Book 3: Chapter 155
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required. Get the drive $127.00

Book 3: Chapter 155

The Mahabharata in Sanskrit

Book 3
Chapter 155

1 [वै]
निहते राक्षसे तस्मिन पुनर नारायणाश्रमम
अभ्येत्य राजा कौन्तेयॊ निवासम अकरॊत परभुः
2 स समानीय तान सर्वान भरातॄन इत्य अब्रवीद वचः
दरौपद्या सहितान काले संस्मरन भरातरं जयम
3 समाश चतस्रॊ ऽभिगताः शिवेन चरतां वने
कृतॊद्देशश च बीभत्सुः पञ्चमीम अभितः समाम
4 पराप्य पर्वतराजानं शवेतं शिखरिणां वरम
तत्रापि च कृतॊद्देशः समागमदिदृक्षुभिः
5 कृतश च समयस तेन पार्थेनामित तेजसा
पञ्चवर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि
6 तत्र गाण्डीवधन्वानम अवाप्तास्त्रम अरिंदमम
देवलॊकाद इमं लॊकं दरक्ष्यामः पुनरागतम
7 इत्य उक्त्वा बराह्मणान सर्वान आमन्त्रयत पाण्डवः
कारणं चैव तत तेषाम आचचक्षे तपस्विनाम
8 तम उग्रतपसः परीताः कृत्वा पार्थं परदक्षिणम
बराह्मणास ते ऽनवमॊदन्त शिवेन कुशलेन च
9 सुखॊदर्कम इमं कलेशम अचिराद भरतर्षभ
कषत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि
10 तत तु राजा वचस तेषां परतिगृह्य तपस्विनाम
परतस्थे सह विप्रैस तैर भरातृभिश च परंतपः
11 दरौपद्या सहितः शरीमान हैडिम्बेयादिभिस तथा
राक्षसैर अनुयातश च लॊमशेनाभिरक्षितः
12 कव चिज जगाम पद्भ्यां तु राक्षसैर उह्यते कव चित
तत्र तत्र महातेजा भरातृभिः सह सुव्रतः
13 ततॊ युधिष्ठिरॊ राजा बहून कलेशान विचिन्तयन
सिंहव्याघ्र गजाकीर्णाम उदीचीं परययौ दिशम
14 अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम
गन्धमादन पादांश च मेरुं चापि शिलॊच्चयम
15 उपर्य उपरि शैलस्य बह्वीश च सरितः शिवाः
परस्थं हिमवतः पुण्यं ययौ सप्त दशे ऽहनि
16 ददृशुः पाण्डवा राजन गन्धमादनम अन्तिकात
पृष्ठे हिमवतः पुण्ये नानाद्रुमलता युते
17 सलिलावर्त संजातैः पुष्पितैश च महीरुहैः
समावृतं पुण्यतमम आश्रमं वृषपर्वणः
18 तम उपक्रम्य राजर्षिं धर्मात्मानम अरिंदमाः
पाण्डवा वृषपर्वाणम अवन्दन्त गतक्लमाः
19 अभ्यनन्दत स राजर्षिः पुत्रवद भरतर्षभान
पूजिताश चावसंस तत्र सप्तरात्रम अरिंदमाः
20 अष्टमे ऽहनि संप्राप्ते तम ऋषिं लॊकविश्रुतम
आमन्त्र्य वृषपर्वाणं परस्थानं समरॊचयन
21 एकैकशश च तान विप्रान निवेद्य वृषपर्वणे
नयासभूतान यथाकालं बन्धून इव सुसत्कृतान
22 ततस ते वरवस्त्राणि शुभान्य आभरणानि च
नयदधुः पाण्डवास तस्मिन्न आश्रमे वृषपर्वणः
23 अतीतानागते विद्वान कुशलः सर्वधर्मवित
अन्वशासत स धर्मज्ञः पुत्रवद भरतर्षभान
24 ते ऽनुज्ञाता महात्मानः परययुर दिशम उत्तराम
कृष्णया सहिता वीरा बराह्मणैश च महात्मभिः
तान परस्थितान अन्वगच्छद वृषपर्वा महीपतिः
25 उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस तदा
अनुसंसाध्य कौन्तेयान आशीर्भिर अभिनन्द्य च
वृषपर्वा निववृते पन्थानम उपदिश्य च
26 नानामृगगणैर जुष्टं कौन्तेयः सत्यविक्रमः
पदातिर भरातृभिः सार्धं परातिष्ठत युधिष्ठिरः
