Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 47

  1 [धृ]
      पृच्छामि तवां संजय राजमध्ये; किम अब्रवीद वाक्यम अदीनसत्त्वः
      धनंजयस तात युधां परणेता; दुरात्मनां जीवितच्छिन महात्मा
  2 दुर्यॊधनॊ वाचम इमां शृणॊतु; यद अब्रवीद अर्जुनॊ यॊत्स्यमानः
      युधिष्ठिरस्यानुमते महात्मा; धनंजयः शृण्वतः केशवस्य
  3 अन्वत्रस्तॊ बाहुवीर्यं विदान; उपह्वरे वासुदेवस्य धीरः
      अवॊचन मां यॊत्स्यमानः किरीटी; मध्ये बरूया धार्तराष्ट्रं कुरूणाम
  4 ये वै राजानः पाण्डवायॊधनाय; समानीताः शृण्वतां चापि तेषाम
      यथा समग्रं वचनं मयॊक्तं; सहामात्यं शरावयेथा नृपं तम
  5 यथा नूनं देवराजस्य देवाः; शुश्रूषन्ते वज्रहस्तस्य सर्वे
      तथाशृण्वन पाण्डवाः सृञ्जयाश च; किरीटिना वाचम उक्तां समर्थाम
  6 इत्य अब्रवीद अर्जुनॊ यॊत्स्यमानॊ; गाण्डीवधन्वा लॊहितपद्मनेत्रः
      न चेद राज्यं मुञ्चति धार्तराष्ट्रॊ; युधिष्ठिरस्याजमीढस्य राज्ञः
      अस्ति नूनं कर्मकृतं पुरस्ताद; अनिर्विष्टं पापकं धार्तराष्ट्रैः
  7 येषां युद्धं भीमसेनार्जुनाभ्यां; तथाश्विभ्यां वासुदेवेन चैव
      शैनेयेन धरुवम आत्तायुधेन; धृष्टद्युम्नेनाथ शिखण्डिना च
      युधिष्ठिरेणेन्द्र कल्पेन चैव; यॊ ऽपध्यानान निर्दहेद गां दिवं च
  8 तैश चेद युद्धं मन्यते धार्तराष्ट्रॊ; निर्वृत्तॊ ऽरथः सकलः पाण्डवानाम
      मा तत कार्षीः पाण्डवार्थाय हेतॊर; उपैहि युद्धं यदि मन्यसे तवम
  9 यां तां वने दुःखशय्याम उवास; परव्राजितः पाण्डवॊ धर्मचारी
      आशिष्यते दुःखतराम अनर्थाम; अन्त्यां शय्यां धार्तराष्ट्रः परासुः
  10 हरिया जञानेन तपसा दमेन; करॊधेनाथॊ धर्मगुप्त्या धनेन
     अन्याय वृताः कुरुपाण्डवेयान; अध्यातिष्ठद धार्तराष्ट्रॊ दुरात्मा
 11 मायॊपधः परणिधानार्जवाभ्यां; तपॊ दमाभ्यां धर्मगुप्त्या बलेन
     सत्यं बरुवन परीतियुक्त्यानृतेन; तितिक्षमाणः कलिश्यमानॊ ऽतिवेलम
 12 यदा जयेष्ठः पाण्डवः संशितात्मा; करॊधं यत तं वर्षपूगान सुघॊरम
     अवस्रष्टा कुरुषूद्वृत्त चेतास; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 13 कृष्ण वर्त्मेव जवलितः समिद्धॊ; यथा दहेत कक्षम अग्निर निदाघे
     एवं दग्धा धार्तराष्ट्रस्य सेनां; युधिष्ठिरः करॊधदीप्तॊ ऽनुवीक्ष्य
 14 यद्या दरष्टा भीमसेनं रणस्थं; गदाहस्तं करॊधविषं वमन्तम
     दुर्मर्षणं पाण्डवं भीमवेगं; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 15 महासिंहॊ गाव इव परविश्य; गदापाणिर धार्तराष्ट्रान उपेत्य
     यदा भीमॊ भीमरूपॊ निहन्ता; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 16 महाभये वीतभयः कृतास्त्रः; समागमे शत्रुबलावमर्दी
     सकृद रथेन परतियाद रथौघान; पदातिसंघान गदयाभिनिघ्नन
