Book 12: Chapter 112
The archive, offline Own the Wisdom of the Ages Every text in the library on a single USB drive. Read offline, cite freely, keep forever. No subscription required.
Get the drive $127.00

Book 12: Chapter 112

The Mahabharata in Sanskrit

Book 12
Chapter 112

1 [य]
असौम्याः सौम्य रूपेण सौम्याश चासौम्य दर्शिनः
ईदृशान पुरुषांस तात कथं विद्यामहे वयम
2 [भ]
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
वयाघ्रगॊमायु संवादं तं निबॊध युधिष्ठिर
3 पुरिकायां पुरि पुरा शरीमत्यां पौरिकॊ नृपः
परहिंसा रुचिः करूरॊ बभूव पुरुषाधमः
4 स तव आयुषि परिक्षीणे जगामानीप्सितां गतिम
गॊमायुत्वं च संप्राप्तॊ दूषितः पूर्वकर्मणा
5 संस्मृत्य पूर्वजातिं स निवेदं परमं गतः
न भक्षयति मांसानि परैर उपहृतान्य अपि
6 अहिंस्रः सर्वभूतेषु सत्यवाक सुदृढ वरतः
चकार च यथाकामम आहारं पतितैः फलैः
7 शमशाने तस्य चावासॊ गॊमायॊः संमतॊ ऽभवत
जन्म भूम्यनुरॊधाच च नान्यद वासम अरॊचयत
8 तस्य शौचम अमृष्यन्तः सर्वे ते सह जातयः
चालयन्ति सम तां बुद्धिं वचनैः परश्रयॊत्तरैः
9 वसन पितृवने रौद्रे शौचं लप्सितुम इच्छसि
इयं विप्रतिपत्तिस ते यदा तवं पिशिताशनः
10 तत समॊ वा भवास्माभिर भक्ष्यान दास्यामहे वयम
भुङ्क्ष्व शौचं परित्यज्य यद धि भुक्तं तद अस्ति ते
11 इति तेषां वचः शरुत्वा परत्युवाच समाहितः
मधुरैः परश्रितैर वाक्यैर हेतुमद्भिर अनिष्ठुरैः
12 अप्रमाणं परसूतिर मे शीलतः करियते कुलम
परार्थयिष्ये तु तत कर्म येन विस्तीर्यते यशः
13 शमशाने यदि वासॊ मे समाधिर मे निशाम्यताम
आत्मा फलति कर्माणि नाश्रमॊ धर्मलक्षणम
14 आश्रम्ये यॊ दविजं हन्याद गां वा दद्याद अनाश्रमे
किं नु तत पातकं न सयात तद वा दत्तं वृथा भवेत
15 भवन्तः सर्वलॊभेन केवलं भक्षणे रताः
अनुबन्धे तु ये दॊषास तान न पश्यन्ति मॊहिताः
16 अप्रत्यय कृतां गर्ह्याम अर्थापनय दूषिताम
इह चामुत्र चानिष्टां तस्माद वृत्तिं न रॊचये
17 तं शुचिं पण्डितं मत्वा शार्दूलः खयातविक्रमः
कृत्वात्म सदृशां पूजां साचिव्ये ऽवर्धयत सवयम
18 सौम्य विज्ञात रूपस तवं गच्छ यात्रां मया सह
वरियन्ताम ईप्सिता भॊगाः परिहार्याश च पुष्कलाः
19 तीक्ष्णा वयम इति खयाता भवतॊ जञापयामहे
मृदुपूर्वं घातिनस ते शरेयश चाधिगमिष्यति
20 अथ संपूज्य तद वाक्यं मृगेन्द्रस्य महात्मनः
गॊमायुः परश्रितं वाक्यं बभाषे किं चिद आनतः
21 सदृशं मृगराजैतत तव वाक्यं मदन्तरे
यत सहायान मृगयसे धर्मार्थकुशलाञ शुचीन
22 न शक्यम अनमात्येन महत्त्वम अनुशासितुम
दुष्टामात्येन वा वीर शरीरपरिपन्थिना
23 सहायान अनुरक्तांस तु यतेतानुपसंहितान
परस्परम असंघुष्टान विजिगीषून अलॊलुपान
24 तान अतीतॊपधान पराज्ञान हिते युक्तान मनस्विनः
पूजयेथा महाभागान यथाचार्यान यथा पितॄन