27 नानाद्रुमनिरॊधेषु वसन्तः शैलसानुषु
पर्वतं विविशुः शवेतं चतुर्थे ऽहनि पाण्डवाः
28 महाभ्रघनसंकाशं सलिलॊपहितं शुभम
मणिकाञ्चनरम्यं च शैलं नाना समुच्छ्रयम
29 ते समासाद्य पन्थानं यथॊक्तं वृषपर्वणा
अनुसस्रुर यथॊद्देशं पश्यन्तॊ विविधान नगान
30 उपर्य उपरि शैलस्य गुहा परमदुर्गमाः
सुदुर्गमांस ते सुबहून सुखेनैवाभिचक्रमुः
31 धौम्यः कृष्णा च पार्थाश च लॊमशश च महान ऋषिः
अगमन सहितास तत्र न कश चिद अवहीयते
32 ते मृगद्विजसंघुष्टं नानाद्विज समाकुलम
शाखामृगगणैश चैव सेवितं सुमनॊहरम
33 पुण्यं पद्मसरॊपेतं सपल्वल महावनम
उपतस्थुर महावीर्या माल्यवन्तं महागिरिम
34 ततः किंपुरुषावासं सिद्धचारणसेवितम
ददृशुर हृष्टरॊमाणः पर्वतं गन्धमादनम
35 विद्याधरानुचरितं किंनरीभिस तथैव च
गजसिंहसमाकीर्णम उदीर्णशरभायुतम
36 उपेतम अन्यैश च तदा मृगैर मृदु निनादिभिः
ते गन्धमादन वनं तन नन्दनवनॊपम
37 मुदिताः पाण्डुतनया मनॊ हृदयनन्दनम
विविशुः करमशॊ वीरा अरण्यं शुभकाननम
38 दरौपदी सहिता वीरास तैश च विप्रैर महात्मभिः
शृण्वन्तः परीतिजननान वल्गून मदकलाञ शुभान
शरॊत्ररम्यान सुमधुराञ शब्दान खग मुखेरितान
39 सर्वर्तुफलभाराढ्यान सर्वर्तुकुसुमॊज्ज्वलान
पश्यन्तः पादपांश चापि फलभार वनामितान
40 आम्रान आम्रातकान फुल्लान नारिकेलान सतिन्दुकान
अजातकांस तथा जीरान दाडिमान बीजपूरकान
41 पनसाँल लिकुचान मॊचान खर्जूरान आम्रवेतसान
पारावतांस तथा कषौद्रान नीपांश चापि मनॊरमान
42 बिल्वान कपित्थाञ जम्बूंश च काश्मरीर बदरीस तथा
लपक्षान उदुम्बर वटान अश्वत्थान कषीरिणस तथा
भल्लातकान आमकलान हरीतकबिभीतकान
43 इङ्गुदान करवीरांश च तिन्दुकांश च महाफलान
एतान अन्यांश च विविधान गन्धमादन सानुषु
44 फलैर अमृतकल्पैस तान आचितान सवादुभिस तरून
तथैव चम्पकाशॊकान केतकान बकुलांस तथा
45 पुंनागान सप्तपर्णांश च कर्णिकारान सकेतकान
पाटलान कुटजान रम्यान मन्दारेन्दीवरांस तथा
46 पारिजातान कॊविदारान देवदारु तरूंस तथा
शालांस तालांस तमालांश च परियालान बकुलांस तथा
शाल्मलीः किंशुकाशॊकां शिंशपांस तरलांस तथा
47 चकॊरैः शतपत्रैश च भृङ्गराजैस तथा शुकैः
कॊकिलैः कलविङ्कैश च हारीतैर जीव जीवकैः
48 परियव्रतैश चातकैश च तथान्यैर विविधैः खगैः
शरॊत्ररम्यं सुमधुरं कूजद्भिश चाप्य अधिष्ठितान
49 सरांसि च विचित्राणि परसन्नसलिलानि च
कुमुदैः पुण्डरीकैश च तथा कॊकनदॊत्पलैः
कह्लारैः कमलैश चैव आचितानि समन्ततः
50 कदम्बैश चक्रवाकैश च कुररैर जलकुक्कुटैः
कारण्डवैः पलवैर हंसैर बकैर मद्गुभिर एव च
एतैश चान्यैश च कीर्णानि समन्ताज जलचारिभिः
51 हृष्टैस तथा तामरस रसासव मदालसैः
पद्मॊदर चयुत रजः किञ्जल्कारुण रञ्जितैः
52 मधुरस्वरैर मधुकरैर विरुतान कमलाकरान
पश्यन्तस ते मनॊरम्यान गन्धमादन सानुषु
53 तथैव पद्मषण्डैश च मण्डितेषु समन्ततः
शिखण्डिनीभिः सहिताँल लता मण्डपकेषु च
मेघतूर्य रवॊद्दाम मदनाकुलितान भृशम
54 कृत्वैव केका मधुरं संगीत मधुरस्वरम
चित्रान कलापान विस्तीर्य सविलासान मदालसान
मयूरान ददृशुश चित्रान नृत्यतॊ वनलासकान
