāmāṅkitān bāṇān rādheyaḥ prāhiṇoc chitān
25 tatas te vyākulībhūtā rājānaḥ karṇa pīḍitāḥ
babhramus tatra tatraiva gāvaḥ śītārditā iva
26 hayānāṃ vadhyamānānāṃ gajānāṃ rathināṃ tathā
tatra tatrābhyavekṣāmaḥ saṃghān karṇena pātitān
27 śirobhiḥ patitau rājan bāhubhiś ca samantataḥ
āstīrṇā vasudhā sarvā śūrāṇām anivartinām
28 hataiś ca hanyamānaiś ca niṣṭanadbhiś ca sarvaśaḥ
babhūvāyodhanaṃ raudraṃ vaivasvatapuropamam
29 tato duryodhano rājā dṛṣṭvā karṇasya vikramam
aśvatthāmānam āsādya tadā vākyam uvāca ha
30 yudhyate 'sau raṇe karṇo daṃśitaḥ sarvapārthivaiḥ
paśyaitāṃ dravatīṃ senāṃ karṇa sāyakapīḍitām
kārttikeyena vidhvastām āsurīṃ pṛtanām iva
31 dṛṣṭvaināṃ nirjitāṃ senāṃ raṇe karṇena dhīmatā
abhiyāty eṣa bībhatsuḥ sūtaputra jighāṃsayā
32 tad yathā paśyamānānāṃ sūtaputraṃ mahāratham
na hanyāt pāṇḍavaḥ saṃkhye tathā nītir vidhīyatām
33 tato drauṇiḥ kṛpaḥ śalyo hārdikyaś ca mahārathaḥ
pratyudyayus tadā pārthaṃ sūtaputra parīpsayā
34 āyāntaṃ dṛśyakaunteyaṃ vṛtraṃ deva camūm iva
prayudyayau tadā karṇo yathā śakraḥ pratāpavān
35 [dhṛ]
saṃrabdhaṃ phalgunaṃ dṛṣṭvā kālāntakayamopamam
karṇo vaikartanaḥ sūta pratyapadyat kim uttaram
36 sa hy aspardhata pārthena nityam eva mahārathaḥ
āśaṃsate ca bībhatsuṃ yuddhe jetuṃ sudāruṇe
37 sa tu taṃ sahasā prāptaṃ nityam atyantavairiṇam
karṇo vaikartanaḥ sūta kim uttaram apadyata
38 [s]
āyāntaṃ pāṇḍavaṃ dṛṣṭvā gajaḥ pratigajaṃ yathā
asaṃbhrāntataraḥ karṇaḥ partyudīyād dhanaṃjayam
39 tam āpatantaṃ vegena vaikartanam ajihmagaiḥ
vārayām āsa tejasvī pāṇḍavaḥ śatrutāpanaḥ
40 taṃ karṇaḥ śarajālena chādayām āsa māriṣa
vivyādha ca susaṃkruddhaḥ śarais tribhir ajihmagaiḥ
41 tasya tal lāghavaṃ pārtho nāmṛṣyata mahābalaḥ
tasmai bāṇāñ śilā dhautān prasannāgrān ajihmagān
42 prāhiṇot sūtaputrāya triṃśataṃ śatrutāpanaḥ
vivyādha cainaṃ saṃrabdho bāṇenaikena vīryavān
43 savye bhujāgre balavān nārācena hasann iva
tasya viddhasya vegena karāc cāpaṃ papāta ha
44 punar ādāya tac cāpaṃ nimeṣārdhān mahābalaḥ
chādayām āsa bāṇaughaiḥ phalgunaṃ kṛtahastavat
45 śaravṛṣṭiṃ tu tāṃ muktāṃ sūtaputreṇa bhārata
vyadhamac charavarṣeṇa smayann iva dhanaṃjayaḥ
46 tau parasparam āsādya śaravarṣeṇa pārthiva
chādayetāṃ maheṣvāsau kṛpa pratikṛtaiṣiṇau
47 tad adbhutam abhūd yuddhaṃ karṇa pāṇḍavayor mṛdhe
kruddhayor vāśitā hetor vanyayor gajayor iva
48 tataḥ pārtho maheṣvāso dṛṣṭvā karṇasya vikramam
muṣṭideśe dhanus tasya ciccheda tvarayānvitaḥ
49 aśvāṃś ca caturo bhallair anayad yamasādanam
sāratheś ca śiraḥ kāyād aharac chatrutāpanaḥ
50 athainaṃ chinnadhanvānaṃ hatāśvaṃ hatasārathim
vivyādha sāyakaiḥ pārtha caturbhiḥ pāṇḍunandanaḥ
51 hatāśvāt tu rathāt tūrṇam avaplutya nararṣabhaḥ
āruroha rathaṃ tūrṇaṃ kṛpasya śarapīḍitaḥ
52 rādheyaṃ nirjitaṃ dṛṣṭvā tāvakā bharatarṣabha
dhanaṃjaya śarair nunnāḥ prādravanta diśo daśa
53 dravatas tān samālokya rājā duryodhano nṛpa
nivartayām āsa tadā vākyaṃ cedam uvāca ha