 17 सैन्यान अनेकांस तरसा विमृद्नन; यदा कषेप्ता धार्तराष्ट्रस्य सैन्यम
     छिन्दन वनं परशुनेव शूरस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 18 तृणप्रायं जवलनेनेव दग्धं; गरामं यथा धार्तराष्ट्रः समीक्ष्य
     पक्वं सस्यं वैद्युतेनेव दग्धं; परासिक्तं विपुलं सवं बलौघम
 19 हतप्रवीरं विमुखं भयार्तं; पराङ्मुखं परायशॊ ऽधृष्ट यॊधम
     शस्त्रार्चिषा भीमसेनेन दग्धं; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 20 उपासङ्गाद उद्धरन दक्षिणेन; परःशतान नकुलश चित्रयॊधी
     यदा रथाग्र्यॊ रथिनः परचेता; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 21 सुखॊचितॊ दुःखशय्यां वनेषु; दीर्घं कालं नकुलॊ याम अशेत
     आशीविषः करुद्ध इव शवसन भृशं; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 22 तयक्तात्मानः पार्थिवायॊधनाय; समादिष्टा धर्मराजेन वीराः
     रथैः शुभ्रैः सैन्यम अभिद्रवन्तॊ; दृष्ट्वा पश्चात तप्स्यते धार्तराष्ट्रः
 23 शिशून कृतास्त्रान अशिशु परकाशान; यदा दरष्टा कौरवः पञ्च शूरान
     तयक्त्वा पराणान केकयान आद्रवन्तस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 24 यदा गतॊद्वाहम अकूजनाक्षं; सुवर्णतारं रथम आततायी
     दान्तैर युक्तं सहदेवॊ ऽधिरूढः; शिरांसि राज्ञां कषेप्स्यते मार्गणौघैः
 25 महाभये संप्रवृत्ते रथस्थं; विवर्तमानं समरे कृतास्त्रम
     सर्वां दिशं संपतन्तं समीक्ष्य; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 26 हरीनिषेधॊ निपुणः सत्यवादी; महाबलः सर्वधर्मॊपपन्नः
     गान्धारिम आर्च्छंस तुमुले कषिप्रकारी; कषेप्ता जनान सहदेवस तरस्वी
 27 यदा दरष्टा दरौपदेयान महेषूञ; शूरान कृतास्त्रान रथयुद्धकॊविदान
     आशीविषान घॊरविषान इवायतस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 28 यदाभिमन्युः परवीर घाती; शरैः परान मेघ इवाभिवर्षन
     विगाहिता कृष्ण समः कृतास्त्रस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 29 यदा दरष्टा बालम अबाल वीर्यं; दविषच चमूं मृत्युम इवापतन्तम
     सौभद्रम इन्द्र परतिमं कृतास्त्रं; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 30 परभद्रकाः शीघ्रतरा युवानॊ; विशारदाः सिंहसमान वीर्याः
     यदा कषेप्तारॊ धार्तराष्ट्रान स सैन्यांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 31 वृद्धौ विराटद्रुपदौ महारथौ; पृथक चमूभ्याम अभिवर्तमानौ
     यदा दरष्टारौ धार्तराष्ट्रान स सैन्यांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 32 यदा कृतास्त्रॊ दरुपदः परचिन्वञ; शिरांसि यूनां समरे रथस्थः
     करुद्धः शरैश छेत्स्यति चापमुक्तैस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 33 यदा विराटः परवीर घाती; मर्मान्तरे शत्रुचमूं परवेष्टा
