1
[स] हस्तिभिस तु महामात्रास तव पुत्रेण चॊदिताः धृष्टद्युम्नं जिघांसन्तः करुद्धाः पार्षतम अभ्ययुः 2 पराच्याश च दाक्षिणात्याश च परवीरा गजयॊधिनः अङ्गा वङ्गाश च पुण्ड्राश च मागधास ताम्रलिप्तकाः 3 मेकलाः कॊशला मद्रा दशार्णा निषधास तथा गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत 4 शरतॊमर नाराचैर वृष्टिमन्त इवाम्बुदाः सिषिचुस ते ततः सर्वे पाञ्चालाचलम आहवे 5 तान संमिमर्दिषुर नागान पार्ष्ण्यङ्गुष्ठाङ्कुशैर भृशम पॊथितान पार्षतॊ बाणैर नाराचैश चाभ्यवीवृषत 6 एकैकं दशभिः षड्भिर अष्टाभिर अपि भारत दविरदान अभिविव्याध कषिप्तैर गिरिनिभाञ शरैः परच्छाद्यमानॊ दविरदैर मेघैर इव दिवाकरः 7 पर्यासुः पाण्डुपाञ्चाला नदन्तॊ निशितायुधाः तान नागान अभिवर्षन्तॊ जयातन्त्री शरनादितैः 8 नकुलः सहदेवश च दरौपदेयाः परभद्रकाः सात्यकिश च शिखण्डी च चेकितानश च वीर्यवान 9 ते मलेच्छैः परेषिता नागा नरान अश्वान रथान अपि हस्तैर आक्षिप्य ममृदुः पद्भिश चाप्य अतिमन्यवः 10 बिभिदुश च विषाणाग्रैः समाक्षिप्य च विक्षिपुः विषाण लग्नैश चाप्य अन्ये परिपेतुर विभीषणाः 11 परमुखे वर्तमानं तु दविपं वङ्गस्य सात्यकिः नाराचेनॊग्र वेगेन भित्त्वा मर्मण्य अपातयत 12 तस्यावर्जितनागस्य दविरदाद उत्पतिष्यतः नाराचेनाभिनद वक्षः सॊ ऽपतद भुवि सात्यकेः 13 पुण्ड्रस्यापततॊ नागं चलन्तम इव पर्वतम सहदेवः परयत्नात तैर नाराचैर वयहनत तरिभिः 14 विपताकं वियन्तारं विवर्म धवजजीवितम तं कृत्वा दविरदं भूयः सहदेवॊ ऽङगम अभ्यगात 15 सहदेवं तु नकुलॊ वारयित्वाङ्गम आर्दयत नाराचैर यमदण्डाभैस तरिभिर नागं शतेन च 16 दिवाकरकरप्रख्यान अङ्गश चिक्षेप तॊमरान नकुलाय शतान्य अष्टौ तरिधैकैकं तु सॊ ऽचछिनत 17 तथार्ध चन्द्रेण शिरस तस्य चिच्छेद पाण्डवः स पपात हतॊ मलेच्छस तेनैव सह दन्तिना 18 आचार्य पुत्रे निहते हस्तिशिक्षा विशारदे अङ्गाः करुद्धा महामात्रा नागैर नकुलम अभ्ययुः 19 चलत पताकैः परमुखैर हेमकक्ष्या तनुच छदैः मिमर्दिशन्तस तवरिताः परदीप्तैर इव पर्वतैः 20 मेकलॊत्कल कालिङ्गा निषादास ताम्रलिप्तकाः शरतॊमर वर्षाणि विमुञ्चन्तॊ जिघांसवः 21 तैश छाद्यमानं नकुलं दिवाकरम इवाम्बुदैः परि पेतुः सुसंरब्धाः पाण्डुपाञ्चाल सॊमकाः 22 ततस तद अभवद युद्धं रथिनां हस्तिभिः सह सृजतां शरवर्षाणि तॊमरांश च सहस्रशः 23 नागानां परस्फुटुः कुम्भा मर्माणि विविधानि च दन्ताश चैवातिविद्धानां नाराचैर भूषणानि च 24 तेषाम अष्टौ महानागांश चतुःषष्ट्या सुतेजनैः सहदेवॊ जघानाशु ते पेतुः सह सादिभिः 25 अञ्जॊ गतिभिर आयम्य परयत्नाद धनुर उत्तमम नाराचैर अहनन नागान नकुलः कुरनन्दन 26 ततः शैनेय पाञ्चाल्यौ दरौपदेयाः परभद्रकाः शिखण्डी च महानागान सिषिचुः शरवृष्टिभिः 27 ते पाण्डुयॊधाम्बुधरैः शत्रुद्विरदपर्वताः बाणवर्षैर हताः पेतुर वज्रवर्षैर इवाचलाः 28 एवं हत्वा तव गजांस ते पाण्डुनरकुञ्जराः दरुतं सेनाम अवैक्षन्त भिन्नकूलाम इवापगाम 29 ते तां सेनाम अवालॊक्य पाण्डुपुत्रस्य सैनिकाः विक्षॊभयित्वा च पुनः कर्णम एवाभिदुद्रुवुः 30 सहदेवं ततः करुद्धं दहन्तं तव वाहिनीम दुःशासनॊ महाराज भराता भरातरम अभ्ययात 31 तौ समेतौ महायुद्धे दृष्ट्वा तत्र नराधिपाः सिंहनाद रवांश चक्रुर वासांस्य आदुधुवुश च ह 32 ततॊ भारत करुद्धेन तव पुत्रेण धन्विना पाण्डुपुत्रस तरिभिर बाणैर वक्षस्य अभिहतॊ बली 33 सहदेवस ततॊ राजन नाराचेन