Book 12: Chapter 139
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required.
Get the drive $127.00

Book 12: Chapter 139

The Mahabharata in Sanskrit

Book 12
Chapter 139

1 [य]
हीने परमके धर्मे सर्वलॊकातिलङ्घिनि
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते
2 मर्यादासु परभिन्नासु कषुभिते धर्मनिश्चये
राजभिः पीडिते लॊके चॊरैर वापि विशां पते
3 सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च
कामान मॊहाच च लॊभाच च भयं पश्यत्सु भारत
4 अविश्वस्तेषु सर्वेषु नित्यभीतेषु पार्थिव
निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम
5 संप्रदीप्तेषु देशेषु बराह्मण्ये चाभिपीडिते
अवर्षति च पर्जन्ये मिथॊ भेदे समुत्थिते
6 सर्वस्मिन दस्यु साद्भूते पृथिव्याम उपजीवने
केन सविद बराह्मणॊ जीवेज जघन्ये काल आगते
7 अतित्यक्षुः पुत्रपौत्रान अनुक्रॊशान नराधिप
कथम आपत्सु वर्तेत तन मे बरूहि पितामह
8 कथं च राजा वर्तेत लॊके कलुषतां गते
कथम अर्थाच च धर्माच च न हीयेत परंतप
9 [भ]
राजमूला महाराज यॊगक्षेम सुवृष्टयः
परजासु वयाधयश चैव मरणं च भयानि च
10 कृतं तरेता दवापरश च कलिश च भरतर्षभ
राजमूलानि सर्वाणि मम नास्त्य अत्र संशयः
11 तस्मिंस तव अभ्यागते काले परजानां दॊषकारके
विज्ञानबलम आस्थाय जीवितव्यं तदा भवेत
12 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे
13 तरेता दवापरयॊः संधौ पुरा दैवविधिक्रमात
अनावृष्टिर अभूद घॊरा राजन दवादश वार्षिकी
14 परजानाम अभिवृद्धानां युगान्ते पर्युपस्थिते
तरेता निर्मॊक्ष समये दवापरप्रतिपादने
15 न ववर्ष सहस्राक्षः परतिलॊमॊ ऽभवद गुरुः
जगाम दक्षिणं मार्गं सॊमॊ वयावृत्तलक्षणः
16 नावश्यायॊ ऽपि रात्र्यन्ते कुत एवाभ्र राजयः
नद्यः संक्षिप्ततॊयौघाः कव चिद अन्तर्गताभवन
17 सरांसि सरितश चैव कूपाः परस्रवणानि च
हतत्विट्कान्य अलक्ष्यन्त निसर्गाद दैवकारितात
18 उपशुष्क जलस्थाया विनिवृत्तसभा परपा
निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला
19 उत्सन्नकृषि गॊरक्ष्या निवृत्तविपणापणा
निवृत्तपूगसमया संप्रनष्ट महॊत्सवा
20 अस्थि कङ्काल संकीर्णा हाहाभूतजनाकुला
शून्यभूयिष्ठ नगरा दग्धग्राम निवेशना
21 कव चिच चॊरैः कव चिच छस्त्रैः कव चिद राजभिर आतुरैः
परस्परभयाच चैव शून्यभूयिष्ठ निर्जना
22 गतदैवतसंकल्पा वृद्धबाल विनाकृता
गॊजावि महिषैर हीना परस्परहरा हरा
23 हतविप्रा हता रक्षा परनष्टौषधि संचया
शयाव भूतनरप्राया बभूव वसुधा तदा
24 तस्मिन परतिभये काले कषीणे धर्मे युधिष्ठिर
बभ्रमुः कषुधिता मर्त्याः खादन्तः सम परस्परम
25 ऋषयॊ नियमांस तयक्त्वा परित्यक्ताग्निदैवताः
आश्रमान संपरित्यज्य पर्यधावन्न इतस ततः
26 विश्वामित्रॊ ऽथ भगवान महर्षिर अनिकेतनः