54 alaṃ drutena vaḥ śūrās tiṣṭhadhvaṃ kṣatriyarṣabhāḥ
eṣa pārtha vadhāyāhaṃ svayaṃ gacchāmi saṃyuge
ahaṃ pārthān haniṣyāmi sapāñcālān sa somakān
55 adya me yudhyamānasya saha gāṇḍīvadhanvanā
drakṣyanti vikramaṃ pārthāḥ kālasyeva yugakṣaye
56 adya madbāṇajālāni vimuktāni sahasraśaḥ
drakṣyanti samare yodhāḥ śalabhānām ivāyatīḥ
57 adya bāṇamayaṃ varṣaṃ sṛjato mama dhanvinaḥ
jīmūtasyeva gharmānte drakṣyanti yudhi sainikāḥ
58 jeṣyāmy adya raṇe pārthaṃ sāyakair nataparvabhiḥ
tiṣṭhadhvaṃ samare śūrā bhayaṃ tyajata phalgunāt
59 na hi madvīryam āsādya phalgunaḥ prasahiṣyati
yathā velāṃ samāsādya sāgaro makarālayaḥ
60 ity uktvā prayayau rājā sainyena mahatā vṛtaḥ
phalgunaṃ prati durdharṣaḥ krodhasaṃraktalocanaḥ
61 taṃ prayāntaṃ mahābāhuṃ dṛṣṭvā śāradvatas tadā
aśvatthāmānam āsādya vākyam etad uvāca ha
62 eṣa rājā mahābāhur amarṣī krodhamūrchitaḥ
pataṃgavṛttim āsthāya phalgunaṃ yoddhum icchati
63 yāvan naḥ paśyamānānāṃ prāṇān pārthena saṃgataḥ
na jahyāt puruṣavyāghras tāvad vāraya kauravam
64 yāvat phalguna bāṇānāṃ gocaraṃ nādhigacchati
kauravaḥ pārthivo vīras tāvad vāraya taṃ drutam
65 yāvat pārtha śarair ghorair nirmuktoraga saṃnibhaiḥ
na bhasmīkriyate rājā tāvad yuddhān nivāryatām
66 ayuktam iva paśyāmi tiṣṭhastv asmāsu mānada
svayaṃ yuddhāya yad rājā pārthaṃ yāty asahāyavān
67 durlabhaṃ jīvitaṃ manye kauravyasya kirīṭinā
yudhyamānasya pārthena śārdūleneva hastinaḥ
68 mātulenaivam uktas tu drauṇiḥ śastrabhṛtāṃ varaḥ
duryodhanam idaṃ vākyaṃ tvaritaṃ samabhāṣata
69 mayi jīvati gāndhāre na yuddhaṃ gantum arhasi
mām anādṛtya kauravya tava nityaṃ hitaiṣiṇam
70 na hi te saṃbhramaḥ kāryaḥ pārthasya vijayaṃ prati
aham āvārayiṣyāmi pārthaṃ tiṣṭha suyodhana
71 [dur]
ācāryaḥ pāṇḍuputrān vai putravat parirakṣati
tvam apy upekṣāṃ kuruṣe teṣu nityaṃ dvijottama
72 mama vā mandabhāgyatvān mandas te vikramo yudhi
dharmarāja priyārthaṃ vā draupadyā vā na vidma tat
73 dhig astu mama lubdhasya yatkṛte sarvabāndhavāḥ
sukhārhāḥ paramaṃ duḥkhaṃ prāpnuvanty aparājitāḥ
74 ko hi śastrabhṛtāṃ mukhyo maheśvara samo yudhi
śatrūn na kṣapayec chakto yo na syād gautamī sutaḥ
75 aśvatthāman prasīdasva nāśayaitān mamāhitān
tavāstragocare śaktāḥ sthātuṃ devāpi nānagha
76 pāñcālān somakāṃś caiva jahi droṇe sahānugān
vayaṃ śeṣān haniṣyāmas tvayaiva parirakṣitāḥ
77 ete hi somakā vipra pāñcālāś ca yaśasvinaḥ
mama sainyeṣu saṃrabdhā vicaranti davāgnivat
78 tān vāraya mahābāho kekayāṃś ca narottama
purā kurvanti niḥśeṣaṃ rakṣyamāṇāḥ kirīṭinā
79 ādau vā yadi vā paścāt tavedaṃ karma māriṣa
tvam utpanno mahābāho pāñcālānāṃ vadhaṃ prati
80 kariṣyasi jagat sarvam apāñcālaṃ kilācyuta
evaṃ siddhābruvan vāco bhaviṣyati ca tat tathā
81 na te 'stragocare śaktāḥ sthātuṃ devāḥ sa vāsavāḥ
kim u pārthāḥ sapāñcālāḥ satyam etad vaco mama

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1118 of 2013 Book 55% ~9 min left