तवात्मजम विद्ध्वा विव्याध सप्तत्या सारथिं च तरिभिस तरिभिः 34 दुःशासनस तदा राजंश छित्त्वा चापं महाहवे सहदेवं तरिसप्तत्या बाह्वॊर उरसि चार्दयत 35 सहदेवस ततः करुद्धः खड्गं गृह्य महाहवे वयाविध्यत युधां शरेष्ठः शरीमांस तव सुतं परति 36 स मार्गणगणं चापं छित्त्वा तस्य महान असिः निपपात ततॊ भूमौ चयुतः सर्प इवाम्बरात 37 अथान्यद धनुर आदाय सहदेवः परतापवान दुःशासनाय चिक्षेप बाणम अन्तकरं ततः 38 तम आपतन्तं विशिखं यमदण्डॊपमत्विषम खड्गेन शितधारेण दविधा चिच्छेद कौरवः 39 तम आपतन्तं सहसा निस्त्रिंशं निशितैः शरैः पातयाम आस समरे सहदेवॊ हसन्न इव 40 ततॊ बाणांश चतुःषष्टिं तव पुत्रॊ महारणे सहदेव रथे तूर्णं पातयाम आस भारत 41 ताञ शरान समरे राजन वेगेनापततॊ बहून एकैकं पञ्चभिर बाणैः सहदेवॊ नयकृन्तत 42 स निवार्य महाबाणांस तव पुत्रेण परेषितान अथास्मै सुबहून बबाणांर माद्रीपुत्रः समाचिनॊत 43 ततः करुद्धॊ महाराज सहदेवः परतावना समाधत्त शरं घॊरं मृत्युकालान्तकॊपमम विकृष्य बलवच चापं तव पुत्राय सॊ ऽसृजत 44 स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत पराविशद धरणीं राजन वल्मीकम इव पन्नगः ततः स मुमुहे राजंस तव पुत्रॊ महारथः 45 मूढं चैनं समालक्ष्य सारथिस तवरितॊ रथम अपॊवाह भृशं तरस्तॊ वध्यमानं शितैः शरैः 46 पराजित्य रणे तं तु पाण्डवः पाण्डुपूर्वज दुर्यॊधन बलं हृष्टः परामथद वै समन्ततः 47 पिपीलिका पुटं राजन यथामृद्नान नरॊ रुषा तथा सा कौरवी सेना मृदिता तेन भारत 48 नकुलं रभसं युद्धे दारयन्तं वरूथिनीम कर्णॊ वैकर्तनॊ राजन वारयाम आस वै तदा 49 नकुलश च तदा कर्णं परहसन्न इदम अब्रवीत चिरस्य बत दृष्टॊ ऽहं दैवतैः सौम्य चक्षुषा 50 यस्य मे तवं रणे पापचक्षुर विषयम आगतः तवं हि मूलम अनर्थानां वैरस्य कलहस्य च 51 तवद दॊषात कुरवः कषीणाः समासाद्य परस्परम तवाम अद्य समरे हत्वा कृतकृत्यॊ ऽसमि विज्वरः 52 एवम उक्तः परत्युवाच नकुलं सूतनन्दनः सदृशं राजपुत्रस्य धन्विनश च विशेषतः 53 परहरस्व रणे बाल पश्यामस तव पौरुषम कर्मकृत्वा रणे शूर ततः कत्थितुम अर्हसि 54 अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः स युध्यस्व मया शक्त्या विनेष्ये दर्पम अद्य ते 55 इत्य उक्त्वा पराहरत तूर्णं पाण्डुपुत्राय सूतजः विव्याध चैनं समरे तरिसप्तत्या शिलीमुखैः 56 नकुलस तु ततॊ विद्धः सूतपुत्रेण भारत अशीत्य आशीविषप्रख्यैः सूतपुत्रम अविध्यत 57 तस्य कर्णॊ धनुश छित्त्वा सवर्णपुङ्खैः शिलाशितैः तरिंशता परमेष्वासः शरैः पाण्डवम आर्दयत 58 ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः 59 अथान्यद धनुर आदाय हेमपृष्ठं दुरासदम कर्णं विव्याध विंशत्या सारथिं च तरिभिः शरैः 60 ततः करुद्धॊ महाराज नकुलः परवीरहा कषुरप्रेण सुतीक्ष्णेन कर्णस्य धनुर अच्छिनत 61 अथैनं छिन्नधन्वानं सायकानां शतैस तरिभिः आजघ्ने परहसन वीरः सर्वलॊकमहारथम 62 कर्णम अभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष विस्मयं परमं जग्मू रथिनः सह दैवतैः 63 अथान्यद धनुर आदाय कर्णॊ वैकर्तनस तदा नकुलं पञ्चभिर बाणैर जत्रु देशे समार्दयत 64 उरःस्थैर अथ तैर बाणैर माद्रीपुत्रॊ वयरॊचत सवरश्मिभिर इवादित्यॊ भुवने विसृजन परभाम 65 नकुकस तु ततः कर्णं विद्ध्वा सप्तभिर आयसैः अथास्य धनुषः कॊटिं पुनश चिच्छेद मारिष 66 सॊ ऽनयत कार्मुकम आदाय समरे वेगवत्तरम नकुलस्य ततॊ बाणैः सर्वतॊ ऽवारयद दिशः 67 संछाद्यमानः सहसा कर्ण चापच्युतैः शरैः चिच्छेद स शरांस तूर्णं शरैर एव महारथः 68 ततॊ बाणमयं जालं विततं वयॊम्न्य अदृश्यत खद्यॊतानां गणैर एवं संपतद्भिर यथा नभः 69 तैर विमुक्तैः शरशतैश छादितं गगनं तदा शलभानां यथा वरातैस तद्वद आसीत समाकुलम 70 ते शरा हेमविकृताः संपतन्तॊ मुहुर मुहुः शरेणी कृता अभासन्त हंसाः शरेणी गता इव 71 बाणजालावृते वयॊम्नि छादिते च दिवाकरे समसर्पत ततॊ भूतं किं चिद एव विशां पते 72 निरुद्धे तत्र मार्गे तु शरसंघैः समन्ततः वयरॊचतां महाभागौ बालसूर्याव इवॊदितौ 73 कर्ण चापच्युतैर बाणैर वध्यमानास तु सॊमकाः अवालीयन्त राजेन्द्र वेदनार्ताः शरार्दिताः 74 नकुलस्य तथा बाणैर वध्यमाना चमूस तव वयशीर्यत दिशॊ राजन वातनुन्ना इवाम्बुदाः 75 ते सेने वध्यमाने तु ताभ्यां दिव्यैर महाशरैः शरपातम अपक्रम्य ततः परेक्षकवत सथिते 76 परॊत्सारिते जने तस्मिन कर्ण पाण्डवयॊः शरैः विव्याधाते महात्मानाव अन्यॊन्यं शरवृष्टिभिः 77 निदर्शयन्तौ तव अस्त्राणि दिव्यानि रणमूर्धनि छादयन्तौ च सहसा परस्परवधैषिणौ 78 नकुलेन शरा मुक्ताः कङ्कबर्णिण वाससः ते तु कर्णम अवच्छाद्य वयतिष्ठन्त यथा पुरे 79 शरवेश्म परविष्टौ तौ ददृशाते न कैश चन चन्द्रसूर्यौ यथा राजंश छाद्यमानौ जलागमे 80 ततः करुद्धॊ रणे कर्णः कृत्वा घॊरतरं वपुः पाण्डवं छाद्दयाम आस समन्ताच छरवृष्टिभिः 81 सच्छाद्यमानः समरे सूतपुत्रेण पाण्डवः न चकार वयथां राजन भास्करॊ जलदैर यथा 82 ततः परहस्याधिरथिः शरजालानि मारिष परेषयाम आस समरे शतशॊ ऽथ सहस्रशः 83 एकच छायम अभूत सर्वं तस्य बाणैर महात्मनः अभ्रच छायेव संजज्ञे संपतद्भिः शरॊत्तमैः 84 ततः कर्णॊ महाराज धनुश छित्त्वा महात्मनः सारथिं पातयाम आस रथनीडाद धसन्न इव 85 तथाश्वांश चतुरश चास्य चतुर्भिर निशितैः शरैः यमस्य सदनं तूर्णं परेषयाम आस भारत 86 अथास्य तं रथं तूर्णं तिलशॊ वयधमच छरैः पताकां चक्ररक्षौ च धवजं खड्गं च मारिष शतचन्द्रं ततश चर्म सर्वॊपकरणानि च 87 हताश्वॊ विरथश चैव विवर्मा च विशां पते अवतीर्य रथात तूर्णं परिघं गृह्य विष्ठितः 88 तम उद्यतं महाघॊरं परिघं तस्य सूतजः वयहनत सायकै राजञ शतशॊ ऽथ सहस्रशः 89 वयायुधं चैनम आलक्ष्य शरैः संनतपर्वभिः आर्दयद बहुशः कर्णॊ न चैनं समपीडयत 90 स वध्यमानः समरे कृतास्त्रेण बलीयसा पराद्रवत सहसा राजन नकुलॊ वयाकुलेन्द्रियः 91 तम अभिद्रुत्य राधेयः परहसन वै पुनः पुनः स जयम अस्य धनुः कण्ठे सॊ ऽवासृजत भारत 92 ततः स शुशुभे राजन कण्ठासक्तमहाधनुः परिवेषम अनुप्राप्तॊ यथा सयाद वयॊम्नि चन्द्रमाः यथैव च सितॊ मेघः शक्रचापेन शॊभितः 93 तम अब्रवीत तदा कर्णॊ वयर्थं वयाहृतवान असि वदेदानीं पुनर हृष्टॊ वध्यं मां तवं पुनः पुनः 94 मा यॊत्सीर गुरुभिः सार्धं बलवद्भिश च पाण्डव सदृशैस तात युध्यस्व वरीडां मा कुरु पाण्डव गृहं वा गच्छ माद्रेय यत्र वा कृष्ण फल्गुनौ 95 एवम उक्त्वा महाराज वयसर्जयत तं ततः वधप्राप्तं तु तं राजन नावधीत सूतनन्दनः समृत्वा कुन्त्या वचॊ राजंस तत एनं वयसर्जयत 96 विसृष्टः पाण्डवॊ राजन सूतपुत्रेण धन्विना वरीडन्न इव जगामाथ युधिष्ठिर रथं परति 97 आरुरॊह रथं चापि सूतपुत्र परतापिनः निःश्वसन दुःखसंतप्तः कुम्भे कषिप्त इवॊरगः 98 तं विसृज्य रणे कर्णः पाञ्चालांस तवरितॊ ययौ रथेनातिपताकेन चन्द्र वर्णहयेन च 99 तत्राक्रन्दॊ महान आसीत पाण्डवानां विशां