25 न तव एवं मम संतॊषाद रॊचते ऽनयन मृगाधिप
न कामये सुखान भॊगान ऐश्वर्यं वा तवदाश्रयम
26 न यॊक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः
ते तवां विभेदयिष्यन्ति दुःखशीला मदन्तरे
27 संश्रयः शलाघनीयस तवम अन्येषाम अपि भास्वताम
कृतात्मा सुमहाभागः पापकेष्व अप्य अदारुणः
28 दीर्घदर्शी महॊत्साहः सथूललक्ष्यॊ महाबलः
कृती चामॊघ कर्तासि भाव्यैश च समलंकृतः
29 किं तु सवेनास्मि संतुष्टॊ दुःखा वृत्तिर अनुष्ठिता
सेवायाश चापि नाभिज्ञः सवच्छन्देन वनेचरः
30 राजॊपक्रॊश दॊषाश च सर्वे संश्रयवासिनाम
वनचर्या च निःसङ्गा निर्भया निरवग्रहा
31 नृपेणाहूयमानस्य यत तिष्ठति भयं हृदि
न तत तिष्ठति तुष्टानां वने मूलफलाशिनाम
32 पानीयं वा निरायासं सवाद्व अन्नं वा भयॊत्तरम
विचार्य खलु पश्यामि तत सुखं यत्र निर्वृतिः
33 अपराधैर न तावन्तॊ भृत्याः शिष्टा नराधिपैः
उपघातैर यथा भृत्या दूषिता निधनं गताः
34 यदि तव एतन मया कार्यं मृगेन्द्रॊ यदि मन्यते
समयं कृतम इच्छामि वर्तितव्यं यथा मयि
35 मदीया माननीयास ते शरॊतव्यं च हितं वचः
कल्पिता या च ते वृत्तिः सा भवेत तव सुस्थिरा
36 न मन्त्रयेयम अन्यैस ते सचिवैः सह कर्हि चित
नीतिमन्तः परीप्सन्तॊ वृथा बरूयुः परे मयि
37 एक एकेन संगम्य रहॊ बरूयां हितं तव
न च ते जञातिकार्येषु परष्टव्यॊ ऽहं हिताहिते
38 मया संमन्त्र्य पश्चाच च न हिंस्याः सचिवास तवया
मदीयानां च कुपितॊ मा तवं दण्डं निपातयेः
39 एवम अस्त्व इति तेनासौ मृगेन्द्रेणाभिपूजितः
पराप्तवान मतिसाचिव्यं गॊमायुर वयाघ्रयॊनितः
40 तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मणि
पराद्विषन कृतसंघाताः पूर्वभृत्या मुहुर मुहुः
41 मित्र बुद्ध्या च गॊमायुं सान्त्वयित्वा परवेश्य च
दॊषेषु समतां नेतुम ऐच्छन्न अशुभ बुद्धयः
42 अन्यथा हय उचिताः पूर्वं परद्रव्यापहारिणः
अशक्ताः किं चिद आदातुं दरव्यं गॊमायुयन्त्रिताः
43 वयुत्थानं चात्र काङ्क्षद्भिः कथाभिः परविलॊभ्यते
धनेन महता चैव बुद्धिर अस्य विलॊभ्यते
44 न चापि स महाप्राज्ञस तस्माद धैर्याच चचाल ह
अथास्य समयं कृत्वा विनाशाय सथिताः परे
45 ईप्सितं च मृगेन्द्रस्य मांसं यत तत्र संस्कृतम
अपनीय सवयं तद धि तैर नयस्तं तस्य वेश्मनि
46 यदर्थं चाप्य अपहृतं येन यच चैव मन्त्रितम
तस्य तद विदितं सर्वं कारणार्थं च मर्षितम
47 समयॊ ऽयं कृतस तेन साचिव्यम उपगच्छता
नॊपघातस तवया गराह्यॊ राजन मैत्रीम इहेच्छता
48 भॊजने चॊपहर्तव्ये तन मांसं न सम दृश्यते
मृगराजेन चाज्ञप्तं मृग्यतां चॊर इत्य उत
49 कृतकैश चापि तन मांसं मृगेन्द्रायॊपवर्णितम
सचिवेनॊपनीतं ते विदुषा पराज्ञमानिन
50 सरॊषस तव अथ शार्दूलः शरुत्वा गॊमायुचापलम
बभूवामर्षितॊ राजा वधं चास्याभ्यरॊचयत
51 छिद्रं तु तस्य तद दृष्ट्वा परॊचुस ते पूर्वमन्त्रिणः
सर्वेषाम एव सॊ ऽसमाकं वृत्ति भङ्गेषु वर्तते