     मत्स्यैः सार्धम अनृशंसरूपैस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 34 जयेष्ठं मात्स्यानाम अनृशंस रूपं; विराट पुत्रं रथिनं पुरस्तात
     यदा दरष्टा दंशितं पाण्डवार्थे; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 35 रणे हते कौरवाणां परवीरे; शिखण्डिना सत्तमे शंतनूजे
     न जातु नः शत्रवॊ धारयेयुर; असंशयं सत्यम एतद बरवीमि
 36 यदा शिखण्डी रथिनः परचिन्वन; भीष्मं रथेनाभियाता वरूथी
     दिव्यैर हयैर अवमृद्नन रथौघांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 37 यदा दरष्टा सृञ्जयानाम अनीके; धृष्टद्युम्नं परमुखे रॊचमानम
     अस्त्रं यस्मै गुह्यम उवाच धीमान; दरॊणस तदा तप्स्यति धार्तराष्ट्रः
 38 यदा स सेनापतिर अप्रमेयः; पराभवन्न इषुभिर धार्तराष्ट्रान
     दरॊणं रणे शत्रुसहॊ ऽभियाता; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 39 हरीमान मनीषी बलवान मनस्वी; स लक्ष्मीवान सॊमकानां परबर्हः
     न जातु तं शत्रवॊ ऽनये सहेरन; येषां स सयाद अग्रणीर वृष्णिसिंहः
 40 बरूयाच च मा परवृणीष्वेति लॊके; युद्धे ऽदवितीयं सचिवं रथस्थम
     शिनेर नप्तारं परवृणीम सात्यकिं; महाबलं वीतभयं कृतास्त्रम
 41 यदा शिनीनाम अधिपॊ मयॊक्तः; शरैः परान मेघ इव परवर्षन
     परच्छादयिष्यञ शरजालेन यॊधांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 42 यदा धृतिं कुरुते यॊत्स्यमानः; स दीर्घबाहुर दृढधन्वा महात्मा
     सिंहस्येव गन्धम आघ्राय गावः; संवेष्टन्ते शत्रवॊ ऽसयाद यथाग्नेः
 43 स दीर्घबाहुर दृढधन्वा महात्मा; भिन्द्याद गिरीन संहरेत सर्वलॊकान
     अस्त्रे कृती निपुणः कषिप्रहस्तॊ; दिवि सथितः सूर्य इवाभिभाति
 44 चित्रः सूक्ष्मः सुकृतॊ यावद अस्य; अस्त्रे यॊगॊ वृष्णिसिंहस्य भूयान
     यथाविधं यॊगम आहुः परशस्तं; सर्वैर गुणैः सात्यकिस तैर उपेतः
 45 हिरण्मयं शवेतहयैश चतुर्भिर; यदा युक्तं सयन्दनं माधवस्य
     दरष्टा युद्धे सात्यकेर वै सुयॊधनस; तदा तप्स्यत्य अकृतात्मा स मन्दः
 46 यदा रथं हेममणिप्रकाशं; शवेताश्वयुक्तं वानरकेतुम उग्रम
     दरष्टा रणे संयतं केशवेन; तदा तप्स्यत्य अकृतात्मा स मन्दः
 47 यदा मौर्व्यास तलनिष्पेषम उग्रं; महाशब्दं वज्रनिष्पेष तुल्यम
     विधूयमानस्य महारणे मया; गाण्डीवस्य शरॊष्यति मन्दबुद्धिः
 48 ततॊ मूढॊ धृतराष्ट्रस्य पुत्रस; तप्ता युद्धे दुर्मतिर दुःसहायः
     दृष्ट्वा सैन्यं बाणवर्णान्ध कारं; परभज्यन्तं गॊकुलवद रणाग्रे
 49 बलाहकाद उच्चरन्तीव विद्युत; सहस्रघ्नी दविषतां संगमेषु
     अस्थिच्छिदॊ मर्मभिदॊ वमेच छरांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 50 यदा दरष्टा जया मुखाद वाण संघान; गाण्डीवमुक्तान पततः शिताग्रान