पते दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान 100 तत्राकरॊन महाराज कदनं सूतनन्दनः मध्यं गते दिनकरे चक्रवत परचरन परभुः 101 भग्नचक्रै रथैः केच चिच छन्नध्वजपताकिभिः ससूतैर हतसूतैश च भग्नाक्षैश चैव मारिष हरियमाणान अपश्याम पाञ्चालानां रथव्रजान 102 तत्र तत्र च संभ्रान्ता विच्चेरुर मत्तकुञ्जराः दवाग्निना परीताङ्गा यथैव सयुर महावने 103 भिन्नकुम्भा विरुधिराश छिन्नहस्ताश च वारणाः भिन्नगात्रवराश चैव छिन्नवालाश च मारिष छिन्नाब्भ्राणीव संपेतुर वध्यमाना महात्मना 104 अपरे तरासिता नागा नाराचशततॊमरैः तम एवाभिमुखा यान्ति शलभा इव पावकम 105 अपरे निष्टनन्तः सम वयदृश्यन्त महाद्विपाः कषरन्तः शॊणितं गात्रैर नगा इव जलप्लवम 106 उरश छदैर विमुक्ताश च वालबन्धैश च वाजिनः राजतैश च तथा कांस्यैः सौवर्णैश चैव भूषणैः 107 हीना आस्तरणैश चैव खलीनैश च विवर्जिताः चामरैश च कुथाभिश च तूणीरैः पतितैर अपि 108 निहतैः सादिभिश चैव शूरैर आहवशॊभिभिः अपश्याम रणे तत्र भराम्यमाणान हयॊत्तमान 109 परासैः खड्गैश च संस्यूतान ऋष्टिब्भिश च नराधिप हययॊधान अपश्याम कञ्चुकॊष्णीष धारिणः 110 रथान हेमपरिष्कारान सुयुक्ताञ जवनैर हयैः भरममाणान अपश्याम हतेषु रथिषु दरुतम 111 भग्नाक्षकूबरान कांश चिच छिन्नचक्रांश च मारिष विपताकाध्वजांश चान्याञ छिन्नेषायुग बन्धुरान 112 विहीनान रथिनस तत्र धावमानान समन्ततः सूर्यपुत्र शरैस तरस्तान अपश्याम विशां पते 113 विशस्त्रांश च तथैवान्यान सशस्त्रांश च बहून हतान तावकाञ जालसंछन्नान उरॊ घण्टा विभूषितान 114 नानावर्णविचित्राभिः पताकाभिर अलंकृतान पदातीन अन्वपश्याम धावमानान समन्ततः 115 शिरांसि बाहून ऊरूंश च छिन्नान अन्यांस तथा युधि कर्ण चाप चयुतैर बाणैर अपश्याम विनाकृतान 116 महान वयतिकरॊ रौद्रॊ यॊधानाम अन्वदृश्यत कर्ण सायकनुन्नानां हतानां निशितैः शरैः 117 ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः तम एवाभिमुखा यान्ति पतंगा इव पावकम 118 तं दहन्तम अनीकानि तत्र तत्र महारथम कषत्रिया वर्जयाम आसुर युगान्ताग्निम इवॊल्बणम 119 हतशेषास तु ये वीराः पाञ्चालानां महारथाः तान परभग्नान दरुतान कर्णः पृष्ठतॊ विकिरञ शरैः अभ्यधावत तेजस्वी विशीर्णकवचध्वजान 120 तापयाम आस तान बाणैः सूतपुत्रॊ महारथः मध्यंदिनम अनुप्राप्तॊ भूतानीव तमॊनुदः |
1
[s] hastibhis tu mahāmātrās tava putreṇa coditāḥ dhṛṣṭadyumnaṃ jighāṃsantaḥ kruddhāḥ pārṣatam abhyayuḥ 2 prācyāś ca dākṣiṇātyāś ca pravīrā gajayodhinaḥ aṅgā vaṅgāś ca puṇḍrāś ca māgadhās tāmraliptakāḥ 3 mekalāḥ kośalā madrā daśārṇā niṣadhās tathā gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata 4 śaratomara nārācair vṛṣṭimanta ivāmbudāḥ siṣicus te tataḥ sarve pāñcālācalam āhave 5 tān saṃmimardiṣur nāgān pārṣṇyaṅguṣṭhāṅkuśair bhṛśam pothitān pārṣato bāṇair nārācaiś cābhyavīvṛṣat 6 ekaikaṃ daśabhiḥ ṣaḍbhir aṣṭābhir api bhārata dviradān abhivivyādha kṣiptair girinibhāñ śaraiḥ pracchādyamāno dviradair meghair iva divākaraḥ 7 paryāsuḥ pāṇḍupāñcālā nadanto niśitāyudhāḥ tān nāgān abhivarṣanto jyātantrī śaranāditaiḥ 8 nakulaḥ sahadevaś ca draupadeyāḥ prabhadrakāḥ sātyakiś ca śikhaṇḍī ca cekitānaś ca vīryavān 9 te mlecchaiḥ preṣitā nāgā