कषुधा परिगतॊ धीमान समन्तात पर्यधावत
27 स कदा चित परिपतञ शवपचानां निवेशनम
हिंस्राणां पराणिहन्तॄणाम आससाद वने कव चित
28 विभिन्नकलशाकीर्णं शवचर्माच्छादनायुतम
वराहखरभग्नास्थि कपालघट संकुलम
29 मृतचेल परिस्तीर्णं निर्माल्य कृतभूषणम
सर्पनिर्मॊक मालाभिः कृतचिह्नकुटी मठम
30 उलूक पक्षध्वजिभिर देवतायतनैर वृतम
लॊहघण्टा परिष्कारं शवयूथपरिवारितम
31 तत परविश्य कषुधाविष्टॊ गाधेः पुत्रॊ महान ऋषिः
आहारान्वेषणे युक्तः परं यत्नं समास्थितः
32 न च कव चिद अविन्दत स भिक्षमाणॊ ऽपि कौशिकः
मांसम अन्नं मूलफलम अन्यद वा तत्र किं चन
33 अहॊ कृच्छ्रं मया पराप्तम इति निश्चित्य कौशिकः
पपात भूमौ दौर्बाल्यात तस्मिंश चण्डाल पक्कणे
34 चिन्तयाम आस स मुनिः किं नु मे सुकृतं भवेत
कथं वृथा न मृत्युः सयाद इति पार्थिव सत्तम
35 स ददर्श शवमांसस्य कुतन्तीं विततां मुनिः
चण्डालस्य गृहे राजन सद्यः शस्त्रहतस्य च
36 स चिन्तयाम आस तदा सतेयं कार्यम इतॊ मया
न हीदानीम उपायॊ ऽनयॊ विद्यते पराणधारणे
37 आपत्सु विहितं सतेयं विशिष्ट समहीनतः
परं परं भवेत पूर्वम अस्तेयम इति निश्चयः
38 हीनाद आदेयम आदौ सयात समानात तदनन्तरम
असंभवाद आददीत विशिष्टाद अपि धार्मिकात
39 सॊ ऽहम अन्तावसानानां हरमाणः परिग्रहात
न सतेय दॊषं पश्यामि हरिष्याम एतद आमिषम
40 एतां बुद्धिं समास्थाय विश्वामित्रॊ महामुनिः
तस्मिन देशे परसुष्वाप पतितॊ यत्र भारत
41 स विगाढां निशां दृष्ट्वा सुप्ते चण्डाल पक्कणे
शनैर उत्थाय भगवान परविवेश कुटी मठम
42 स सुप्त एव चण्डालः शरेष्मापिहित लॊचनः
परिभिन्न सवरॊ रूक्ष उवाचाप्रिय दर्शनः
43 कः कुतन्तीं घट्टयति सुप्ते चण्डाल पक्कणे
जागर्मि नावसुप्तॊ ऽसमि हतॊ ऽसीति च दारुणः
44 विश्वामित्रॊ ऽहम इत्य एव सहसा तम उवाच सः
सहसाभ्यागत भयः सॊद्वेगस तेन कर्मणा
45 चण्डालस तद वचः शरुत्वा महर्षेर भावितात्मनः
शयनाद उपसंभ्रान्त इयेषॊत्पतितुं ततः
46 स विसृज्याश्रु नेत्राभ्यां बहुमानात कृताञ्जलिः
उवाच कौशिकं रात्रौ बरह्मन किं ते चिकीर्षितम
47 विश्वामित्रस तु मातङ्गम उवाच परिसान्त्वयन
कषुधितॊ ऽहं गतप्राणॊ हरिष्यामि शवजाघनीम
48 अवसीदन्ति मे पराणाः समृतिर मे नश्यति कषुधा
सवधर्मं बुध्यमानॊ ऽपि हरिष्यामि शवजाघनीम
49 अटन भैक्षं न विन्दामि यदा युष्माकम आलये
तदा बुद्धिः कृता पापे हरिष्यामि शवजाघनीम
50 तृषितः कलुषं पाता नास्ति हरीर अशनार्थिनः
कषुद धर्मं दूषयत्य अत्र हरिष्यामि शवजाघनीम
51 अग्निर मुखं पुरॊधाश च देवानां शुचि पाद विभुः
यथा स सर्वभुग बरह्मा तथा मां विद्धि धर्मतः
52 तम उवाच स चण्डालॊ महर्षे शृणु मे वचः
शरुत्वा तथा समातिष्ठ यथा धर्मान न हीयसे
53 मृगाणाम अधमं शवानं परवदन्ति मनीषिणः
तस्याप्य अधम उद्देशः शरीरस्यॊरु जाघनी
54 नेदं सम्यग वयवसितं महर्षे कर्म वैकृतम