55 कान्ताभिः सहितान अन्यान अपश्यन रमतः सुखम
वल्ली लता संकटेषु कटकेषु सथितांस तथा
56 कांश चिच छकुन जातांश च विटपेषूत्कटान अपि
कलाप रचिताटॊपान विचित्रमुकुटान इव
विवरेषु तरूणां च मुदितान ददृशुश च ते
57 सिन्धुवारान अथॊद्दामान मन्मथस्येव तॊमरान
सुवर्णकुसुमाकीर्णान गिरीणां शिखरेषु च
58 कर्णिकारान विरचितान कर्ण पूरान इवॊत्तमान
अथापश्यन कुरबकान वनराजिषु पुष्पितान
कामवश्यॊत्सुक करान कामस्येव शरॊत्करान
59 तथैव वनराजीनाम उदारान रचितान इव
विराजमानांस ते ऽपश्यंस तिलकांस तिलकान इव
60 तथानङ्ग शराकारान सहकारान मनॊरमान
अपश्यन भरमरारावान मञ्जरीभिर विराजितान
61 हिरण्यसदृशैः पुष्पैर दावाग्निसदृशैर अपि
लॊहितैर अञ्जनाभैश च वैडूर्य ददृशैर अपि
62 तथा शालांस तमालांश च पाटल्यॊ बकुलानि च
माला इव समासक्ताः शैलानां शिखरेषु च
63 एवं करमेण ते वीरा वीक्षमाणाः समन्ततः
गजसंघ समाबाधं सिंहव्याघ्र समायुतम
64 शरभॊन्नाद संघुष्टं नानाराव निनादितम
सर्वर्तुफलपुष्पाढ्यं गन्धमादन सानुषु
65 पीता भास्वरवर्णाभा बभूवुर नरराजयः
नात्र कण्टकिनः के चिन नात्र के चिद अपुष्पिताः
सनिग्धपत्र फला वृक्षा गन्धमादन सानुषु
66 विमलस्फटिकाभानि पाण्डुरछदनैर दविजैः
राजहंसैर उपेतानि सारसाभिरुतानि च
सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु
67 पद्मॊत्पलविचित्राणि सुखस्पर्श जलानि च
गन्धवन्ति च माल्यानि रसवन्ति फलानि च
अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु
68 एते चान्ये च बहवस तत्र काननजा दरुमाः
लताश च विविधाकाराः पत्रपुष्पफलॊच्चयाः
69 युधिष्ठिरस तु तान वृक्षान पश्यमानॊ नगॊत्तमे
भीमसेनम इदं वाक्यम अब्रवीन मधुराक्षरम
70 पश्य भीम शुभान देशान देवाक्रीडान समन्ततः
अमानुष गतिं पराप्ताः संसिद्धाः सम वृकॊदर
71 ललाभिश चैव बह्वीभिः पुष्पिताः पादपॊत्तमाः
संश्लिष्टाः पार्थ शॊभन्ते गन्धमादन सानुषु
72 शिखण्डिनीभिश चरतां सहितानां शिखण्डिनाम
नर्दतां शृणु निर्घॊषं भीम पर्वतसानुषु
73 चकॊराः शतपत्राश च मत्तकॊकिल शारिकाः
पत्रिणः पुष्पितान एतान संश्लिष्यन्ति महाद्रुमान
74 रक्तपीतारुणाः पार्थ पादपाग्र गता दविजाः
परस्परम उदीक्षन्ते बहवॊ जीव जीवकाः
75 हरितारुणवर्णानां शाद्वलानां समन्ततः
सारसाः परतिदृश्यन्ते शैलप्रस्रवणेष्व अपि
76 वदन्ति मधुरा वाचः सर्वभूतमनॊ ऽनुगाः
भृङ्गराजॊपचक्राश च लॊहपृष्ठाश च पत्रिणः
77 चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः
एते वैडूर्य वर्णाभं कषॊभयन्ति महत सरः
78 बहुतालसमुत्सेधाः शैलशृङ्गात परिच्युताः
नाना परस्रवणेभ्यश च वारिधाराः पतन्त्य अमूः
79 भास्कराभ परभा भीम शारदाभ्रघनॊपमाः
शॊभयन्ति महाशैलं नाना रजतधातवः
80 कव चिद अञ्जन वर्णाभाः कव चित काञ्चनसंनिभाः
धातवॊ हरितालस्य कवचिद धि गुलकस्य च
81 मनःशिला गुहाश चैव संध्याभ्रनिकरॊपमाः
शशलॊहित वर्णाभाः कव चिद गौरिक धातवः
82 सितासिताभ्र परतिमा बालसूर्यसमप्रभाः
एते बहुविधाः शैलं शॊभयन्ति महाप्रभाः