narān aśvān rathān api hastair ākṣipya mamṛduḥ padbhiś cāpy atimanyavaḥ 10 bibhiduś ca viṣāṇāgraiḥ samākṣipya ca vikṣipuḥ viṣāṇa lagnaiś cāpy anye paripetur vibhīṣaṇāḥ 11 pramukhe vartamānaṃ tu dvipaṃ vaṅgasya sātyakiḥ nārācenogra vegena bhittvā marmaṇy apātayat 12 tasyāvarjitanāgasya dviradād utpatiṣyataḥ nārācenābhinad vakṣaḥ so 'patad bhuvi sātyakeḥ 13 puṇḍrasyāpatato nāgaṃ calantam iva parvatam sahadevaḥ prayatnāt tair nārācair vyahanat tribhiḥ 14 vipatākaṃ viyantāraṃ vivarma dhvajajīvitam taṃ kṛtvā dviradaṃ bhūyaḥ sahadevo 'ṅgam abhyagāt 15 sahadevaṃ tu nakulo vārayitvāṅgam ārdayat nārācair yamadaṇḍābhais tribhir nāgaṃ śatena ca 16 divākarakaraprakhyān aṅgaś cikṣepa tomarān nakulāya śatāny aṣṭau tridhaikaikaṃ tu so 'cchinat 17 tathārdha candreṇa śiras tasya ciccheda pāṇḍavaḥ sa papāta hato mlecchas tenaiva saha dantinā 18 ācārya putre nihate hastiśikṣā viśārade aṅgāḥ kruddhā mahāmātrā nāgair nakulam abhyayuḥ 19 calat patākaiḥ pramukhair hemakakṣyā tanuc chadaiḥ mimardiśantas tvaritāḥ pradīptair iva parvataiḥ 20 mekalotkala kāliṅgā niṣādās tāmraliptakāḥ śaratomara varṣāṇi vimuñcanto jighāṃsavaḥ 21 taiś chādyamānaṃ nakulaṃ divākaram ivāmbudaiḥ pari petuḥ susaṃrabdhāḥ pāṇḍupāñcāla somakāḥ 22 tatas tad abhavad yuddhaṃ rathināṃ hastibhiḥ saha sṛjatāṃ śaravarṣāṇi tomarāṃś ca sahasraśaḥ 23 nāgānāṃ prasphuṭuḥ kumbhā marmāṇi vividhāni ca dantāś caivātividdhānāṃ nārācair bhūṣaṇāni ca 24 teṣām aṣṭau mahānāgāṃś catuḥṣaṣṭyā sutejanaiḥ sahadevo jaghānāśu te petuḥ saha sādibhiḥ 25 añjo gatibhir āyamya prayatnād dhanur uttamam nārācair ahanan nāgān nakulaḥ kuranandana 26 tataḥ śaineya pāñcālyau draupadeyāḥ prabhadrakāḥ śikhaṇḍī ca mahānāgān siṣicuḥ śaravṛṣṭibhiḥ 27 te pāṇḍuyodhāmbudharaiḥ śatrudviradaparvatāḥ bāṇavarṣair hatāḥ petur vajravarṣair ivācalāḥ 28 evaṃ hatvā tava gajāṃs te pāṇḍunarakuñjarāḥ drutaṃ senām avaikṣanta bhinnakūlām ivāpagām 29 te tāṃ senām avālokya pāṇḍuputrasya sainikāḥ vikṣobhayitvā ca punaḥ karṇam evābhidudruvuḥ 30 sahadevaṃ tataḥ kruddhaṃ dahantaṃ tava vāhinīm duḥśāsano mahārāja bhrātā bhrātaram abhyayāt 31 tau sametau mahāyuddhe dṛṣṭvā tatra narādhipāḥ siṃhanāda ravāṃś cakrur vāsāṃsy ādudhuvuś ca ha 32 tato bhārata kruddhena tava putreṇa dhanvinā pāṇḍuputras tribhir bāṇair vakṣasy abhihato balī 33 sahadevas tato rājan nārācena tavātmajam viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhiḥ 34 duḥśāsanas tadā rājaṃś chittvā cāpaṃ mahāhave sahadevaṃ trisaptatyā bāhvor urasi cārdayat 35 sahadevas tataḥ kruddhaḥ khaḍgaṃ gṛhya mahāhave vyāvidhyata yudhāṃ śreṣṭhaḥ śrīmāṃs tava sutaṃ prati 36 sa mārgaṇagaṇaṃ cāpaṃ chittvā tasya mahān asiḥ nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt 37 athānyad dhanur ādāya sahadevaḥ pratāpavān duḥśāsanāya cikṣepa bāṇam antakaraṃ tataḥ 38 tam āpatantaṃ viśikhaṃ yamadaṇḍopamatviṣam