Book 6: Chapter 50
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required.
Get the drive $127.00

Book 6: Chapter 50

The Mahabharata in Sanskrit

Book 6
Chapter 50

1 [धृ]
तथा परतिसमादिष्टः कलिङ्गॊ वाहिनीपतिः
कथम अद्भुतकर्माणं भीमसेनं महाबलम
2 चरन्तं गदया वीरं दण्डपाणिम इवान्तकम
यॊधयाम आस समरे कलिङ्गः सह सेनया
3 [स]
पुत्रेण तव राजेन्द्र स तथॊक्तॊ महाबलः
महत्या सेनया गुप्तः परायाद भीम रथं परति
4 ताम आपतन्तीं सहसा कलिङ्गानां महाचमूम
रथनागाश्वकलिलां परगृहीतमहायुधाम
5 भीमसेनः कलिङ्गानाम आर्छद भारत वाहिनीम
केतुमन्तं च नैषादिम आयान्तं सह चेदिभिः
6 ततः शरुतायुः संक्रुद्धॊ राज्ञा केतुमता सह
आससाद रणे भीमं वयूढानीकेषु चेदिषु
7 रथैर अनेकसाहस्रैः कलिङ्गानां जनाधिपः
अयुतेन गजानां च निषादैः सह केतुमान
भीमसेनं रणे राजन समन्तात पर्यवारयत
8 चेदिमत्स्य करूषाश च भीमसेनपुरॊगमाः
अभ्यवर्तन्त सहसा निषादान सह राजभिः
9 ततः परववृते युद्धं घॊररूपं भयानकम
परजानन न च यॊधान सवान परस्परजिघांसया
10 घॊरम आसीत ततॊ युद्धं भीमस्य सहसा परैः
यथेन्द्रस्य महाराज महत्या दैत्य सेनया
11 तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत
बभूव सुमहाञ शब्दः सागरस्येव गर्जतः
12 अन्यॊन्यस्य तदा यॊधा निकृन्तन्तॊ विशां पते
महीं चक्रुश चितां सर्वां शशशॊणितसंनिभाम
13 यॊधांश च सवा परान वापि नाभ्यजानज जिघांसया
सवान अप्य आददते सवाश च शूराः समरदुर्जयाः
14 विमर्दः सुमहान आसीद अल्पानां बहुभिः सह
कलिङ्गैः सह चेदीनां निषादैश च विशां पते
15 कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः
भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः
16 सर्वैः कलिङ्गैर आसन्नः संनिवृत्तेषु चेदिषु
सवबाहुबलम आस्थाय न नयवर्तत पाण्डवः
17 न चचाल रथॊपस्थाद भीमसेनॊ महाबलः
शितैर अवाकिरन बाणैः कलिङ्गानां वरूथिनीम
18 कलिङ्गस तु महेष्वासः पुत्रश चास्य महारथः
शक्रदेव इति खयातॊ जघ्नतुः पाण्डवं शरैः
19 ततॊ भीमॊ महाबाहुर विधुन्वन रुचिरं धनुः
यॊधयाम आस कालिङ्गान सवबाहुबलम आश्रितः
20 शक्रदेवस तु समरे विसृजन सायकान बहून
अश्वाञ जघान समरे भीमसेनस्य सायकैः
ववर्ष शरवर्षाणि तपान्ते जलदॊ यथा
21 हताश्वे तु रथे तिष्ठन भीमसेनॊ महाबलः
शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम
22 स तया निहतॊ राजन कलिङ्गस्य सुतॊ रथात
स धवजः सह सूतेन जगाम धरणीतलम
23 हतम आत्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः
रथैर अनेकसाहस्रैर भिमस्यावारयद दिशः
24 ततॊ भीमॊ महाबाहुर गुर्वीं तयक्त्वा महागदाम
उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम
25 चर्म चाप्रतिमं राजन्न आर्षभं पुरुषर्षभ
नक्षतैर अर्धचन्द्रैश च शातकुम्भमयैश चितम
26 कलिङ्गस तु ततः करुद्धॊ धनुर्ज्याम अवमृज्य ह
परगृह्य च शरं घॊरम एकं सर्पविषॊपमम
पराहिणॊद भीमसेनाय वधाकाङ्क्षी जनेश्वरः
27 तम आपतन्तं वेगेन परेरितं निशितं शरम
भीमसेनॊ दविधा राजंश चिच्छेद विपुलासिना
उदक्रॊशच च संहृष्टस तरासयानॊ वरूथिनीम
28 कलिङ्गस तु ततः करुद्धॊ भीमसेनाय संयुगे
तॊमरान पराहिणॊच छीघ्रं चतुर्दश शिलाशितान
29 तान अप्राप्तान महाबाहुः खगतान एव पाण्डवः
चिच्छेद सहसा राजन्न असंभ्रान्तॊ वरासिना