83 गन्धर्वाः सह कान्ताहिर यथॊक्तं वृषपर्वणा
दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह
84 गीतानां तलतालानां यथा साम्नां च निस्वनः
शरूयते बहुधा भीम सर्वभूतमनॊहरः
85 महागङ्गाम उदीक्षस्व पुण्यां देव नदीं शुभाम
कलहंस गणैर जुष्टाम ऋषिकिंनरसेविताम
86 धातुभिश च सरिद्भिश च किंनरैर मृगपक्षिभिः
गन्धर्वैर अप्सरॊभिश च कानकैश च मनॊरमैः
87 वयालैश च विविधाकारैः शतशीर्षैः समन्ततः
उपेतं पश्य कौन्तेय शैलराजम अरिंदम
88 ते परीतमनसः शूराः पराप्ता गतिम अनुत्तमाम
नातृप्यन पर्ततेन्द्रस्य दर्शनेन परंतपाः
89 उपेतम अथ माल्यैश च फलवद्भिश च पादपैः
आर्ष्टिषेणस्य राजर्षेर आश्रमं ददृशुस तदा
90 ततस तं तीव्रतपसं कृशं धमनि संततम
पारगं सर्वधर्माणाम आर्ष्टिषेणम उपागमन
1 [vai]
nihate rākṣase tasmin punar nārāyaṇāśramam
abhyetya rājā kaunteyo nivāsam akarot prabhuḥ
2 sa samānīya tān sarvān bhrātṝn ity abravīd vacaḥ
draupadyā sahitān kāle saṃsmaran bhrātaraṃ jayam
3 samāś catasro 'bhigatāḥ śivena caratāṃ vane
kṛtoddeśaś ca bībhatsuḥ pañcamīm abhitaḥ samām
4 prāpya parvatarājānaṃ śvetaṃ śikhariṇāṃ varam
tatrāpi ca kṛtoddeśaḥ samāgamadidṛkṣubhiḥ
5 kṛtaś ca samayas tena pārthenāmita tejasā
pañcavarṣāṇi vatsyāmi vidyārthīti purā mayi
6 tatra gāṇḍīvadhanvānam avāptāstram ariṃdamam
devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam
7 ity uktvā brāhmaṇān sarvān āmantrayata pāṇḍavaḥ
kāraṇaṃ caiva tat teṣām ācacakṣe tapasvinām
8 tam ugratapasaḥ prītāḥ kṛtvā pārthaṃ pradakṣiṇam
brāhmaṇās te 'nvamodanta śivena kuśalena ca
9 sukhodarkam imaṃ kleśam acirād bharatarṣabha
kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi
10 tat tu rājā vacas teṣāṃ pratigṛhya tapasvinām
pratasthe saha viprais tair bhrātṛbhiś ca paraṃtapaḥ
11 draupadyā sahitaḥ śrīmān haiḍimbeyādibhis tathā
rākṣasair anuyātaś ca lomaśenābhirakṣitaḥ
12 kva cij jagāma padbhyāṃ tu rākṣasair uhyate kva cit
tatra tatra mahātejā bhrātṛbhiḥ saha suvrataḥ
13 tato yudhiṣṭhiro rājā bahūn kleśān vicintayan
siṃhavyāghra gajākīrṇām udīcīṃ prayayau diśam
14 avekṣamāṇaḥ kailāsaṃ mainākaṃ caiva parvatam
gandhamādana pādāṃś ca meruṃ cāpi śiloccayam
15 upary upari śailasya bahvīś ca saritaḥ śivāḥ
prasthaṃ himavataḥ puṇyaṃ yayau sapta daśe 'hani
16 dadṛśuḥ pāṇḍavā rājan gandhamādanam antikāt
pṛṣṭhe himavataḥ puṇye nānādrumalatā yute
17 salilāvarta saṃjātaiḥ puṣpitaiś ca mahīruhaiḥ
samāvṛtaṃ puṇyatamam āśramaṃ vṛṣaparvaṇaḥ
18 tam upakramya rājarṣiṃ dharmātmānam ariṃdamāḥ
pāṇḍavā vṛṣaparvāṇam avandanta gataklamāḥ
19 abhyanandat sa rājarṣiḥ putravad bharatarṣabhān
pūjitāś cāvasaṃs tatra saptarātram ariṃdamāḥ
20 aṣṭame 'hani saṃprāpte tam ṛṣiṃ lokaviśrutam