चण्डाल सवस्य हरणम अभक्ष्यस्य विशेषतः
55 साध्व अन्यम अनुपश्य तवम उपायं पराणधारणे
न मांसलॊभात तपसॊ नाशस ते सयान महामुने
56 जानतॊ ऽविहितॊ मार्गॊ न कार्यॊ धर्मसंकरः
मा सम धर्मं परित्याक्षीस तवं हि धर्मविद उत्तमः
57 विश्वामित्रस ततॊ राजन्न इत्य उक्तॊ भरतर्षभ
कषुधार्तः परत्युवाचेदं पुनर एव महामुनिः
58 निराहारस्य सुमहान मम कालॊ ऽभिधावतः
न विद्यते ऽभयुपायश च कश चिन मे पराणधारणे
59 येन तेन विशेषेण कर्मणा येन केन चित
अभ्युज्जीवेत सीदमानः समर्थॊ धर्मम आचरेत
60 ऐन्द्रॊ धर्मः कषत्रियाणां बराह्मणानाम अथाग्निकः
बरह्म वह्निर मम बलं भक्ष्यामि समयं कषुधा
61 यथा यथा वै जीवेद धि तत कर्तव्यम अपीडया
जीवितं मरणाच छरेयॊ जीवन धर्मम अवाप्नुयात
62 सॊ ऽहं जीवितम आकाङ्क्षन्न अभक्षस्यापि भक्षणम
वयवस्ये बुद्धिपूर्वं वै तद भवान अनुमन्यताम
63 जीवन धर्मं चरिष्यामि परणॊत्स्याम्य अशुभानि च
तपॊभिर विद्यया चैव जयॊतींषीव महत तमः
64 [षवपच]
नैतत खादन पराप्स्यसे पराणम अन्यं; नायुर दीर्घं नामृतस्येव तृप्तिम
भिक्षाम अन्यां भिक्ष माते मनॊ ऽसतु; शवभक्षणे शवा हय अभक्षॊ दविजानाम
65 [वि]
न दुर्भिक्षे सुलभं मांसम अन्यच; छवपाक नान्नं न च मे ऽसति वित्तम
कषुधार्तश चाहम अगतिर निराशः; शवमांसे चास्मिन षड्रसान साधु मन्ये
66 [ष]
पञ्च पञ्चनखा भक्ष्या बरह्मक्षत्रस्य वै दविज
यदि शास्त्रं परमाणं ते माभक्ष्ये मानसं कृथाः
67 [व]
अगस्त्येनासुरॊ जग्धॊ वातापिः कषुधितेन वै
अहम आपद गतः कषुब्धॊ भक्षयिष्ये शवजाघनीम
68 [ष]
भिक्षाम अन्याम आहरेति न चैतत कर्तुम अर्हसि
न नूनं कार्यम एतद वै हर कामं शवजाघनीम
69 [वि]
शिष्टा वै कारणं धर्मे तद्वृत्तम अनुवर्तये
परां मेध्याशनाद एतां भक्ष्यां मन्ये शवजाघनीम
70 [ष]
असता यत समाचीर्णं न स धर्मः सनातनः
नावृत्तम अनुकार्यं वै मा छलेनानृतं कृथाः
71 [वि]
न पातकं नावमतम ऋषिः सन कर्तुम अर्हसि
समौ च शवमृगौ मन्ये तस्माद भक्ष्या शवजाघनी
72 [ष]
यद बराह्मणार्थे कृतम अर्थितेन; तेनर्षिणा तच च भक्ष्याधिकारम
स वै धर्मॊ यत्र न पापम अस्ति; सर्वैर उपायैर हि स रक्षितव्यः
73 [वि]
मित्रं च मे बराह्मणश चायम आत्मा; परियश च मे पूज्यतमश च लॊके
तं भर्तु कामॊ ऽहम इमां हरिष्ये; नृशंसानाम ईदृशानां न बिभ्ये
74 [ष]
कामं नरा जीवितं संत्यजन्ति; न चाभक्ष्यैः परतिकुर्वन्ति तत्र
सर्वान कामान पराप्नुवन्तीह विद्वन; परियस्व कामं सहितः कषुधा वै
75 [वि]
सथाने तावत संशयः परेत्य भावे; निःसंशयं कर्मणां वा विनाशः
अहं पुनर वर्त इत्य आशयात्मा; मूलं रक्षन भक्षयिष्याम्य अभक्ष्यम
76 बुद्ध्यात्मके वयस्तम अस्तीति तुष्टॊ; मॊहाद एकत्वं यथा चर्म चक्षुः
यद्य अप्य एनः संशयाद आचरामि; नाहं भविष्यामि यथा तवम एव
77 [ष]
पतनीयम इदं दुःखम इति मे वर्तते मतिः