khaḍgena śitadhāreṇa dvidhā ciccheda kauravaḥ 39 tam āpatantaṃ sahasā nistriṃśaṃ niśitaiḥ śaraiḥ pātayām āsa samare sahadevo hasann iva 40 tato bāṇāṃś catuḥṣaṣṭiṃ tava putro mahāraṇe sahadeva rathe tūrṇaṃ pātayām āsa bhārata 41 tāñ śarān samare rājan vegenāpatato bahūn ekaikaṃ pañcabhir bāṇaiḥ sahadevo nyakṛntata 42 sa nivārya mahābāṇāṃs tava putreṇa preṣitān athāsmai subahūn bbāṇāṃr mādrīputraḥ samācinot 43 tataḥ kruddho mahārāja sahadevaḥ pratāvanā samādhatta śaraṃ ghoraṃ mṛtyukālāntakopamam vikṛṣya balavac cāpaṃ tava putrāya so 'sṛjat 44 sa taṃ nirbhidya vegena bhittvā ca kavacaṃ mahat prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ tataḥ sa mumuhe rājaṃs tava putro mahārathaḥ 45 mūḍhaṃ cainaṃ samālakṣya sārathis tvarito ratham apovāha bhṛśaṃ trasto vadhyamānaṃ śitaiḥ śaraiḥ 46 parājitya raṇe taṃ tu pāṇḍavaḥ pāṇḍupūrvaja duryodhana balaṃ hṛṣṭaḥ prāmathad vai samantataḥ 47 pipīlikā puṭaṃ rājan yathāmṛdnān naro ruṣā tathā sā kauravī senā mṛditā tena bhārata 48 nakulaṃ rabhasaṃ yuddhe dārayantaṃ varūthinīm karṇo vaikartano rājan vārayām āsa vai tadā 49 nakulaś ca tadā karṇaṃ prahasann idam abravīt cirasya bata dṛṣṭo 'haṃ daivataiḥ saumya cakṣuṣā 50 yasya me tvaṃ raṇe pāpacakṣur viṣayam āgataḥ tvaṃ hi mūlam anarthānāṃ vairasya kalahasya ca 51 tvad doṣāt kuravaḥ kṣīṇāḥ samāsādya parasparam tvām adya samare hatvā kṛtakṛtyo 'smi vijvaraḥ 52 evam uktaḥ pratyuvāca nakulaṃ sūtanandanaḥ sadṛśaṃ rājaputrasya dhanvinaś ca viśeṣataḥ 53 praharasva raṇe bāla paśyāmas tava pauruṣam karmakṛtvā raṇe śūra tataḥ katthitum arhasi 54 anuktvā samare tāta śūrā yudhyanti śaktitaḥ sa yudhyasva mayā śaktyā vineṣye darpam adya te 55 ity uktvā prāharat tūrṇaṃ pāṇḍuputrāya sūtajaḥ vivyādha cainaṃ samare trisaptatyā śilīmukhaiḥ 56 nakulas tu tato viddhaḥ sūtaputreṇa bhārata aśīty āśīviṣaprakhyaiḥ sūtaputram avidhyata 57 tasya karṇo dhanuś chittvā svarṇapuṅkhaiḥ śilāśitaiḥ triṃśatā parameṣvāsaḥ śaraiḥ pāṇḍavam ārdayat 58 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave āśīviṣā yathā nāgā bhittvā gāṃ salilaṃ papuḥ 59 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam karṇaṃ vivyādha viṃśatyā sārathiṃ ca tribhiḥ śaraiḥ 60 tataḥ kruddho mahārāja nakulaḥ paravīrahā kṣurapreṇa sutīkṣṇena karṇasya dhanur acchinat 61 athainaṃ chinnadhanvānaṃ sāyakānāṃ śatais tribhiḥ ājaghne prahasan vīraḥ sarvalokamahāratham 62 karṇam abhyarditaṃ dṛṣṭvā pāṇḍuputreṇa māriṣa vismayaṃ paramaṃ jagmū rathinaḥ saha daivataiḥ 63 athānyad dhanur ādāya karṇo vaikartanas tadā nakulaṃ pañcabhir bāṇair jatru deśe samārdayat 64 uraḥsthair atha tair bāṇair mādrīputro vyarocata svaraśmibhir ivādityo bhuvane visṛjan prabhām 65 nakukas tu tataḥ karṇaṃ viddhvā saptabhir āyasaiḥ athāsya dhanuṣaḥ koṭiṃ punaś ciccheda māriṣa 66 so 'nyat kārmukam ādāya samare vegavattaram nakulasya