30 निकृत्य तु रणे भीमस तॊमरान वै चतुर्दश
भानुमन्तम अभिप्रेक्ष्य पराद्रवत पुरुषर्षभः
31 भानुमांस तु ततॊ भीमं शरवर्षेण छादयन
ननाद बलवन नादं नादयानॊ नभस्तलम
32 न तं स ममृषे भीमः सिंहनादं महारणे
ततः सवरेण महता विननाद महास्वनम
33 तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी
न भीमं समरे मेने मानुषं भरतर्षभ
34 ततॊ भीमॊ महाराज नदित्वा विपुलं सवनम
सासिर वेगाद अवप्लुत्य दन्ताभ्यां वारणॊत्तमम
35 आरुरॊह ततॊ मध्यं नागराजस्य मारिष
खड्गेन पृथुना मध्ये भानुमन्तम अतॊ ऽचछिनत
36 सॊ ऽनतरायुधिनं हत्वा राजपुत्रम अरिंदमः
गुरुभारसह सकन्धे नागस्यासिम अपातयत
37 छिन्नस्कन्धः स विनदन पपात गजयूथपः
आरुग्णः सिन्धुवेगेन सानुमान इव पर्वतः
38 ततस तस्माद अवप्लुत्य गजाद भारत भारतः
खड्गपाणिर अदीनात्मा अतिष्ठद भुवि दंशितः
39 स चचार बहून मार्गान अभीतः पातयन गजान
अग्निचक्रम इवाविद्धं सर्वतः परत्यदृश्यत
40 अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः
पदातीनां च संघेषु विनिघ्नञ शॊणितॊक्षितः
शयेनवद वयचरद भीमॊ रणे रिपुबलॊत्कटः
41 छिन्दंस तेषां शरीराणि शिरांसि च महाजवः
खड्गेन शितधारेण संयुगे गय यॊधिनाम
42 पदातिर एकः संक्रुद्धः शत्रूणां भयवर्धनः
मॊहयाम आस च तदा कालान्त क यमॊपमः
43 मूढाश च ते तम एवाजौ विनदन्तः समाद्रवन
सासिम उत्तमवेगेन विचरन्तं महारणे
44 निकृत्य रथिनाम आजौ रथेशाश च युगानि च
जघान रथिनश चापि बलवान अरिमर्दनः
45 भीमसेनश चरन मार्गान सुबहून परत्यदृश्यत
भरान्तम उद्भ्रान्तम आविद्धम आप्लुतं परसृतं सृतम
संपातं समुदीर्यं च दर्शयाम आस पाण्डवः
46 के चिद अग्रासिना छिन्नाः पाण्डवेन महात्मना
विनेदुर भिन्नमर्माणॊ निपेतुश च गतासवः
47 छिन्नदन्ता गरहस ताश च भिन्नकुम्भास तथापरे
वियॊधाः सवान्य अनीकानि जघ्नुर भारत वारणाः
निपेतुर उर्व्यां च तथा विनदन्तॊ महारवान
48 छिन्नांश च तॊमरांश चापान महामात्रशिरांसि च
परिस्तॊमानि चित्राणि कक्ष्याश च कनकॊज्ज्वलाः
49 गरैवेयाण्य अथ शक्तीश च पताकाः कणपांस तथा
तूणीराण्य अथ यन्त्राणि विचित्राणि धनूंषि च
50 अग्निकुण्डानि शुभ्राणि तॊत्त्रांश चैवाङ्कुशैः सह
घण्टाश च विविधा राजन हेमगर्भांस तसरून अपि
पततः पतितांश चैव पश्यामः सह सादिभिः
51 छिन्नगात्रावर करैर निहतैश चापि वारणैः
आसीत तस्मिन समास्तीर्णा पतितैर भूनगैर इव
52 विमृद्यैवं महानागान ममर्दाश्वान नरर्षभः
अश्वारॊहवरांश चापि पातयाम आस भारत
तद घॊरम अभवद युद्धं तस्य तेषां च भारत
53 खलीनान्य अथ यॊक्त्राणि कशाश च कनकॊज्ज्वलाः
परिस्तॊमाश च परासाश च ऋष्टयश च महाधनाः
54 कवचान्य अथ चर्माणि चित्राण्य आस्तरणानि च
तत्र तत्रापविद्धानि वयदृश्यन्त महाहवे
55 परॊथ यन्त्रैर विचित्रैश च शस्त्रैश च विमलैस तथा
सचक्रे वसुधां कीर्णां शबलैः कुसुमैर इव
56 आप्लुत्य रथिनः कांश चित परामृश्य महाबलः
पातयाम आस खड्गेन स धवजान अपि पाण्डवः
57 मुहुर उत्पततॊ दिक्षु धावतश च यशस्विनः
मार्गांश च चरतश चित्रान वयस्मयन्त रणे जनाः
58 निजघान पदा कांश चिद आक्षिप्यान्यान अपॊथयत
खड्गेनान्यांश च चिच्छेद नादेनान्यांश च भीषयन
59 ऊरुवेगेन चाप्य अन्यान पातयाम आस भूतले
अपरे चैनम आलॊक्य भयात पञ्चत्वम आगताः
60 एवं सा बहुला सेना कलिङ्गानां तरस्विनाम