दुष्कृती बराह्मणं सन्तं यस तवाम अहम उपालभे
78 [वि]
पिबन्त्य एवॊदकं गावॊ मण्डूकेषु रुवत्स्व अपि
न ते ऽधिकारॊ धर्मे ऽसति मा भूर आत्मप्रशंसकः
79 [ष]
सुहृद भूत्वानुशास्मि तवा कृपा हि तवयि मे दविज
तद एवं शरेय आधत्स्व मा लॊभाच छवानम आदिथाः
80 [वि]
सुहृन मे तवं सुखेप्सुश चेद आपदॊ मां समुद्धर
जाने ऽहं धर्मतॊ ऽऽतमानं शवानीम उत्सृज जाघनीम
81 [ष]
नैवॊत्सहे भवते दातुम एतां; नॊपेक्षितुं हरियमाणं सवम अन्नम
उभौ सयावः सवमलेनावलिप्तौ; दाताहं च तवं च विप्र परतीच्छन
82 [वि]
अद्याहम एतद वृजिनं कर्मकृत्वा; जीवंश चरिष्यामि महापवित्रम
परपूतात्मा धर्मम एवाभिपत्स्ये; यद एतयॊर गुरु तद वै बरवीहि
83 [ष]
आत्मैव साक्षी किल लॊककृत्ये; तवम एव जानासि यद अत्र दुष्टम
यॊ हय आद्रियेद भक्ष्यम इति शवमांसं; मन्ये न तस्यास्ति विवर्जनीयम
84 [वि]
उपादाने खादने वास्य दॊषः; कार्यॊ नयायैर नित्यम अत्रापवादः
यस्मिन न हिंसा नानृते वाक्यलेशॊ; भक्ष्यक्रिया तत्र न तद गरीयः
85 [ष]
यद्य एष हेतुस तव खादनस्य; न ते वेदः कारणं नान्यधर्मः
तस्माद अभक्ष्ये भक्षणाद वा दविजेन्द्र; दॊषं न पश्यामि यथेदम आत्थ
86 [वि]
न पातकं भक्षणम अस्य दृष्टं; सुरां पीत्वा पततीतीह शब्दः
अन्यॊन्यकर्माणि तथा तथैव; न लेश मात्रेण कृत्यं हिनस्ति
87 [ष]
अस्थानतॊ हीनतः कुत्सिताद वा; तं विद्वांसं बाधते साधुवृत्तम
सथानं पुनर यॊ लभते निषङ्गात; तेनापि दण्डः सहितव्य एव
88 [भ]
एवम उक्त्वा निववृते मातङ्गः कौशिकं तदा
विश्वामित्रॊ जहारैव कृतबुद्धिः शवजाघनीम
89 ततॊ जग्राह पञ्चाङ्गीं जीवितार्थी महामुनिः
सदारस ताम उपाकृत्य वने यातॊ महामुनिः
90 एतस्मिन्न एव काले तु परववर्षाथ वासवः
संजीवयन परजाः सर्वा जनयाम आस चौषधीः
91 विश्वामित्रॊ ऽपि भगवांस तपसा दग्धकिल्बिषः
कालेन महता सिद्धिम अवाप परमाद्भुताम
92 एवं विद्वान अदीनात्मा वयसनस्थॊ जिजीविषुः
सर्वॊपायैर उपायज्ञॊ दीनम आत्मानम उद्धरेत
93 एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत
जीवन पुण्यम अवाप्नॊति नरॊ भद्राणि पश्यति
94 तस्मात कौन्तेय विदुषा धर्माधर्मविनिश्चये
बुद्धिम आस्थाय लॊके ऽसमिन वर्तितव्यं यतात्मना
1 [y]
hīne paramake dharme sarvalokātilaṅghini
adharme dharmatāṃ nīte dharme cādharmatāṃ gate
2 maryādāsu prabhinnāsu kṣubhite dharmaniścaye
rājabhiḥ pīḍite loke corair vāpi viśāṃ pate
3 sarvāśrameṣu mūḍheṣu karmasūpahateṣu ca
kāmān mohāc ca lobhāc ca bhayaṃ paśyatsu bhārata
4 aviśvasteṣu sarveṣu nityabhīteṣu pārthiva
nikṛtyā hanyamāneṣu vañcayatsu parasparam
5 saṃpradīpteṣu deśeṣu brāhmaṇye cābhipīḍite
avarṣati ca parjanye mitho bhede samutthite
6 sarvasmin dasyu sādbhūte pṛthivyām upajīvane