tato bāṇaiḥ sarvato 'vārayad diśaḥ 67 saṃchādyamānaḥ sahasā karṇa cāpacyutaiḥ śaraiḥ ciccheda sa śarāṃs tūrṇaṃ śarair eva mahārathaḥ 68 tato bāṇamayaṃ jālaṃ vitataṃ vyomny adṛśyata khadyotānāṃ gaṇair evaṃ saṃpatadbhir yathā nabhaḥ 69 tair vimuktaiḥ śaraśataiś chāditaṃ gaganaṃ tadā śalabhānāṃ yathā vrātais tadvad āsīt samākulam 70 te śarā hemavikṛtāḥ saṃpatanto muhur muhuḥ śreṇī kṛtā abhāsanta haṃsāḥ śreṇī gatā iva 71 bāṇajālāvṛte vyomni chādite ca divākare samasarpat tato bhūtaṃ kiṃ cid eva viśāṃ pate 72 niruddhe tatra mārge tu śarasaṃghaiḥ samantataḥ vyarocatāṃ mahābhāgau bālasūryāv ivoditau 73 karṇa cāpacyutair bāṇair vadhyamānās tu somakāḥ avālīyanta rājendra vedanārtāḥ śarārditāḥ 74 nakulasya tathā bāṇair vadhyamānā camūs tava vyaśīryata diśo rājan vātanunnā ivāmbudāḥ 75 te sene vadhyamāne tu tābhyāṃ divyair mahāśaraiḥ śarapātam apakramya tataḥ prekṣakavat sthite 76 protsārite jane tasmin karṇa pāṇḍavayoḥ śaraiḥ vivyādhāte mahātmānāv anyonyaṃ śaravṛṣṭibhiḥ 77 nidarśayantau tv astrāṇi divyāni raṇamūrdhani chādayantau ca sahasā parasparavadhaiṣiṇau 78 nakulena śarā muktāḥ kaṅkabarṇiṇa vāsasaḥ te tu karṇam avacchādya vyatiṣṭhanta yathā pure 79 śaraveśma praviṣṭau tau dadṛśāte na kaiś cana candrasūryau yathā rājaṃś chādyamānau jalāgame 80 tataḥ kruddho raṇe karṇaḥ kṛtvā ghorataraṃ vapuḥ pāṇḍavaṃ chāddayām āsa samantāc charavṛṣṭibhiḥ 81 sacchādyamānaḥ samare sūtaputreṇa pāṇḍavaḥ na cakāra vyathāṃ rājan bhāskaro jaladair yathā 82 tataḥ prahasyādhirathiḥ śarajālāni māriṣa preṣayām āsa samare śataśo 'tha sahasraśaḥ 83 ekac chāyam abhūt sarvaṃ tasya bāṇair mahātmanaḥ abhrac chāyeva saṃjajñe saṃpatadbhiḥ śarottamaiḥ 84 tataḥ karṇo mahārāja dhanuś chittvā mahātmanaḥ sārathiṃ pātayām āsa rathanīḍād dhasann iva 85 tathāśvāṃś caturaś cāsya caturbhir niśitaiḥ śaraiḥ yamasya sadanaṃ tūrṇaṃ preṣayām āsa bhārata 86 athāsya taṃ rathaṃ tūrṇaṃ tilaśo vyadhamac charaiḥ patākāṃ cakrarakṣau ca dhvajaṃ khaḍgaṃ ca māriṣa śatacandraṃ tataś carma sarvopakaraṇāni ca 87 hatāśvo virathaś caiva vivarmā ca viśāṃ pate avatīrya rathāt tūrṇaṃ parighaṃ gṛhya viṣṭhitaḥ 88 tam udyataṃ mahāghoraṃ parighaṃ tasya sūtajaḥ vyahanat sāyakai rājañ śataśo 'tha sahasraśaḥ 89 vyāyudhaṃ cainam ālakṣya śaraiḥ saṃnataparvabhiḥ ārdayad bahuśaḥ karṇo na cainaṃ samapīḍayat 90 sa vadhyamānaḥ samare kṛtāstreṇa balīyasā prādravat sahasā rājan nakulo vyākulendriyaḥ 91 tam abhidrutya rādheyaḥ prahasan vai punaḥ punaḥ sa jyam asya dhanuḥ kaṇṭhe so 'vāsṛjata bhārata 92 tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ pariveṣam anuprāpto yathā syād vyomni candramāḥ yathaiva ca sito meghaḥ śakracāpena śobhitaḥ 93 tam abravīt tadā karṇo vyarthaṃ vyāhṛtavān asi vadedānīṃ punar hṛṣṭo vadhyaṃ māṃ tvaṃ punaḥ punaḥ 94 mā yotsīr gurubhiḥ sārdhaṃ balavadbhiś ca pāṇḍava sadṛśais tāta yudhyasva