āmantrya vṛṣaparvāṇaṃ prasthānaṃ samarocayan
21 ekaikaśaś ca tān viprān nivedya vṛṣaparvaṇe
nyāsabhūtān yathākālaṃ bandhūn iva susatkṛtān
22 tatas te varavastrāṇi śubhāny ābharaṇāni ca
nyadadhuḥ pāṇḍavās tasminn āśrame vṛṣaparvaṇaḥ
23 atītānāgate vidvān kuśalaḥ sarvadharmavit
anvaśāsat sa dharmajñaḥ putravad bharatarṣabhān
24 te 'nujñātā mahātmānaḥ prayayur diśam uttarām
kṛṣṇayā sahitā vīrā brāhmaṇaiś ca mahātmabhiḥ
tān prasthitān anvagacchad vṛṣaparvā mahīpatiḥ
25 upanyasya mahātejā viprebhyaḥ pāṇḍavāṃs tadā
anusaṃsādhya kaunteyān āśīrbhir abhinandya ca
vṛṣaparvā nivavṛte panthānam upadiśya ca
26 nānāmṛgagaṇair juṣṭaṃ kaunteyaḥ satyavikramaḥ
padātir bhrātṛbhiḥ sārdhaṃ prātiṣṭhata yudhiṣṭhiraḥ
27 nānādrumanirodheṣu vasantaḥ śailasānuṣu
parvataṃ viviśuḥ śvetaṃ caturthe 'hani pāṇḍavāḥ
28 mahābhraghanasaṃkāśaṃ salilopahitaṃ śubham
maṇikāñcanaramyaṃ ca śailaṃ nānā samucchrayam
29 te samāsādya panthānaṃ yathoktaṃ vṛṣaparvaṇā
anusasrur yathoddeśaṃ paśyanto vividhān nagān
30 upary upari śailasya guhā paramadurgamāḥ
sudurgamāṃs te subahūn sukhenaivābhicakramuḥ
31 dhaumyaḥ kṛṣṇā ca pārthāś ca lomaśaś ca mahān ṛṣiḥ
agaman sahitās tatra na kaś cid avahīyate
32 te mṛgadvijasaṃghuṣṭaṃ nānādvija samākulam
śākhāmṛgagaṇaiś caiva sevitaṃ sumanoharam
33 puṇyaṃ padmasaropetaṃ sapalvala mahāvanam
upatasthur mahāvīryā mālyavantaṃ mahāgirim
34 tataḥ kiṃpuruṣāvāsaṃ siddhacāraṇasevitam
dadṛśur hṛṣṭaromāṇaḥ parvataṃ gandhamādanam
35 vidyādharānucaritaṃ kiṃnarībhis tathaiva ca
gajasiṃhasamākīrṇam udīrṇaśarabhāyutam
36 upetam anyaiś ca tadā mṛgair mṛdu ninādibhiḥ
te gandhamādana vanaṃ tan nandanavanopama
37 muditāḥ pāṇḍutanayā mano hṛdayanandanam
viviśuḥ kramaśo vīrā araṇyaṃ śubhakānanam
38 draupadī sahitā vīrās taiś ca viprair mahātmabhiḥ
śṛṇvantaḥ prītijananān valgūn madakalāñ śubhān
śrotraramyān sumadhurāñ śabdān khaga mukheritān
39 sarvartuphalabhārāḍhyān sarvartukusumojjvalān
paśyantaḥ pādapāṃś cāpi phalabhāra vanāmitān
40 āmrān āmrātakān phullān nārikelān satindukān
ajātakāṃs tathā jīrān dāḍimān bījapūrakān
41 panasāṁl likucān mocān kharjūrān āmravetasān
pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān
42 bilvān kapitthāñ jambūṃś ca kāśmarīr badarīs tathā
lpakṣān udumbara vaṭān aśvatthān kṣīriṇas tathā
bhallātakān āmakalān harītakabibhītakān
43 iṅgudān karavīrāṃś ca tindukāṃś ca mahāphalān
etān anyāṃś ca vividhān gandhamādana sānuṣu
44 phalair amṛtakalpais tān ācitān svādubhis tarūn
tathaiva campakāśokān ketakān bakulāṃs tathā