kena svid brāhmaṇo jīvej jaghanye kāla āgate
7 atityakṣuḥ putrapautrān anukrośān narādhipa
katham āpatsu varteta tan me brūhi pitāmaha
8 kathaṃ ca rājā varteta loke kaluṣatāṃ gate
katham arthāc ca dharmāc ca na hīyeta paraṃtapa
9 [bh]
rājamūlā mahārāja yogakṣema suvṛṣṭayaḥ
prajāsu vyādhayaś caiva maraṇaṃ ca bhayāni ca
10 kṛtaṃ tretā dvāparaś ca kaliś ca bharatarṣabha
rājamūlāni sarvāṇi mama nāsty atra saṃśayaḥ
11 tasmiṃs tv abhyāgate kāle prajānāṃ doṣakārake
vijñānabalam āsthāya jīvitavyaṃ tadā bhavet
12 atrāpy udāharantīmam itihāsaṃ purātanam
viśvāmitrasya saṃvādaṃ caṇḍālasya ca pakkaṇe
13 tretā dvāparayoḥ saṃdhau purā daivavidhikramāt
anāvṛṣṭir abhūd ghorā rājan dvādaśa vārṣikī
14 prajānām abhivṛddhānāṃ yugānte paryupasthite
tretā nirmokṣa samaye dvāparapratipādane
15 na vavarṣa sahasrākṣaḥ pratilomo 'bhavad guruḥ
jagāma dakṣiṇaṃ mārgaṃ somo vyāvṛttalakṣaṇaḥ
16 nāvaśyāyo 'pi rātryante kuta evābhra rājayaḥ
nadyaḥ saṃkṣiptatoyaughāḥ kva cid antargatābhavan
17 sarāṃsi saritaś caiva kūpāḥ prasravaṇāni ca
hatatviṭkāny alakṣyanta nisargād daivakāritāt
18 upaśuṣka jalasthāyā vinivṛttasabhā prapā
nivṛttayajñasvādhyāyā nirvaṣaṭkāramaṅgalā
19 utsannakṛṣi gorakṣyā nivṛttavipaṇāpaṇā
nivṛttapūgasamayā saṃpranaṣṭa mahotsavā
20 asthi kaṅkāla saṃkīrṇā hāhābhūtajanākulā
śūnyabhūyiṣṭha nagarā dagdhagrāma niveśanā
21 kva cic coraiḥ kva cic chastraiḥ kva cid rājabhir āturaiḥ
parasparabhayāc caiva śūnyabhūyiṣṭha nirjanā
22 gatadaivatasaṃkalpā vṛddhabāla vinākṛtā
gojāvi mahiṣair hīnā parasparaharā harā
23 hataviprā hatā rakṣā pranaṣṭauṣadhi saṃcayā
śyāva bhūtanaraprāyā babhūva vasudhā tadā
24 tasmin pratibhaye kāle kṣīṇe dharme yudhiṣṭhira
babhramuḥ kṣudhitā martyāḥ khādantaḥ sma parasparam
25 ṛṣayo niyamāṃs tyaktvā parityaktāgnidaivatāḥ
āśramān saṃparityajya paryadhāvann itas tataḥ
26 viśvāmitro 'tha bhagavān maharṣir aniketanaḥ
kṣudhā parigato dhīmān samantāt paryadhāvata
27 sa kadā cit paripatañ śvapacānāṃ niveśanam
hiṃsrāṇāṃ prāṇihantṝṇām āsasāda vane kva cit
28 vibhinnakalaśākīrṇaṃ śvacarmācchādanāyutam
varāhakharabhagnāsthi kapālaghaṭa saṃkulam
29 mṛtacela paristīrṇaṃ nirmālya kṛtabhūṣaṇam
sarpanirmoka mālābhiḥ kṛtacihnakuṭī maṭham
30 ulūka pakṣadhvajibhir devatāyatanair vṛtam
lohaghaṇṭā pariṣkāraṃ śvayūthaparivāritam
31 tat praviśya kṣudhāviṣṭo gādheḥ putro mahān ṛṣiḥ