vrīḍāṃ mā kuru pāṇḍava gṛhaṃ vā gaccha mādreya yatra vā kṛṣṇa phalgunau 95 evam uktvā mahārāja vyasarjayata taṃ tataḥ vadhaprāptaṃ tu taṃ rājan nāvadhīt sūtanandanaḥ smṛtvā kuntyā vaco rājaṃs tata enaṃ vyasarjayat 96 visṛṣṭaḥ pāṇḍavo rājan sūtaputreṇa dhanvinā vrīḍann iva jagāmātha yudhiṣṭhira rathaṃ prati 97 āruroha rathaṃ cāpi sūtaputra pratāpinaḥ niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ 98 taṃ visṛjya raṇe karṇaḥ pāñcālāṃs tvarito yayau rathenātipatākena candra varṇahayena ca 99 tatrākrando mahān āsīt pāṇḍavānāṃ viśāṃ pate dṛṣṭvā senāpatiṃ yāntaṃ pāñcālānāṃ rathavrajān 100 tatrākaron mahārāja kadanaṃ sūtanandanaḥ madhyaṃ gate dinakare cakravat pracaran prabhuḥ 101 bhagnacakrai rathaiḥ kec cic channadhvajapatākibhiḥ sasūtair hatasūtaiś ca bhagnākṣaiś caiva māriṣa hriyamāṇān apaśyāma pāñcālānāṃ rathavrajān 102 tatra tatra ca saṃbhrāntā viccerur mattakuñjarāḥ davāgninā parītāṅgā yathaiva syur mahāvane 103 bhinnakumbhā virudhirāś chinnahastāś ca vāraṇāḥ bhinnagātravarāś caiva chinnavālāś ca māriṣa chinnābbhrāṇīva saṃpetur vadhyamānā mahātmanā 104 apare trāsitā nāgā nārācaśatatomaraiḥ tam evābhimukhā yānti śalabhā iva pāvakam 105 apare niṣṭanantaḥ sma vyadṛśyanta mahādvipāḥ kṣarantaḥ śoṇitaṃ gātrair nagā iva jalaplavam 106 uraś chadair vimuktāś ca vālabandhaiś ca vājinaḥ rājataiś ca tathā kāṃsyaiḥ sauvarṇaiś caiva bhūṣaṇaiḥ 107 hīnā āstaraṇaiś caiva khalīnaiś ca vivarjitāḥ cāmaraiś ca kuthābhiś ca tūṇīraiḥ patitair api 108 nihataiḥ sādibhiś caiva śūrair āhavaśobhibhiḥ apaśyāma raṇe tatra bhrāmyamāṇān hayottamān 109 prāsaiḥ khaḍgaiś ca saṃsyūtān ṛṣṭibbhiś ca narādhipa hayayodhān apaśyāma kañcukoṣṇīṣa dhāriṇaḥ 110 rathān hemapariṣkārān suyuktāñ javanair hayaiḥ bhramamāṇān apaśyāma hateṣu rathiṣu drutam 111 bhagnākṣakūbarān kāṃś cic chinnacakrāṃś ca māriṣa vipatākādhvajāṃś cānyāñ chinneṣāyuga bandhurān 112 vihīnān rathinas tatra dhāvamānān samantataḥ sūryaputra śarais trastān apaśyāma viśāṃ pate 113 viśastrāṃś ca tathaivānyān saśastrāṃś ca bahūn hatān tāvakāñ jālasaṃchannān uro ghaṇṭā vibhūṣitān 114 nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtān padātīn anvapaśyāma dhāvamānān samantataḥ 115 śirāṃsi bāhūn ūrūṃś ca chinnān anyāṃs tathā yudhi karṇa cāpa cyutair bāṇair apaśyāma vinākṛtān 116 mahān vyatikaro raudro yodhānām anvadṛśyata karṇa sāyakanunnānāṃ hatānāṃ niśitaiḥ śaraiḥ 117 te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ tam evābhimukhā yānti pataṃgā iva pāvakam 118 taṃ dahantam anīkāni tatra tatra mahāratham kṣatriyā varjayām āsur yugāntāgnim ivolbaṇam 119 hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ tān prabhagnān drutān karṇaḥ pṛṣṭhato vikirañ śaraiḥ abhyadhāvata tejasvī viśīrṇakavacadhvajān 120 tāpayām āsa tān bāṇaiḥ sūtaputro mahārathaḥ madhyaṃdinam anuprāpto bhūtānīva tamonudaḥ |