     नागान हयान वर्मिणश चाददानांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 51 यदा मन्दः परबाणान विमुक्तान; ममेषुभिर हरियमाणान परतीपम
     तिर्यग विद्वांश छिद्यमानान कषुरप्रैस; तदा युद्धं धार्तराष्ट्रॊ ऽनवप्स्यत
 52 यदा विपाठा मद भुजविप्रमुक्ता; दविजाः फलानीव महीरुहाग्रात
     परच्छेत्तार उत्तमाङ्गानि यूनां; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत
 53 यदा दरष्टा पततः सयन्दनेभ्यॊ; महागजेभ्यॊ ऽशवगतांश च यॊधान
     शरैर हतान पातितांश चैव रङ्गे; तदा युद्धं धार्तराष्ट्रॊ ऽनवतस्यत
 54 पदातिसंघान रथसंघान समन्ताद; वयात्ताननः काल इवाततेषुः
     परणॊत्स्यामि जवलितैर बाणवर्षैः; शत्रूंस तदा तप्स्यति मन्दबुद्धिः
 55 सर्वा दिशः संपतता रथेन; रजॊध्वस्तं गाण्डिवेनापकृत्तम
     यदा दरष्टा सवबलं संप्रमूढं; तदा पश्चात तप्स्यति मन्दबुद्धिः
 56 कां दिग भूतं छिन्नगात्रं विसंज्ञं; दुर्यॊधनॊ दरक्ष्यति सर्वसैन्यम
     हताश्ववीराग्र्य नरेन्द्र नागं; पिपासितं शरान्तपत्रं भयार्तम
 57 आर्तस्वरं हन्यमानं हतं च; विकीर्णकेशास्थि कपालसंघम
     परजापतेः कर्म यथार्ध निष्ठितं; तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः
 58 यदा रथे गाण्डिवं वासुदेवं; दिव्यं शङ्खं पाञ्चजन्यं हयांश च
     तूणाव अक्षय्यौ देवदत्तं च मां च; दरष्टा युद्धे धार्तराष्ट्रः समेतान
 59 उद्वर्तयन दस्यु संघान समेतान; परवर्तयन युगम अन्यद युगान्ते
     यदा धक्ष्याम्य अग्निवत कौरवेयांस; तदा तप्ता धृतराष्ट्रः सपुत्रः
 60 सह भराता सह पुत्रः स सैन्यॊ; भरष्टैश्वर्यः करॊधवशॊ ऽलपचेताः
     दर्पस्यान्ते विहिते वेपमानः; पश्चान मन्दस तप्स्यति धार्तराष्ट्रः
 61 पूर्वाह्ने मां कृतजप्यं कदा चिद; विप्रः परॊवाचॊदकान्ते मनॊज्ञम
     करव्यं ते दुष्करं कर्म पार्थ; यॊद्धव्यं ते शत्रुभिः सव्यसाचिन
 62 इन्द्रॊ वा ते हरिवान वज्रहस्तः; पुरस्ताद यातु समरे ऽरीन विनिघ्नन
     सुग्रीव युक्तेन रथेन वा ते; पश्चात कृष्णॊ रक्षतु वासुदेवः
 63 वव्रे चाहं वज्रहस्तान महेन्द्राद; अस्मिन युद्धे वासुदेवं सहायम
     स मे लब्धॊ दस्युवधाय कृष्णॊ; मन्ये चैतद विहितं दैवतैर मे
 64 अयुध्यमानॊ मनसापि यस्य; जयं कृष्णः पुरुषस्याभिनन्देत
     धरुवं सर्वान सॊ ऽभयतीयाद अमित्रान; सेन्द्रान देवान मानुषे नास्ति चिन्ता
 65 स बाहुभ्यां सागरम उत्तितीर्षेन; महॊदधिं सलिलस्याप्रमेयम
     तेजस्विनं कृष्णम अत्यन्तशूरं; युद्धेन यॊ वासुदेवं जिगीषेत
 66 गिरिं य इच्छेत तलेन भेत्तुं; शिलॊच्चयं शवेतम अति परमाणम
     तस्यैव पाणिः स नखॊ विशीर्येन; न चापि किं चित स गिरेस तु कुर्यात