52 इदं चास्येदृशं कर्म वाल्लभ्येन तु रक्ष्यते
शरुतश च सवामिना पूर्वं यादृशॊ नैव तादृशः
53 वान मात्रेणैव धर्मिष्ठः सवभावेन तु दारुणः
धर्मच छद्मा हय अयं पापॊ वृथाचार परिग्रहः
कार्यार्थं भॊजनार्थेषु वरतेषु कृतवाञ शरमम
54 मांसापनयनं जञात्वा वयाघ्रस तेषां तु तद वचः
आज्ञापयाम आस तदा गॊमायुर वध्यताम इति
55 शार्दूलवचनं शरुत्वा शार्दूलजननी ततः
मृगराजं हितैर वाक्यैः संबॊधयितुम आगमत
56 पुत्र नैतत तवया गराह्यं कपटारम्भ संवृतम
कर्मसंघर्षजैर दॊषैर दुष्यत्य अशुचिभिः शुचिः
57 नॊच्छ्रितं सहते कश चित परक्रिया वैरकारिका
शुचेर अपि हि युक्तस्य दॊष एव निपात्यते
58 लुब्धानां शुचयॊ दवेष्याः कातराणां तरस्विनः
मूर्खाणां पण्डिता दवेष्या दरिद्राणां महाधनाः
अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपकाः
59 बहवः पण्डिता लुब्धाः सर्वे मायॊपजीविनः
कुर्युर दॊषम अदॊषस्य बृहस्पतिमतेर अपि
60 शून्यात तच च गृहान मांसं यद अद्यापहृतं तव
नेच्छते दीयमानं च साधु तावद विमृश्यताम
61 असत्याः सत्यसंकाशाः सत्याश चासत्य दर्शिनः
दृश्यन्ते विधिना भावास तेषु युक्तं परीक्षणम
62 तलवद दृश्यते वयॊम खद्यॊतॊ हव्यवाड इव
न चैवास्ति तलं वयॊम्नि न खद्यॊते हुताशनः
63 तस्मात परत्यक्षदृष्टॊ ऽपि युक्तम अर्थः परीक्षितुम
परीक्ष्य जञापयन हय अर्थान न पश्चात परितप्यते
64 न दुष्करम इदं पुत्र यत परभुर घातयेत परम
शलाघनीया च वर्या च लॊके परभवतां कषमा
65 सथापितॊ ऽयं पुत्र तवया सामन्तेष्व अधि विश्रुतः
दुःखेनासाद्यते पात्रं धार्यताम एष ते सुहृत
66 दूषितं परदॊषैर हि गृह्णीते यॊ ऽनयथा शुचिम
सवयं संदूषितामात्यः कषिप्रम एव विनश्यति
67 तस्माद अथारि संघाताद गॊमायॊः कश चिद आगतः
धर्मात्मा तेन चाख्यातं यथैतत कपटं कृतम
68 ततॊ विज्ञात चारित्रः सत्कृत्य स विमॊक्षितः
परिष्वक्तश च स सनेहं मृगेन्द्रेण पुनः पुनः
69 अनुज्ञाप्य मृगेन्द्रं तु गॊमायुर नीतिशास्त्रवित
तेनामर्षेण संतप्तः परायम आसितुम ऐच्छत
70 शार्दूलस तत्र गॊमायुं सनेहात परस्रुत लॊचनः
अवारयत स धर्मिष्ठं पूजया परतिपूजयन
71 तं स गॊमायुर आलॊक्य सनेहाद आगतसंभ्रमम
बभाषे परणतॊ वाक्यं बाष्पगद्गदया गिरा
72 पूजितॊ ऽहं तवया पूर्वं पश्चाच चैव विमानितः
परेषाम आस्पदं नीतॊ वस्तुं नार्हाम्य अहं तवयि
73 सवसंतुष्टाश चयुताः सथानान मानात पत्यवरॊपिताः
सवयं चॊपहृता भृत्या ये चाप्य उपहृताः परैः
74 परिक्षीणाश च लुब्धाश च करूराः काराभितापिताः
हृतस्वा मानिनॊ ये च तयक्तॊपात्ता महेप्सवः
75 संतापिताश च ये के चिद वयसनौग परतीक्षिणः
अन्तर्हिताः सॊपहिताः सर्वे ते परसाधनाः
76 अवमानेन युक्तस्य सथापितस्य च मे पुनः
कथं यास्यसि विश्वासम अहम एष्यामि वा पुनः
77 समर्थ इति संगृह्य सथापयित्वा परीक्ष्य च
कृतं च समयं भित्त्वा तवयाहम अवमानितः
78 परथमं यः समाख्यातः शीलवान इति संसदि
न वाच्यं तस्य वैगुण्यं परतिज्ञां परिरक्षता
79 एवं चावमतस्येह विश्वासं किं परयास्यसि
तवयि चैव हय अविश्वासे ममॊद्वेगॊ भविष्यति
80 शङ्कितस तवम अहं भीतः परे छिन्द्रानुदर्शिनः
अस्निग्धाश चैव दुस्तॊषाः कर्म चैतद बहुच छलम
81 दुःखेन शलेष्यते भिन्नं शलिष्टं दुःखेन भिद्यते
भिन्नश्लिष्टा तु या परीतिर न सा सनेहेन वर्तते
82 कश चिद एव हि भीतस तु दृश्यते न परात्मनॊः
कार्यापेक्षा हि वर्तन्ते भावाः सनिग्धास तु दुर्लभाः
83 सुदुःखं पुरुषज्ञानं चित्तं हय एषां चलाचलम
समर्थॊ वाप्य अशक्तॊ वा शतेष्व एकॊ ऽधिगम्यते
84 अकस्मात परक्रिया नॄणाम अकस्माच चापकर्षणम
शुभाशुभे महत्त्वं च परकर्तुं बुद्धिलाघवात
85 एवं बहुविधं सान्त्वम उक्त्वा धर्मार्थहेतुमत
परसादयित्वा राजानं गॊमायुर वनम अभ्यगात
86 अगृह्यानुनयं तस्य मृगेन्द्रस्य स बुद्धिमान
गॊमायुः परायम आसीनस तयक्त्व देहं दिवं ययौ
1 [y]
asaumyāḥ saumya rūpeṇa saumyāś cāsaumya darśinaḥ
īdṛśān puruṣāṃs tāta kathaṃ vidyāmahe vayam
2 [bh]
atrāpy udāharantīmam itihāsaṃ purātanam
vyāghragomāyu saṃvādaṃ taṃ nibodha yudhiṣṭhira
3 purikāyāṃ puri purā śrīmatyāṃ pauriko nṛpaḥ
parahiṃsā ruciḥ krūro babhūva puruṣādhamaḥ
4 sa tv āyuṣi parikṣīṇe jagāmānīpsitāṃ gatim
gomāyutvaṃ ca saṃprāpto dūṣitaḥ pūrvakarmaṇā
5 saṃsmṛtya pūrvajātiṃ sa nivedaṃ paramaṃ gataḥ
na bhakṣayati māṃsāni parair upahṛtāny api
6 ahiṃsraḥ sarvabhūteṣu satyavāk sudṛḍha vrataḥ
cakāra ca yathākāmam āhāraṃ patitaiḥ phalaiḥ
7 śmaśāne tasya cāvāso gomāyoḥ saṃmato 'bhavat
janma bhūmyanurodhāc ca nānyad vāsam arocayat
8 tasya śaucam amṛṣyantaḥ sarve te saha jātayaḥ
cālayanti sma tāṃ buddhiṃ vacanaiḥ praśrayottaraiḥ
9 vasan pitṛvane raudre śaucaṃ lapsitum icchasi
iyaṃ vipratipattis te yadā tvaṃ piśitāśanaḥ
10 tat samo vā bhavāsmābhir bhakṣyān dāsyāmahe vayam
bhuṅkṣva śaucaṃ parityajya yad dhi bhuktaṃ tad asti te
11 iti teṣāṃ vacaḥ śrutvā pratyuvāca samāhitaḥ
madhuraiḥ praśritair vākyair hetumadbhir aniṣṭhuraiḥ
12 apramāṇaṃ prasūtir me śīlataḥ kriyate kulam
prārthayiṣye tu tat karma yena vistīryate yaśaḥ
13 śmaśāne yadi vāso me samādhir me niśāmyatām
ātmā phalati karmāṇi nāśramo dharmalakṣaṇam
14 āśramye yo dvijaṃ hanyād gāṃ vā dadyād anāśrame
kiṃ nu tat pātakaṃ na syāt tad vā dattaṃ vṛthā bhavet
15 bhavantaḥ sarvalobhena kevalaṃ bhakṣaṇe ratāḥ
anubandhe tu ye doṣās tān na paśyanti mohitāḥ
16 apratyaya kṛtāṃ garhyām arthāpanaya dūṣitām
iha cāmutra cāniṣṭāṃ tasmād vṛttiṃ na rocaye
17 taṃ śuciṃ paṇḍitaṃ matvā śārdūlaḥ khyātavikramaḥ