परिवार्य रणे भीष्मं भीमसेनम उपाद्रवत
61 ततः कलिङ्ग सैन्यानां परमुखे भरतर्षभ
शरुतायुषम अभिप्रेक्ष्य भीमसेनः समभ्ययात
62 तम आयान्तम अभिप्रेक्ष्य कलिङ्गॊ नवभिः शरैः
भीमसेनम अमेयात्मा परत्यविध्यत सतनान्तरे
63 कलिङ्ग बाणाभिहतस तॊत्त्रार्दित इव दविषः
भीमसेनः परजज्वाल करॊधेनाग्निर इवेन्धनैः
64 अथाशॊकः समादाय रथं हेमपरिष्कृतम
भीमं संपादयाम आस रथेन रथसारथिः
65 तम आरुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः
कलिङ्गम अभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत
66 ततः शरुतायुर बलवान भीमाय निशिताञ शरान
परेषयाम आस संक्रुद्धॊ दर्शयन पाणिलाघवम
67 स कार्मुकवरॊत्सृष्टैर नवभिर निशितैः शरैः
समाहतॊ भृशं राजन कलिङ्गेन महायशाः
संचुक्रुधे भृशं भीमॊ दण्डाहत इवॊरगः
68 करुद्धश च चापम आयम्य बलवद बलिनां वरः
कलिङ्गम अवधीत पार्थॊ भीमः सप्तभिर आयसैः
69 कषुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ
सत्यदेवं च सत्यं च पराहिणॊद यमसादनम
70 ततः पुनर अमेयात्मा नाराचैर निशितैस तरिभिः
केतुमन्तं रणे भीमॊ ऽगमयद यमसादनम
71 ततः कलिङ्गाः संक्रुद्धा भीमसेनम अमर्षणम
अनीकैर बहुसाहस्रैः कषत्रियाः समवारयन
72 ततः शक्तिगदा खड्गतॊमरर्ष्टि परश्वधैः
कलिङ्गाश च ततॊ राजन भीमसेनम अवाकिरन
73 संनिवार्य स तां घॊरां शरवृष्टिं समुत्थिताम
गदाम आदाय तरसा परिप्लुत्य महाबलः
भीमः सप्तशतान वीरान अनयद यमसादनम
74 पुनश चैव दविसाहस्रान कलिङ्गान अरिमर्दनः
पराहिणॊन मृत्युलॊकाय तद अद्भुतम इवाभवत
75 एवं स तान्य अनीकानि कलिङ्गानां पुनः पुनः
बिभेद समरे वीरः परेक्ष्य भीष्मं महाव्रतम
76 हतारॊहाश च मातङ्गाः पाण्डवेन महात्मना
विप्रजग्मुर अनीकेषु मेघा वातहता इव
मृदन्तः सवान्य अनीकानि विनदन्तः शरातुराः
77 ततॊ भीमॊ महाबाहुः शङ्खं पराध्मापयद बली
सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत
78 मॊहश चापि कलिङ्गानाम आविवेश परंतप
पराकम्पन्त च सैन्यानि वाहनानि च सर्वशः
79 भीमेन समरे राजन गजेन्द्रेणेव सर्वतः
मार्गान बहून विचरता धावता च ततस ततः
मुहुर उत्पतता चैव संमॊहः समजायत
80 भीमसेन भयत्रस्तं सैन्यं च समकम्पत
कषॊभ्यमाणम असंबाधं पराहेणेव महत सरः
81 तरासितेषु च वीरेषु भीमेनाद्भुत कर्मणा
पुनरावर्तमानेषु विद्रवत्सु च संघशः
82 सर्वकालिङ्गयॊधेषु पाण्डूनां धवजिनीपतिः
अब्रवीत सवान्य अनीकानि युध्यध्वम इति पार्षतः
83 सेनापतिवचः शरुत्वा शिखण्डिप्रमुखा गणाः
भीमम एवाभ्यवर्तन्त रथानीकैः परहारिभिः
84 धर्मराजश च तान सर्वान उपजग्राह पाण्डवः
महता मेघवर्णेन नागानीकेन पृष्ठतः
85 एवं संचॊद्य सर्वाणि सवान्य अनीकानि पार्षतः
भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषॊचिताम
86 न हि पाञ्चालराजस्य लॊके कश चन विद्यते
भीम सात्यकयॊर अन्यः पराणेभ्यः परियकृत्तमः
87 सॊ ऽपश्यत तं कलिङ्गेषु चरन्तम अरिसूदनम
भीमसेनं महाबाहुं पार्षतः परवीरहा
88 ननर्द बहुधा राजन हृष्टश चासीत परंतपः
शङ्खं दध्मौ च समरे सिंहनादं ननाद च
89 स च पारावताश्वस्य रथे हेमपरिष्कृते
कॊविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत
90 धृष्टद्युम्नस तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम
भीमसेनम अमेयात्मा तराणायाजौ समभ्ययात
91 तौ दूरात सात्यकिर दृष्ट्वा धृष्टद्युम्नवृकॊदरौ