 67 अग्निं समिद्धं शमयेद भुजाभ्यां; चन्द्रं च सूर्यं च निवारयेत
     हरेद देवानाम अमृतं परसह्य; युद्धेन यॊ वासुदेवं जिगीषेत
 68 यॊ रुक्मिणीम एकरथेन भॊज्याम; उत्साद्य राज्ञां विषयं परसह्य
     उवाह भार्यां यशसा जवलन्तीं; यस्यां जज्ञे रक्मिणेयॊ महात्मा
 69 अयं गान्धरांस तरसा संप्रमथ्य; जित्वा पुत्रान नग्न जितः समग्रान
     बद्धं मुमॊच विनदन्तं परसह्य; सुदर्शनीयं देवतानां ललामम
 70 अयं कवाटे निजघान पाण्ड्यं; तथा कलिङ्गान दन्तकूरे ममर्द
     अनेन दग्धा वर्षपूगान विनाथा; वाराणसी नगरी संबभूव
 71 यं सम युद्धे मन्यते ऽनयैर अजेयम; एकलव्यं नाम निषादराजम
     वेगेनेव शैलम अभिहत्य जम्भः; शेते स कृष्णेन हतः परासुः
 72 तथॊग्रसेनस्य सुतं परदुष्टं; वृष्ण्यन्धकानां मध्यगां तपन्तम
     अपातयद बलदेव दवितीयॊ; हत्वा ददौ चॊग्रसेनाय राज्यम
 73 अयं सौभं यॊधयाम आस सवस्थं; विभीषणं मायया शाल्वराजम
     सौभद्वारि परत्यगृह्णाच छतघ्नीं; दॊर्भ्यां क एनं विषहेत मर्त्यः
 74 पराग्ज्यॊतिषं नाम बभूव दुर्गं; पुरं घॊरम असुराणाम असह्यम
     महाबलॊ नरकस तत्र भौमॊ; जहारादित्या मणिकुण्डले शुभे
 75 न तं देवाः सह शक्रेण सेहिरे; समागताहरणाय भीताः
     दृष्ट्वा च ते विक्रमं केशवस्य; बलं तथैवास्त्रम अवारणीयम
 76 जानन्तॊ ऽसय परकृतिं केशवस्य; नययॊजयन दस्यु वधाय कृष्णम
     स तत कर्म परतिशुश्राव दुष्करम; ऐश्वर्यवान सिद्धिषु वासुदेवः
 77 निर्मॊचने षट सहस्राणि हत्वा; संछिद्य पाशान सहसा कषुरान्तान
     मुरं हत्वा विनिहत्यौघराक्षसं; निर्मॊचनं चापि जगाम वीरः
 78 तत्रैव तेनास्य बभूव युद्धं; महाबलेनातिबलस्य विष्णॊः
     शेते स कृष्णेन हतः परासुर; वातेनेव मथितः कर्णिकारः
 79 आहृत्य कृष्णॊ मणिकुण्डले ते; हत्वा च भौमं नरकं मुरं च
     शरिया वृतॊ यशसा चैव धीमान; परत्याजगामाप्रतिम परभावः
 80 तस्मै वरान अददंस तत्र देवा; दृष्ट्वा भीमं कर्म रणे कृतं तत
     शरमश च ते युध्यमानस्य न सयाद; आकाशे वा अप्सु चैव करमः सयात
 81 शस्त्राणि गात्रे च न ते करमेरन्न; इत्य एव कृष्णश च ततः कृतार्थः
     एवंरूपे वासुदेवे ऽपरमेये; महाबले गुणसंपत सदैव
 82 तम असह्यं विष्णुम अनन्तवीर्यम; आशंसते धारराष्ट्रॊ बलेन
     यदा हय एनं तर्कयते दुरात्मा; तच चाप्य अयं सहते ऽसमान समीक्ष्य
 83 पर्यागतं मम कृष्णस्य चैव; यॊ मन्यते कलहं संप्रयुज्य
     शक्यं हर्तुं पाण्डवानां ममत्वं; तद वेदिता संयुगं तत्र गत्वा
 84 नमस्कृत्वा शांतनवाय राज्ञे; दरॊणायाथॊ सह पुत्राय चैव
     शारद्वतायाप्रतिद्वन्द्विने च; यॊत्स्याम्य अहं राज्यम अभीप्समानः
 85 धर्मेणास्त्रं नियतं तस्य मन्ये; यॊ यॊत्स्यते पाण्डवैर धर्मचारी
     मिथ्या घले निर्जिता वै नृशंसैः; संवत्सरान दवादश पाण्डुपुत्राः