āhārānveṣaṇe yuktaḥ paraṃ yatnaṃ samāsthitaḥ
32 na ca kva cid avindat sa bhikṣamāṇo 'pi kauśikaḥ
māṃsam annaṃ mūlaphalam anyad vā tatra kiṃ cana
33 aho kṛcchraṃ mayā prāptam iti niścitya kauśikaḥ
papāta bhūmau daurbālyāt tasmiṃś caṇḍāla pakkaṇe
34 cintayām āsa sa muniḥ kiṃ nu me sukṛtaṃ bhavet
kathaṃ vṛthā na mṛtyuḥ syād iti pārthiva sattama
35 sa dadarśa śvamāṃsasya kutantīṃ vitatāṃ muniḥ
caṇḍālasya gṛhe rājan sadyaḥ śastrahatasya ca
36 sa cintayām āsa tadā steyaṃ kāryam ito mayā
na hīdānīm upāyo 'nyo vidyate prāṇadhāraṇe
37 āpatsu vihitaṃ steyaṃ viśiṣṭa samahīnataḥ
paraṃ paraṃ bhavet pūrvam asteyam iti niścayaḥ
38 hīnād ādeyam ādau syāt samānāt tadanantaram
asaṃbhavād ādadīta viśiṣṭād api dhārmikāt
39 so 'ham antāvasānānāṃ haramāṇaḥ parigrahāt
na steya doṣaṃ paśyāmi hariṣyām etad āmiṣam
40 etāṃ buddhiṃ samāsthāya viśvāmitro mahāmuniḥ
tasmin deśe prasuṣvāpa patito yatra bhārata
41 sa vigāḍhāṃ niśāṃ dṛṣṭvā supte caṇḍāla pakkaṇe
śanair utthāya bhagavān praviveśa kuṭī maṭham
42 sa supta eva caṇḍālaḥ śreṣmāpihita locanaḥ
paribhinna svaro rūkṣa uvācāpriya darśanaḥ
43 kaḥ kutantīṃ ghaṭṭayati supte caṇḍāla pakkaṇe
jāgarmi nāvasupto 'smi hato 'sīti ca dāruṇaḥ
44 viśvāmitro 'ham ity eva sahasā tam uvāca saḥ
sahasābhyāgata bhayaḥ sodvegas tena karmaṇā
45 caṇḍālas tad vacaḥ śrutvā maharṣer bhāvitātmanaḥ
śayanād upasaṃbhrānta iyeṣotpatituṃ tataḥ
46 sa visṛjyāśru netrābhyāṃ bahumānāt kṛtāñjaliḥ
uvāca kauśikaṃ rātrau brahman kiṃ te cikīrṣitam
47 viśvāmitras tu mātaṅgam uvāca parisāntvayan
kṣudhito 'haṃ gataprāṇo hariṣyāmi śvajāghanīm
48 avasīdanti me prāṇāḥ smṛtir me naśyati kṣudhā
svadharmaṃ budhyamāno 'pi hariṣyāmi śvajāghanīm
49 aṭan bhaikṣaṃ na vindāmi yadā yuṣmākam ālaye
tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm
50 tṛṣitaḥ kaluṣaṃ pātā nāsti hrīr aśanārthinaḥ
kṣud dharmaṃ dūṣayaty atra hariṣyāmi śvajāghanīm
51 agnir mukhaṃ purodhāś ca devānāṃ śuci pād vibhuḥ
yathā sa sarvabhug brahmā tathā māṃ viddhi dharmataḥ
52 tam uvāca sa caṇḍālo maharṣe śṛṇu me vacaḥ
śrutvā tathā samātiṣṭha yathā dharmān na hīyase
53 mṛgāṇām adhamaṃ śvānaṃ pravadanti manīṣiṇaḥ
tasyāpy adhama uddeśaḥ śarīrasyoru jāghanī
54 nedaṃ samyag vyavasitaṃ maharṣe karma vaikṛtam
caṇḍāla svasya haraṇam abhakṣyasya viśeṣataḥ
55 sādhv anyam anupaśya tvam upāyaṃ prāṇadhāraṇe