kṛtvātma sadṛśāṃ pūjāṃ sācivye 'vardhayat svayam
18 saumya vijñāta rūpas tvaṃ gaccha yātrāṃ mayā saha
vriyantām īpsitā bhogāḥ parihāryāś ca puṣkalāḥ
19 tīkṣṇā vayam iti khyātā bhavato jñāpayāmahe
mṛdupūrvaṃ ghātinas te śreyaś cādhigamiṣyati
20 atha saṃpūjya tad vākyaṃ mṛgendrasya mahātmanaḥ
gomāyuḥ praśritaṃ vākyaṃ babhāṣe kiṃ cid ānataḥ
21 sadṛśaṃ mṛgarājaitat tava vākyaṃ madantare
yat sahāyān mṛgayase dharmārthakuśalāñ śucīn
22 na śakyam anamātyena mahattvam anuśāsitum
duṣṭāmātyena vā vīra śarīraparipanthinā
23 sahāyān anuraktāṃs tu yatetānupasaṃhitān
parasparam asaṃghuṣṭān vijigīṣūn alolupān
24 tān atītopadhān prājñān hite yuktān manasvinaḥ
pūjayethā mahābhāgān yathācāryān yathā pitṝn
25 na tv evaṃ mama saṃtoṣād rocate 'nyan mṛgādhipa
na kāmaye sukhān bhogān aiśvaryaṃ vā tvadāśrayam
26 na yokṣyati hi me śīlaṃ tava bhṛtyaiḥ purātanaiḥ
te tvāṃ vibhedayiṣyanti duḥkhaśīlā madantare
27 saṃśrayaḥ ślāghanīyas tvam anyeṣām api bhāsvatām
kṛtātmā sumahābhāgaḥ pāpakeṣv apy adāruṇaḥ
28 dīrghadarśī mahotsāhaḥ sthūlalakṣyo mahābalaḥ
kṛtī cāmogha kartāsi bhāvyaiś ca samalaṃkṛtaḥ
29 kiṃ tu svenāsmi saṃtuṣṭo duḥkhā vṛttir anuṣṭhitā
sevāyāś cāpi nābhijñaḥ svacchandena vanecaraḥ
30 rājopakrośa doṣāś ca sarve saṃśrayavāsinām
vanacaryā ca niḥsaṅgā nirbhayā niravagrahā
31 nṛpeṇāhūyamānasya yat tiṣṭhati bhayaṃ hṛdi
na tat tiṣṭhati tuṣṭānāṃ vane mūlaphalāśinām
32 pānīyaṃ vā nirāyāsaṃ svādv annaṃ vā bhayottaram
vicārya khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ
33 aparādhair na tāvanto bhṛtyāḥ śiṣṭā narādhipaiḥ
upaghātair yathā bhṛtyā dūṣitā nidhanaṃ gatāḥ
34 yadi tv etan mayā kāryaṃ mṛgendro yadi manyate
samayaṃ kṛtam icchāmi vartitavyaṃ yathā mayi
35 madīyā mānanīyās te śrotavyaṃ ca hitaṃ vacaḥ
kalpitā yā ca te vṛttiḥ sā bhavet tava susthirā
36 na mantrayeyam anyais te sacivaiḥ saha karhi cit
nītimantaḥ parīpsanto vṛthā brūyuḥ pare mayi
37 eka ekena saṃgamya raho brūyāṃ hitaṃ tava
na ca te jñātikāryeṣu praṣṭavyo 'haṃ hitāhite
38 mayā saṃmantrya paścāc ca na hiṃsyāḥ sacivās tvayā
madīyānāṃ ca kupito mā tvaṃ daṇḍaṃ nipātayeḥ
39 evam astv iti tenāsau mṛgendreṇābhipūjitaḥ
prāptavān matisācivyaṃ gomāyur vyāghrayonitaḥ
40 taṃ tathā satkṛtaṃ dṛṣṭvā yujyamānaṃ ca karmaṇi
prādviṣan kṛtasaṃghātāḥ pūrvabhṛtyā muhur muhuḥ
41 mitra buddhyā ca gomāyuṃ sāntvayitvā praveśya ca
doṣeṣu samatāṃ netum aicchann aśubha buddhayaḥ