45 puṃnāgān saptaparṇāṃś ca karṇikārān saketakān
pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā
46 pārijātān kovidārān devadāru tarūṃs tathā
śālāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā
śālmalīḥ kiṃśukāśokāṃ śiṃśapāṃs taralāṃs tathā
47 cakoraiḥ śatapatraiś ca bhṛṅgarājais tathā śukaiḥ
kokilaiḥ kalaviṅkaiś ca hārītair jīva jīvakaiḥ
48 priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ
śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpy adhiṣṭhitān
49 sarāṃsi ca vicitrāṇi prasannasalilāni ca
kumudaiḥ puṇḍarīkaiś ca tathā kokanadotpalaiḥ
kahlāraiḥ kamalaiś caiva ācitāni samantataḥ
50 kadambaiś cakravākaiś ca kurarair jalakukkuṭaiḥ
kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca
etaiś cānyaiś ca kīrṇāni samantāj jalacāribhiḥ
51 hṛṣṭais tathā tāmarasa rasāsava madālasaiḥ
padmodara cyuta rajaḥ kiñjalkāruṇa rañjitaiḥ
52 madhurasvarair madhukarair virutān kamalākarān
paśyantas te manoramyān gandhamādana sānuṣu
53 tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ
śikhaṇḍinībhiḥ sahitāṁl latā maṇḍapakeṣu ca
meghatūrya ravoddāma madanākulitān bhṛśam
54 kṛtvaiva kekā madhuraṃ saṃgīta madhurasvaram
citrān kalāpān vistīrya savilāsān madālasān
mayūrān dadṛśuś citrān nṛtyato vanalāsakān
55 kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham
vallī latā saṃkaṭeṣu kaṭakeṣu sthitāṃs tathā
56 kāṃś cic chakuna jātāṃś ca viṭapeṣūtkaṭān api
kalāpa racitāṭopān vicitramukuṭān iva
vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te
57 sindhuvārān athoddāmān manmathasyeva tomarān
suvarṇakusumākīrṇān girīṇāṃ śikhareṣu ca
58 karṇikārān viracitān karṇa pūrān ivottamān
athāpaśyan kurabakān vanarājiṣu puṣpitān
kāmavaśyotsuka karān kāmasyeva śarotkarān
59 tathaiva vanarājīnām udārān racitān iva
virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva
60 tathānaṅga śarākārān sahakārān manoramān
apaśyan bhramarārāvān mañjarībhir virājitān
61 hiraṇyasadṛśaiḥ puṣpair dāvāgnisadṛśair api
lohitair añjanābhaiś ca vaiḍūrya dadṛśair api
62 tathā śālāṃs tamālāṃś ca pāṭalyo bakulāni ca
mālā iva samāsaktāḥ śailānāṃ śikhareṣu ca
63 evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ
gajasaṃgha samābādhaṃ siṃhavyāghra samāyutam
64 śarabhonnāda saṃghuṣṭaṃ nānārāva nināditam
sarvartuphalapuṣpāḍhyaṃ gandhamādana sānuṣu
65 pītā bhāsvaravarṇābhā babhūvur nararājayaḥ
nātra kaṇṭakinaḥ ke cin nātra ke cid apuṣpitāḥ
snigdhapatra phalā vṛkṣā gandhamādana sānuṣu
66 vimalasphaṭikābhāni pāṇḍurachadanair dvijaiḥ
rājahaṃsair upetāni sārasābhirutāni ca
sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu
67 padmotpalavicitrāṇi sukhasparśa jalāni ca
gandhavanti ca mālyāni rasavanti phalāni ca
atīva vṛkṣā rājante puṣpitāḥ śailasānuṣu
68 ete cānye ca bahavas tatra kānanajā drumāḥ
latāś ca vividhākārāḥ patrapuṣpaphaloccayāḥ
69 yudhiṣṭhiras tu tān vṛkṣān paśyamāno nagottame
bhīmasenam idaṃ vākyam abravīn madhurākṣaram
70 paśya bhīma śubhān deśān devākrīḍān samantataḥ
amānuṣa gatiṃ prāptāḥ saṃsiddhāḥ sma vṛkodara
71 lalābhiś caiva bahvībhiḥ puṣpitāḥ pādapottamāḥ
saṃśliṣṭāḥ pārtha śobhante gandhamādana sānuṣu
72 śikhaṇḍinībhiś caratāṃ sahitānāṃ śikhaṇḍinām
nardatāṃ śṛṇu nirghoṣaṃ bhīma parvatasānuṣu
73 cakorāḥ śatapatrāś ca mattakokila śārikāḥ
patriṇaḥ puṣpitān etān saṃśliṣyanti mahādrumān
74 raktapītāruṇāḥ pārtha pādapāgra gatā dvijāḥ
parasparam udīkṣante bahavo jīva jīvakāḥ
75 haritāruṇavarṇānāṃ śādvalānāṃ samantataḥ
sārasāḥ pratidṛśyante śailaprasravaṇeṣv api
76 vadanti madhurā vācaḥ sarvabhūtamano 'nugāḥ
bhṛṅgarājopacakrāś ca lohapṛṣṭhāś ca patriṇaḥ
77 caturviṣāṇāḥ padmābhāḥ kuñjarāḥ sakareṇavaḥ
ete vaiḍūrya varṇābhaṃ kṣobhayanti mahat saraḥ
78 bahutālasamutsedhāḥ śailaśṛṅgāt paricyutāḥ
nānā prasravaṇebhyaś ca vāridhārāḥ patanty amūḥ
79 bhāskarābha prabhā bhīma śāradābhraghanopamāḥ
śobhayanti mahāśailaṃ nānā rajatadhātavaḥ
80 kva cid añjana varṇābhāḥ kva cit kāñcanasaṃnibhāḥ
dhātavo haritālasya kvacid dhi gulakasya ca
81 manaḥśilā guhāś caiva saṃdhyābhranikaropamāḥ
śaśalohita varṇābhāḥ kva cid gaurika dhātavaḥ
82 sitāsitābhra pratimā bālasūryasamaprabhāḥ
ete bahuvidhāḥ śailaṃ śobhayanti mahāprabhāḥ
83 gandharvāḥ saha kāntāhir yathoktaṃ vṛṣaparvaṇā
dṛśyante śailaśṛṅgeṣu pārtha kiṃpuruṣaiḥ saha
84 gītānāṃ talatālānāṃ yathā sāmnāṃ ca nisvanaḥ
śrūyate bahudhā bhīma sarvabhūtamanoharaḥ
85 mahāgaṅgām udīkṣasva puṇyāṃ deva nadīṃ śubhām
kalahaṃsa gaṇair juṣṭām ṛṣikiṃnarasevitām
86 dhātubhiś ca saridbhiś ca kiṃnarair mṛgapakṣibhiḥ
gandharvair apsarobhiś ca kānakaiś ca manoramaiḥ
87 vyālaiś ca vividhākāraiḥ śataśīrṣaiḥ samantataḥ
upetaṃ paśya kaunteya śailarājam ariṃdama
88 te prītamanasaḥ śūrāḥ prāptā gatim anuttamām
nātṛpyan partatendrasya darśanena paraṃtapāḥ
89 upetam atha mālyaiś ca phalavadbhiś ca pādapaiḥ
ārṣṭiṣeṇasya rājarṣer āśramaṃ dadṛśus tadā
90 tatas taṃ tīvratapasaṃ kṛśaṃ dhamani saṃtatam
pāragaṃ sarvadharmāṇām ārṣṭiṣeṇam upāgaman

Read ad-free with unlimited highlights, bookmarks, and annotations. $5/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

455 of 2013 Book 23% ~10 min left