na māṃsalobhāt tapaso nāśas te syān mahāmune
56 jānato 'vihito mārgo na kāryo dharmasaṃkaraḥ
mā sma dharmaṃ parityākṣīs tvaṃ hi dharmavid uttamaḥ
57 viśvāmitras tato rājann ity ukto bharatarṣabha
kṣudhārtaḥ pratyuvācedaṃ punar eva mahāmuniḥ
58 nirāhārasya sumahān mama kālo 'bhidhāvataḥ
na vidyate 'bhyupāyaś ca kaś cin me prāṇadhāraṇe
59 yena tena viśeṣeṇa karmaṇā yena kena cit
abhyujjīvet sīdamānaḥ samartho dharmam ācaret
60 aindro dharmaḥ kṣatriyāṇāṃ brāhmaṇānām athāgnikaḥ
brahma vahnir mama balaṃ bhakṣyāmi samayaṃ kṣudhā
61 yathā yathā vai jīved dhi tat kartavyam apīḍayā
jīvitaṃ maraṇāc chreyo jīvan dharmam avāpnuyāt
62 so 'haṃ jīvitam ākāṅkṣann abhakṣasyāpi bhakṣaṇam
vyavasye buddhipūrvaṃ vai tad bhavān anumanyatām
63 jīvan dharmaṃ cariṣyāmi praṇotsyāmy aśubhāni ca
tapobhir vidyayā caiva jyotīṃṣīva mahat tamaḥ
64 [ṣvapaca]
naitat khādan prāpsyase prāṇam anyaṃ; nāyur dīrghaṃ nāmṛtasyeva tṛptim
bhikṣām anyāṃ bhikṣa māte mano 'stu; śvabhakṣaṇe śvā hy abhakṣo dvijānām
65 [vi]
na durbhikṣe sulabhaṃ māṃsam anyac; chvapāka nānnaṃ na ca me 'sti vittam
kṣudhārtaś cāham agatir nirāśaḥ; śvamāṃse cāsmin ṣaḍrasān sādhu manye
66 [ṣ]
pañca pañcanakhā bhakṣyā brahmakṣatrasya vai dvija
yadi śāstraṃ pramāṇaṃ te mābhakṣye mānasaṃ kṛthāḥ
67 [v]
agastyenāsuro jagdho vātāpiḥ kṣudhitena vai
aham āpad gataḥ kṣubdho bhakṣayiṣye śvajāghanīm
68 [ṣ]
bhikṣām anyām āhareti na caitat kartum arhasi
na nūnaṃ kāryam etad vai hara kāmaṃ śvajāghanīm
69 [vi]
śiṣṭā vai kāraṇaṃ dharme tadvṛttam anuvartaye
parāṃ medhyāśanād etāṃ bhakṣyāṃ manye śvajāghanīm
70 [ṣ]
asatā yat samācīrṇaṃ na sa dharmaḥ sanātanaḥ
nāvṛttam anukāryaṃ vai mā chalenānṛtaṃ kṛthāḥ
71 [vi]
na pātakaṃ nāvamatam ṛṣiḥ san kartum arhasi
samau ca śvamṛgau manye tasmād bhakṣyā śvajāghanī
72 [ṣ]
yad brāhmaṇārthe kṛtam arthitena; tenarṣiṇā tac ca bhakṣyādhikāram
sa vai dharmo yatra na pāpam asti; sarvair upāyair hi sa rakṣitavyaḥ
73 [vi]
mitraṃ ca me brāhmaṇaś cāyam ātmā; priyaś ca me pūjyatamaś ca loke
taṃ bhartu kāmo 'ham imāṃ hariṣye; nṛśaṃsānām īdṛśānāṃ na bibhye
74 [ṣ]
kāmaṃ narā jīvitaṃ saṃtyajanti; na cābhakṣyaiḥ pratikurvanti tatra
sarvān kāmān prāpnuvantīha vidvan; priyasva kāmaṃ sahitaḥ kṣudhā vai
75 [vi]
sthāne tāvat saṃśayaḥ pretya bhāve; niḥsaṃśayaṃ karmaṇāṃ vā vināśaḥ
ahaṃ punar varta ity āśayātmā; mūlaṃ rakṣan bhakṣayiṣyāmy abhakṣyam