कलिङ्गान समरे वीरौ यॊधयन्तौ मनस्विनौ
92 स तत्र गत्वा शैनेयॊ जवेन जयतां वरः
पार्थ पार्षतयॊः पार्ष्णिं जग्राह पुरुषर्षभः
93 स कृत्वा कदनं तत्र परगृहीतशरासनः
आस्थितॊ रौद्रम आत्मानं जघान समरे परान
94 कलिङ्ग परभवां चैव मांसशॊणितकर्दमाम
रुधिरस्यन्दिनीं तत्र भीमः परावर्तयन नदीम
95 अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम
संततार सुदुस्तारां भीमसेनॊ महाबलः
96 भीमसेनं तथा दृष्ट्वा पराक्रॊशंस तावका नृप
कालॊ ऽयं भीमरूपेण कलिङ्गैः सह युध्यते
97 ततः शांतनवॊ भीष्मः शरुत्वा तं निनदं रणे
अभ्ययात तवरितॊ भीमं वयूढानीकः समन्ततः
98 तं सात्यकिर भीमसेनॊ धृष्टद्युम्नश च पार्षतः
अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम
99 परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे
तरिभिस तरिभिः शरैर घॊरैर भीष्मम आनर्छुर अञ्जसा
100 परत्यविध्यत तान सर्वान पिता देवव्रतस तव
यतमानान महेष्वासांस तरिभिस तरिभिर अजिह्मगैः
101 ततः शरसहस्रेण संनिवार्य महारथान
हयान काञ्चनसंनाहान भीमस्य नयहनच छरैः
102 हताश्वे तु रथे तिष्ठन भीमसेनः परतापवान
शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं परति
103 अप्राप्ताम एव तां शक्तिं पिता देवव्रतस तव
तरिधा चिच्छेद समरे सा पृथिव्याम अशीर्यत
104 ततः शैक्यायसीं गुर्वीं परगृह्य बलवद गदाम
भीमसेनॊ रथा तूर्णं पुप्लुवे मनुजर्षभ
105 सात्यकॊ ऽपि ततस तूर्णं भीमस्य परियकाम्यया
सारथिं कुरुवृद्धस्य पातयाम आस सायकैः
106 भीष्मस तु निहते तस्मिन सारथौ रथिनां वरः
वातायमानैस तैर अश्वैर अपनीतॊ रणाजिरात
107 भीमसेनस ततॊ राजन्न अपनीते महाव्रते
परजज्वाल यथा वह्निर दहन कक्षम इवैधितः
108 स हत्वा सर्वकालिङ्गान सेना मध्ये वयतिष्ठत
नैनम अभ्युत्सहन के चित तावका भरतर्षभ
109 धृष्टद्युम्नस तम आरॊप्य सवरथे रथिनां वरः
पश्यतां सर्वसैन्यानाम अपॊवाह यशस्विनम
110 संपूज्यमानः पाञ्चाल्यैर मत्स्यैश च भरतर्षभ
धृष्टद्युम्नं परिष्वज्य समेयाद अथ सात्यकिम
111 अथाब्रवीद भीमसेनं सात्यकिः सत्यविक्रमः
परहर्षयन यदुव्याघ्रॊ धृष्टद्युम्नस्य पश्यतः
112 दिष्ट्या कलिङ्ग राजश च राजपुत्रश च केतुमान
शक्रदेवश च कालिङ्गः कलिङ्गाश च मृधे हताः
113 सवबाहुबलवीर्येण नागाश्वरथसंकुलः
महाव्यूहः कलिङ्गानाम एकेन मृदितस तवया
114 एवम उक्त्वा शिनेर नप्ता दीर्घबाहुर अरिंदमः
रथाद रथम अभिद्रुत्य पर्यष्वजत पाण्डवम
115 ततः सवरथम आरुह्य पुनर एव महारथः
तावकान अवधीत करुद्धॊ भीमस्य बलम आदधत
1 [dhṛ]
tathā pratisamādiṣṭaḥ kaliṅgo vāhinīpatiḥ
katham adbhutakarmāṇaṃ bhīmasenaṃ mahābalam
2 carantaṃ gadayā vīraṃ daṇḍapāṇim ivāntakam
yodhayām āsa samare kaliṅgaḥ saha senayā
3 [s]
putreṇa tava rājendra sa tathokto mahābalaḥ
mahatyā senayā guptaḥ prāyād bhīma rathaṃ prati
4 tām āpatantīṃ sahasā kaliṅgānāṃ mahācamūm
rathanāgāśvakalilāṃ pragṛhītamahāyudhām
5 bhīmasenaḥ kaliṅgānām ārchad bhārata vāhinīm
ketumantaṃ ca naiṣādim āyāntaṃ saha cedibhiḥ
6 tataḥ śrutāyuḥ saṃkruddho rājñā ketumatā saha
āsasāda raṇe bhīmaṃ vyūḍhānīkeṣu cediṣu
7 rathair anekasāhasraiḥ kaliṅgānāṃ janādhipaḥ