42 anyathā hy ucitāḥ pūrvaṃ paradravyāpahāriṇaḥ
aśaktāḥ kiṃ cid ādātuṃ dravyaṃ gomāyuyantritāḥ
43 vyutthānaṃ cātra kāṅkṣadbhiḥ kathābhiḥ pravilobhyate
dhanena mahatā caiva buddhir asya vilobhyate
44 na cāpi sa mahāprājñas tasmād dhairyāc cacāla ha
athāsya samayaṃ kṛtvā vināśāya sthitāḥ pare
45 īpsitaṃ ca mṛgendrasya māṃsaṃ yat tatra saṃskṛtam
apanīya svayaṃ tad dhi tair nyastaṃ tasya veśmani
46 yadarthaṃ cāpy apahṛtaṃ yena yac caiva mantritam
tasya tad viditaṃ sarvaṃ kāraṇārthaṃ ca marṣitam
47 samayo 'yaṃ kṛtas tena sācivyam upagacchatā
nopaghātas tvayā grāhyo rājan maitrīm ihecchatā
48 bhojane copahartavye tan māṃsaṃ na sma dṛśyate
mṛgarājena cājñaptaṃ mṛgyatāṃ cora ity uta
49 kṛtakaiś cāpi tan māṃsaṃ mṛgendrāyopavarṇitam
sacivenopanītaṃ te viduṣā prājñamānina
50 saroṣas tv atha śārdūlaḥ śrutvā gomāyucāpalam
babhūvāmarṣito rājā vadhaṃ cāsyābhyarocayat
51 chidraṃ tu tasya tad dṛṣṭvā procus te pūrvamantriṇaḥ
sarveṣām eva so 'smākaṃ vṛtti bhaṅgeṣu vartate
52 idaṃ cāsyedṛśaṃ karma vāllabhyena tu rakṣyate
śrutaś ca svāminā pūrvaṃ yādṛśo naiva tādṛśaḥ
53 vān mātreṇaiva dharmiṣṭhaḥ svabhāvena tu dāruṇaḥ
dharmac chadmā hy ayaṃ pāpo vṛthācāra parigrahaḥ
kāryārthaṃ bhojanārtheṣu vrateṣu kṛtavāñ śramam
54 māṃsāpanayanaṃ jñātvā vyāghras teṣāṃ tu tad vacaḥ
ājñāpayām āsa tadā gomāyur vadhyatām iti
55 śārdūlavacanaṃ śrutvā śārdūlajananī tataḥ
mṛgarājaṃ hitair vākyaiḥ saṃbodhayitum āgamat
56 putra naitat tvayā grāhyaṃ kapaṭārambha saṃvṛtam
karmasaṃgharṣajair doṣair duṣyaty aśucibhiḥ śuciḥ
57 nocchritaṃ sahate kaś cit prakriyā vairakārikā
śucer api hi yuktasya doṣa eva nipātyate
58 lubdhānāṃ śucayo dveṣyāḥ kātarāṇāṃ tarasvinaḥ
mūrkhāṇāṃ paṇḍitā dveṣyā daridrāṇāṃ mahādhanāḥ
adhārmikāṇāṃ dharmiṣṭhā virūpāṇāṃ surūpakāḥ
59 bahavaḥ paṇḍitā lubdhāḥ sarve māyopajīvinaḥ
kuryur doṣam adoṣasya bṛhaspatimater api
60 śūnyāt tac ca gṛhān māṃsaṃ yad adyāpahṛtaṃ tava
necchate dīyamānaṃ ca sādhu tāvad vimṛśyatām
61 asatyāḥ satyasaṃkāśāḥ satyāś cāsatya darśinaḥ
dṛśyante vidhinā bhāvās teṣu yuktaṃ parīkṣaṇam
62 talavad dṛśyate vyoma khadyoto havyavāḍ iva
na caivāsti talaṃ vyomni na khadyote hutāśanaḥ
63 tasmāt pratyakṣadṛṣṭo 'pi yuktam arthaḥ parīkṣitum
parīkṣya jñāpayan hy arthān na paścāt paritapyate
64 na duṣkaram idaṃ putra yat prabhur ghātayet param
ślāghanīyā ca varyā ca loke prabhavatāṃ kṣamā