76 buddhyātmake vyastam astīti tuṣṭo; mohād ekatvaṃ yathā carma cakṣuḥ
yady apy enaḥ saṃśayād ācarāmi; nāhaṃ bhaviṣyāmi yathā tvam eva
77 [ṣ]
patanīyam idaṃ duḥkham iti me vartate matiḥ
duṣkṛtī brāhmaṇaṃ santaṃ yas tvām aham upālabhe
78 [vi]
pibanty evodakaṃ gāvo maṇḍūkeṣu ruvatsv api
na te 'dhikāro dharme 'sti mā bhūr ātmapraśaṃsakaḥ
79 [ṣ]
suhṛd bhūtvānuśāsmi tvā kṛpā hi tvayi me dvija
tad evaṃ śreya ādhatsva mā lobhāc chvānam ādithāḥ
80 [vi]
suhṛn me tvaṃ sukhepsuś ced āpado māṃ samuddhara
jāne 'haṃ dharmato ''tmānaṃ śvānīm utsṛja jāghanīm
81 [ṣ]
naivotsahe bhavate dātum etāṃ; nopekṣituṃ hriyamāṇaṃ svam annam
ubhau syāvaḥ svamalenāvaliptau; dātāhaṃ ca tvaṃ ca vipra pratīcchan
82 [vi]
adyāham etad vṛjinaṃ karmakṛtvā; jīvaṃś cariṣyāmi mahāpavitram
prapūtātmā dharmam evābhipatsye; yad etayor guru tad vai bravīhi
83 [ṣ]
ātmaiva sākṣī kila lokakṛtye; tvam eva jānāsi yad atra duṣṭam
yo hy ādriyed bhakṣyam iti śvamāṃsaṃ; manye na tasyāsti vivarjanīyam
84 [vi]
upādāne khādane vāsya doṣaḥ; kāryo nyāyair nityam atrāpavādaḥ
yasmin na hiṃsā nānṛte vākyaleśo; bhakṣyakriyā tatra na tad garīyaḥ
85 [ṣ]
yady eṣa hetus tava khādanasya; na te vedaḥ kāraṇaṃ nānyadharmaḥ
tasmād abhakṣye bhakṣaṇād vā dvijendra; doṣaṃ na paśyāmi yathedam āttha
86 [vi]
na pātakaṃ bhakṣaṇam asya dṛṣṭaṃ; surāṃ pītvā patatītīha śabdaḥ
anyonyakarmāṇi tathā tathaiva; na leśa mātreṇa kṛtyaṃ hinasti
87 [ṣ]
asthānato hīnataḥ kutsitād vā; taṃ vidvāṃsaṃ bādhate sādhuvṛttam
sthānaṃ punar yo labhate niṣaṅgāt; tenāpi daṇḍaḥ sahitavya eva
88 [bh]
evam uktvā nivavṛte mātaṅgaḥ kauśikaṃ tadā
viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm
89 tato jagrāha pañcāṅgīṃ jīvitārthī mahāmuniḥ
sadāras tām upākṛtya vane yāto mahāmuniḥ
90 etasminn eva kāle tu pravavarṣātha vāsavaḥ
saṃjīvayan prajāḥ sarvā janayām āsa cauṣadhīḥ
91 viśvāmitro 'pi bhagavāṃs tapasā dagdhakilbiṣaḥ
kālena mahatā siddhim avāpa paramādbhutām
92 evaṃ vidvān adīnātmā vyasanastho jijīviṣuḥ
sarvopāyair upāyajño dīnam ātmānam uddharet
93 etāṃ buddhiṃ samāsthāya jīvitavyaṃ sadā bhavet
jīvan puṇyam avāpnoti naro bhadrāṇi paśyati
94 tasmāt kaunteya viduṣā dharmādharmaviniścaye
buddhim āsthāya loke 'smin vartitavyaṃ yatātmanā

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1479 of 2013 Book 73% ~11 min left