ayutena gajānāṃ ca niṣādaiḥ saha ketumān
bhīmasenaṃ raṇe rājan samantāt paryavārayat
8 cedimatsya karūṣāś ca bhīmasenapurogamāḥ
abhyavartanta sahasā niṣādān saha rājabhiḥ
9 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam
prajānan na ca yodhān svān parasparajighāṃsayā
10 ghoram āsīt tato yuddhaṃ bhīmasya sahasā paraiḥ
yathendrasya mahārāja mahatyā daitya senayā
11 tasya sainyasya saṃgrāme yudhyamānasya bhārata
babhūva sumahāñ śabdaḥ sāgarasyeva garjataḥ
12 anyonyasya tadā yodhā nikṛntanto viśāṃ pate
mahīṃ cakruś citāṃ sarvāṃ śaśaśoṇitasaṃnibhām
13 yodhāṃś ca svā parān vāpi nābhyajānaj jighāṃsayā
svān apy ādadate svāś ca śūrāḥ samaradurjayāḥ
14 vimardaḥ sumahān āsīd alpānāṃ bahubhiḥ saha
kaliṅgaiḥ saha cedīnāṃ niṣādaiś ca viśāṃ pate
15 kṛtvā puruṣakāraṃ tu yathāśakti mahābalāḥ
bhīmasenaṃ parityajya saṃnyavartanta cedayaḥ
16 sarvaiḥ kaliṅgair āsannaḥ saṃnivṛtteṣu cediṣu
svabāhubalam āsthāya na nyavartata pāṇḍavaḥ
17 na cacāla rathopasthād bhīmaseno mahābalaḥ
śitair avākiran bāṇaiḥ kaliṅgānāṃ varūthinīm
18 kaliṅgas tu maheṣvāsaḥ putraś cāsya mahārathaḥ
śakradeva iti khyāto jaghnatuḥ pāṇḍavaṃ śaraiḥ
19 tato bhīmo mahābāhur vidhunvan ruciraṃ dhanuḥ
yodhayām āsa kāliṅgān svabāhubalam āśritaḥ
20 śakradevas tu samare visṛjan sāyakān bahūn
aśvāñ jaghāna samare bhīmasenasya sāyakaiḥ
vavarṣa śaravarṣāṇi tapānte jalado yathā
21 hatāśve tu rathe tiṣṭhan bhīmaseno mahābalaḥ
śakradevāya cikṣepa sarvaśaikyāyasīṃ gadām
22 sa tayā nihato rājan kaliṅgasya suto rathāt
sa dhvajaḥ saha sūtena jagāma dharaṇītalam
23 hatam ātmasutaṃ dṛṣṭvā kaliṅgānāṃ janādhipaḥ
rathair anekasāhasrair bhimasyāvārayad diśaḥ
24 tato bhīmo mahābāhur gurvīṃ tyaktvā mahāgadām
udbabarhātha nistriṃśaṃ cikīrṣuḥ karma dāruṇam
25 carma cāpratimaṃ rājann ārṣabhaṃ puruṣarṣabha
nakṣatair ardhacandraiś ca śātakumbhamayaiś citam
26 kaliṅgas tu tataḥ kruddho dhanurjyām avamṛjya ha
pragṛhya ca śaraṃ ghoram ekaṃ sarpaviṣopamam
prāhiṇod bhīmasenāya vadhākāṅkṣī janeśvaraḥ
27 tam āpatantaṃ vegena preritaṃ niśitaṃ śaram
bhīmaseno dvidhā rājaṃś ciccheda vipulāsinā
udakrośac ca saṃhṛṣṭas trāsayāno varūthinīm
28 kaliṅgas tu tataḥ kruddho bhīmasenāya saṃyuge
tomarān prāhiṇoc chīghraṃ caturdaśa śilāśitān
29 tān aprāptān mahābāhuḥ khagatān eva pāṇḍavaḥ
ciccheda sahasā rājann asaṃbhrānto varāsinā
30 nikṛtya tu raṇe bhīmas tomarān vai caturdaśa
bhānumantam abhiprekṣya prādravat puruṣarṣabhaḥ
31 bhānumāṃs tu tato bhīmaṃ śaravarṣeṇa chādayan
nanāda balavan nādaṃ nādayāno nabhastalam
32 na taṃ sa mamṛṣe bhīmaḥ siṃhanādaṃ mahāraṇe
tataḥ svareṇa mahatā vinanāda mahāsvanam
33 tena śabdena vitrastā kaliṅgānāṃ varūthinī
na bhīmaṃ samare mene mānuṣaṃ bharatarṣabha
34 tato bhīmo mahārāja naditvā vipulaṃ svanam
sāsir vegād avaplutya dantābhyāṃ vāraṇottamam