65 sthāpito 'yaṃ putra tvayā sāmanteṣv adhi viśrutaḥ
duḥkhenāsādyate pātraṃ dhāryatām eṣa te suhṛt
66 dūṣitaṃ paradoṣair hi gṛhṇīte yo 'nyathā śucim
svayaṃ saṃdūṣitāmātyaḥ kṣipram eva vinaśyati
67 tasmād athāri saṃghātād gomāyoḥ kaś cid āgataḥ
dharmātmā tena cākhyātaṃ yathaitat kapaṭaṃ kṛtam
68 tato vijñāta cāritraḥ satkṛtya sa vimokṣitaḥ
pariṣvaktaś ca sa snehaṃ mṛgendreṇa punaḥ punaḥ
69 anujñāpya mṛgendraṃ tu gomāyur nītiśāstravit
tenāmarṣeṇa saṃtaptaḥ prāyam āsitum aicchata
70 śārdūlas tatra gomāyuṃ snehāt prasruta locanaḥ
avārayat sa dharmiṣṭhaṃ pūjayā pratipūjayan
71 taṃ sa gomāyur ālokya snehād āgatasaṃbhramam
babhāṣe praṇato vākyaṃ bāṣpagadgadayā girā
72 pūjito 'haṃ tvayā pūrvaṃ paścāc caiva vimānitaḥ
pareṣām āspadaṃ nīto vastuṃ nārhāmy ahaṃ tvayi
73 svasaṃtuṣṭāś cyutāḥ sthānān mānāt patyavaropitāḥ
svayaṃ copahṛtā bhṛtyā ye cāpy upahṛtāḥ paraiḥ
74 parikṣīṇāś ca lubdhāś ca krūrāḥ kārābhitāpitāḥ
hṛtasvā mānino ye ca tyaktopāttā mahepsavaḥ
75 saṃtāpitāś ca ye ke cid vyasanauga pratīkṣiṇaḥ
antarhitāḥ sopahitāḥ sarve te parasādhanāḥ
76 avamānena yuktasya sthāpitasya ca me punaḥ
kathaṃ yāsyasi viśvāsam aham eṣyāmi vā punaḥ
77 samartha iti saṃgṛhya sthāpayitvā parīkṣya ca
kṛtaṃ ca samayaṃ bhittvā tvayāham avamānitaḥ
78 prathamaṃ yaḥ samākhyātaḥ śīlavān iti saṃsadi
na vācyaṃ tasya vaiguṇyaṃ pratijñāṃ parirakṣatā
79 evaṃ cāvamatasyeha viśvāsaṃ kiṃ prayāsyasi
tvayi caiva hy aviśvāse mamodvego bhaviṣyati
80 śaṅkitas tvam ahaṃ bhītaḥ pare chindrānudarśinaḥ
asnigdhāś caiva dustoṣāḥ karma caitad bahuc chalam
81 duḥkhena śleṣyate bhinnaṃ śliṣṭaṃ duḥkhena bhidyate
bhinnaśliṣṭā tu yā prītir na sā snehena vartate
82 kaś cid eva hi bhītas tu dṛśyate na parātmanoḥ
kāryāpekṣā hi vartante bhāvāḥ snigdhās tu durlabhāḥ
83 suduḥkhaṃ puruṣajñānaṃ cittaṃ hy eṣāṃ calācalam
samartho vāpy aśakto vā śateṣv eko 'dhigamyate
84 akasmāt prakriyā nṝṇām akasmāc cāpakarṣaṇam
śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt
85 evaṃ bahuvidhaṃ sāntvam uktvā dharmārthahetumat
prasādayitvā rājānaṃ gomāyur vanam abhyagāt
86 agṛhyānunayaṃ tasya mṛgendrasya sa buddhimān
gomāyuḥ prāyam āsīnas tyaktva dehaṃ divaṃ yayau

Read ad-free with unlimited highlights, bookmarks, and annotations. $10/mo Become a Member Join

Comments and social are coming soon

Reader conversations and shared activity will appear here.

1452 of 2013 Book 72% ~10 min left