35 āruroha tato madhyaṃ nāgarājasya māriṣa
khaḍgena pṛthunā madhye bhānumantam ato 'cchinat
36 so 'ntarāyudhinaṃ hatvā rājaputram ariṃdamaḥ
gurubhārasaha skandhe nāgasyāsim apātayat
37 chinnaskandhaḥ sa vinadan papāta gajayūthapaḥ
ārugṇaḥ sindhuvegena sānumān iva parvataḥ
38 tatas tasmād avaplutya gajād bhārata bhārataḥ
khaḍgapāṇir adīnātmā atiṣṭhad bhuvi daṃśitaḥ
39 sa cacāra bahūn mārgān abhītaḥ pātayan gajān
agnicakram ivāviddhaṃ sarvataḥ pratyadṛśyata
40 aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ
padātīnāṃ ca saṃgheṣu vinighnañ śoṇitokṣitaḥ
śyenavad vyacarad bhīmo raṇe ripubalotkaṭaḥ
41 chindaṃs teṣāṃ śarīrāṇi śirāṃsi ca mahājavaḥ
khaḍgena śitadhāreṇa saṃyuge gaya yodhinām
42 padātir ekaḥ saṃkruddhaḥ śatrūṇāṃ bhayavardhanaḥ
mohayām āsa ca tadā kālānta ka yamopamaḥ
43 mūḍhāś ca te tam evājau vinadantaḥ samādravan
sāsim uttamavegena vicarantaṃ mahāraṇe
44 nikṛtya rathinām ājau ratheśāś ca yugāni ca
jaghāna rathinaś cāpi balavān arimardanaḥ
45 bhīmasenaś caran mārgān subahūn pratyadṛśyata
bhrāntam udbhrāntam āviddham āplutaṃ prasṛtaṃ sṛtam
saṃpātaṃ samudīryaṃ ca darśayām āsa pāṇḍavaḥ
46 ke cid agrāsinā chinnāḥ pāṇḍavena mahātmanā
vinedur bhinnamarmāṇo nipetuś ca gatāsavaḥ
47 chinnadantā grahas tāś ca bhinnakumbhās tathāpare
viyodhāḥ svāny anīkāni jaghnur bhārata vāraṇāḥ
nipetur urvyāṃ ca tathā vinadanto mahāravān
48 chinnāṃś ca tomarāṃś cāpān mahāmātraśirāṃsi ca
paristomāni citrāṇi kakṣyāś ca kanakojjvalāḥ
49 graiveyāṇy atha śaktīś ca patākāḥ kaṇapāṃs tathā
tūṇīrāṇy atha yantrāṇi vicitrāṇi dhanūṃṣi ca
50 agnikuṇḍāni śubhrāṇi tottrāṃś caivāṅkuśaiḥ saha
ghaṇṭāś ca vividhā rājan hemagarbhāṃs tsarūn api
patataḥ patitāṃś caiva paśyāmaḥ saha sādibhiḥ
51 chinnagātrāvara karair nihataiś cāpi vāraṇaiḥ
āsīt tasmin samāstīrṇā patitair bhūnagair iva
52 vimṛdyaivaṃ mahānāgān mamardāśvān nararṣabhaḥ
aśvārohavarāṃś cāpi pātayām āsa bhārata
tad ghoram abhavad yuddhaṃ tasya teṣāṃ ca bhārata
53 khalīnāny atha yoktrāṇi kaśāś ca kanakojjvalāḥ
paristomāś ca prāsāś ca ṛṣṭayaś ca mahādhanāḥ
54 kavacāny atha carmāṇi citrāṇy āstaraṇāni ca
tatra tatrāpaviddhāni vyadṛśyanta mahāhave
55 protha yantrair vicitraiś ca śastraiś ca vimalais tathā
sacakre vasudhāṃ kīrṇāṃ śabalaiḥ kusumair iva
56 āplutya rathinaḥ kāṃś cit parāmṛśya mahābalaḥ
pātayām āsa khaḍgena sa dhvajān api pāṇḍavaḥ
57 muhur utpatato dikṣu dhāvataś ca yaśasvinaḥ
mārgāṃś ca carataś citrān vyasmayanta raṇe janāḥ
58 nijaghāna padā kāṃś cid ākṣipyānyān apothayat
khaḍgenānyāṃś ca ciccheda nādenānyāṃś ca bhīṣayan
59 ūruvegena cāpy anyān pātayām āsa bhūtale
apare cainam ālokya bhayāt pañcatvam āgatāḥ
60 evaṃ sā bahulā senā kaliṅgānāṃ tarasvinām
parivārya raṇe bhīṣmaṃ bhīmasenam upādravat
61 tataḥ kaliṅga sainyānāṃ pramukhe bharatarṣabha
śrutāyuṣam abhiprekṣya bhīmasenaḥ samabhyayāt
62 tam āyāntam abhiprekṣya kaliṅgo navabhiḥ śaraiḥ
bhīmasenam ameyātmā pratyavidhyat stanāntare
63 kaliṅga bāṇābhihatas tottrārdita iva dviṣaḥ
bhīmasenaḥ prajajvāla krodhenāgnir ivendhanaiḥ
64 athāśokaḥ samādāya rathaṃ hemapariṣkṛtam
bhīmaṃ saṃpādayām āsa rathena rathasārathiḥ
65 tam āruhya rathaṃ tūrṇaṃ kaunteyaḥ śatrusūdanaḥ
kaliṅgam abhidudrāva tiṣṭha tiṣṭheti cābravīt
66 tataḥ śrutāyur balavān bhīmāya niśitāñ śarān
preṣayām āsa saṃkruddho darśayan pāṇilāghavam
67 sa kārmukavarotsṛṣṭair navabhir niśitaiḥ śaraiḥ
samāhato bhṛśaṃ rājan kaliṅgena mahāyaśāḥ
saṃcukrudhe bhṛśaṃ bhīmo daṇḍāhata ivoragaḥ
68 kruddhaś ca cāpam āyamya balavad balināṃ varaḥ
kaliṅgam avadhīt pārtho bhīmaḥ saptabhir āyasaiḥ
69 kṣurābhyāṃ cakrarakṣau ca kaliṅgasya mahābalau
satyadevaṃ ca satyaṃ ca prāhiṇod yamasādanam
70 tataḥ punar ameyātmā nārācair niśitais tribhiḥ
ketumantaṃ raṇe bhīmo 'gamayad yamasādanam
71 tataḥ kaliṅgāḥ saṃkruddhā bhīmasenam amarṣaṇam
anīkair bahusāhasraiḥ kṣatriyāḥ samavārayan
72 tataḥ śaktigadā khaḍgatomararṣṭi paraśvadhaiḥ
kaliṅgāś ca tato rājan bhīmasenam avākiran
73 saṃnivārya sa tāṃ ghorāṃ śaravṛṣṭiṃ samutthitām
gadām ādāya tarasā pariplutya mahābalaḥ
bhīmaḥ saptaśatān vīrān anayad yamasādanam
74 punaś caiva dvisāhasrān kaliṅgān arimardanaḥ
prāhiṇon mṛtyulokāya tad adbhutam ivābhavat
75 evaṃ sa tāny anīkāni kaliṅgānāṃ punaḥ punaḥ
bibheda samare vīraḥ prekṣya bhīṣmaṃ mahāvratam
76 hatārohāś ca mātaṅgāḥ pāṇḍavena mahātmanā
viprajagmur anīkeṣu meghā vātahatā iva
mṛdantaḥ svāny anīkāni vinadantaḥ śarāturāḥ
77 tato bhīmo mahābāhuḥ śaṅkhaṃ prādhmāpayad balī
sarvakāliṅgasainyānāṃ manāṃsi samakampayat
78 mohaś cāpi kaliṅgānām āviveśa paraṃtapa
prākampanta ca sainyāni vāhanāni ca sarvaśaḥ
79 bhīmena samare rājan gajendreṇeva sarvataḥ
mārgān bahūn vicaratā dhāvatā ca tatas tataḥ
muhur utpatatā caiva saṃmohaḥ samajāyata
80 bhīmasena bhayatrastaṃ sainyaṃ ca samakampata
kṣobhyamāṇam asaṃbādhaṃ prāheṇeva mahat saraḥ
81 trāsiteṣu ca vīreṣu bhīmenādbhuta karmaṇā
punarāvartamāneṣu vidravatsu ca saṃghaśaḥ
82 sarvakāliṅgayodheṣu pāṇḍūnāṃ dhvajinīpatiḥ
abravīt svāny anīkāni yudhyadhvam iti pārṣataḥ
83 senāpativacaḥ śrutvā śikhaṇḍipramukhā gaṇāḥ
bhīmam evābhyavartanta rathānīkaiḥ prahāribhiḥ
84 dharmarājaś ca tān sarvān upajagrāha pāṇḍavaḥ
mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ
85 evaṃ saṃcodya sarvāṇi svāny anīkāni pārṣataḥ
bhīmasenasya jagrāha pārṣṇiṃ satpuruṣocitām
86 na hi pāñcālarājasya loke kaś cana vidyate
bhīma sātyakayor anyaḥ prāṇebhyaḥ priyakṛttamaḥ
87 so 'paśyat taṃ kaliṅgeṣu carantam arisūdanam
bhīmasenaṃ mahābāhuṃ pārṣataḥ paravīrahā
88 nanarda bahudhā rājan hṛṣṭaś cāsīt paraṃtapaḥ
śaṅkhaṃ dadhmau ca samare siṃhanādaṃ nanāda ca
89 sa ca pārāvatāśvasya rathe hemapariṣkṛte
kovidāradhvajaṃ dṛṣṭvā bhīmasenaḥ samāśvasat
90 dhṛṣṭadyumnas tu taṃ dṛṣṭvā kaliṅgaiḥ samabhidrutam
bhīmasenam ameyātmā trāṇāyājau samabhyayāt
91 tau dūrāt sātyakir dṛṣṭvā dhṛṣṭadyumnavṛkodarau
kaliṅgān samare vīrau yodhayantau manasvinau
92 sa tatra gatvā śaineyo javena jayatāṃ varaḥ
pārtha pārṣatayoḥ pārṣṇiṃ jagrāha puruṣarṣabhaḥ
93 sa kṛtvā kadanaṃ tatra pragṛhītaśarāsanaḥ
āsthito raudram ātmānaṃ jaghāna samare parān
94 kaliṅga prabhavāṃ caiva māṃsaśoṇitakardamām
rudhirasyandinīṃ tatra bhīmaḥ prāvartayan nadīm
95 antareṇa kaliṅgānāṃ pāṇḍavānāṃ ca vāhinīm
saṃtatāra sudustārāṃ bhīmaseno mahābalaḥ
96 bhīmasenaṃ tathā dṛṣṭvā prākrośaṃs tāvakā nṛpa
kālo 'yaṃ bhīmarūpeṇa kaliṅgaiḥ saha yudhyate
97 tataḥ śāṃtanavo bhīṣmaḥ śrutvā taṃ ninadaṃ raṇe
abhyayāt tvarito bhīmaṃ vyūḍhānīkaḥ samantataḥ
98 taṃ sātyakir bhīmaseno dhṛṣṭadyumnaś ca pārṣataḥ
abhyadravanta bhīṣmasya rathaṃ hemapariṣkṛtam
99 parivārya ca te sarve gāṅgeyaṃ rabhasaṃ raṇe
tribhis tribhiḥ śarair ghorair bhīṣmam ānarchur añjasā
100 pratyavidhyata tān sarvān pitā devavratas tava
yatamānān maheṣvāsāṃs tribhis tribhir ajihmagaiḥ
101 tataḥ śarasahasreṇa saṃnivārya mahārathān
hayān kāñcanasaṃnāhān bhīmasya nyahanac charaiḥ
102 hatāśve tu rathe tiṣṭhan bhīmasenaḥ pratāpavān
śaktiṃ cikṣepa tarasā gāṅgeyasya rathaṃ prati
103 aprāptām eva tāṃ śaktiṃ pitā devavratas tava
tridhā ciccheda samare sā pṛthivyām aśīryata
104 tataḥ śaikyāyasīṃ gurvīṃ pragṛhya balavad gadām
bhīmaseno rathā tūrṇaṃ pupluve manujarṣabha
105 sātyako 'pi tatas tūrṇaṃ bhīmasya priyakāmyayā
sārathiṃ kuruvṛddhasya pātayām āsa sāyakaiḥ
106 bhīṣmas tu nihate tasmin sārathau rathināṃ varaḥ
vātāyamānais tair aśvair apanīto raṇājirāt
107 bhīmasenas tato rājann apanīte mahāvrate
prajajvāla yathā vahnir dahan kakṣam ivaidhitaḥ
108 sa hatvā sarvakāliṅgān senā madhye vyatiṣṭhata
nainam abhyutsahan ke cit tāvakā bharatarṣabha
109 dhṛṣṭadyumnas tam āropya svarathe rathināṃ varaḥ
paśyatāṃ sarvasainyānām apovāha yaśasvinam
110 saṃpūjyamānaḥ pāñcālyair matsyaiś ca bharatarṣabha
dhṛṣṭadyumnaṃ pariṣvajya sameyād atha sātyakim
111 athābravīd bhīmasenaṃ sātyakiḥ satyavikramaḥ
praharṣayan yaduvyāghro dhṛṣṭadyumnasya paśyataḥ
112 diṣṭyā kaliṅga rājaś ca rājaputraś ca ketumān
śakradevaś ca kāliṅgaḥ kaliṅgāś ca mṛdhe hatāḥ
113 svabāhubalavīryeṇa nāgāśvarathasaṃkulaḥ
mahāvyūhaḥ kaliṅgānām ekena mṛditas tvayā
114 evam uktvā śiner naptā dīrghabāhur ariṃdamaḥ
rathād ratham abhidrutya paryaṣvajata pāṇḍavam
115 tataḥ svaratham āruhya punar eva mahārathaḥ
tāvakān avadhīt kruddho bhīmasya balam ādadhat

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

916 of 2013 Book 45% ~12 min left