 86 अवाप्य कृच्छ्रं विहितं हय अरण्ये; दीर्घं कालं चैकम अज्ञातचर्याम
     ते हय अकस्माज जीवितं पाण्डवानां; न मृष्यन्ते हार्तराष्ट्राः पदस्थाः
 87 ते चेद अस्मान युध्यमानाञ जयेयुर; देवैर अपीन्द्र परमुखैः सहायैः
     धर्माद अधर्मश चरितॊ गरीयान; इति धरुवं नास्ति कृतं न साधु
 88 न चेद इमं पुरुषं कर्म बद्धं; न चेद अस्मान मन्यते ऽसौ विशिष्टान
     आशंसे ऽहं वासुदेव दवितीयॊ; दुर्यॊधनं सानुबन्धं निहन्तुम
 89 न चेद इदं कर्म नरेषु बद्धं; न विद्यते पुरुषस्य सवकर्म
     इदं च तच चापि समीक्ष्य नूनं; पराजयॊ धार्तराष्ट्रस्य साधुः
 90 परत्यक्षं वः कुरवॊ यद बरवीमि; युध्यमाना धार्तराष्ट्रा न सन्ति
     अन्यत्र युद्धात कुरवः परीप्सन; न युध्यतां शेष इहास्ति कश चित
 91 हत्वा तव अहं धार्तराष्ट्रान स कर्णान; राज्यं कुरूणाम अवजेता समग्रम
     यद वः कार्यं तत कुरुध्वं यथास्वम; इष्टान दारान आत्मजांश चॊपभुङ्क्ते
 92 अप्य एवं नॊ बराह्मणाः सन्ति वृद्धा; बहुश्रुताः शीलवन्तः कुलीनाः
     सांवत्सरा जयॊतिषि चापि युक्ता; नक्षत्रयॊगेषु च निश्चयज्ञाः
 93 उच्चावचं दैवयुक्तं रहस्यं; दिव्याः परश्ना मृगचक्रा मुहूर्ताः
     कषयं महान्तं कुरुसृञ्जयानां; निवेदयन्ते पाण्डवानां जयं च
 94 तथा हि नॊ मन्यते ऽजातशत्रुः; संसिद्धार्थॊ दविषतां निग्रहाय
     जनार्दनश चाप्य अपरॊक्ष विद्यॊ; न संशयं पश्यति वृष्णिसिंहः
 95 अहं च जानामि भविष्य रूपं; पश्यामि बुद्ध्या सवयम अप्रमत्तः
     दृष्टिश च मे न वयथते पुराणी; युध्यमाना धार्तराष्ट्रा न सन्ति
 96 अनालब्धं जृम्भति गाण्डिवं धनुर; अनालब्धा कम्पति मे धनुर्ज्या
     बाणाश च मे तूणमुखाद विसृज्य; मुहुर मुहुर गन्तुम उशन्ति चैव
 97 सैक्यः कॊशान निःसरति परसन्नॊ; हित्वेव जीर्णाम उरगस तवचं सवाम
     धवजे वाचॊ रौद्ररूपा वदन्ति; कदा रथॊ यॊक्ष्यते ते किरीटिन
 98 गॊमायुसंघाश च वदन्ति रात्रौ; रक्षांस्य अथॊ निष्पतन्त्य अन्तरिक्षात
     मृगाः शृगालाः शितिकण्ठाश च काका; गृध्रा बडाश चैव तरक्षवश च
 99 सुपर्णपाताश च पतन्ति पश्चाद; दृष्ट्वा रथं शवेतहयप्रयुक्तम
     अहं हय एकः पार्थिवान सर्वयॊधाञ; शरान वर्षन मृत्युलॊकं नयेयम
 100 समाददानः पृथग अस्त्रमार्गान; यथाग्निर इद्धॊ गहनं निदाघे
    सथूणाकर्णं पाशुपतं च घॊरं; तथा बरह्मास्त्रं यच च शक्रॊ विवेद
101 वधे धृतॊ वेगवतः परमुञ्चन; नाहं परजाः किं चिद इवावशिष्ये
    शान्तिं लप्स्ये परमॊ हय एष भावः; सथिरॊ मम बरूहि गावल्गणे तान
102 नित्यं पुनः सचिवैर यैर अवॊचद; देवान अपीन्द्र परमुखान सहायान
    तैर मन्यते कलहं संप्रयुज्य; स धार्तराष्ट्रः पश्यत मॊहम अस्य
103 वृद्धॊ भीष्मः शांतनवः कृपश च; दरॊणः सपुत्रॊ विदुरश च धीमान
    एते सर्वे यद्वद अन्ते तद अस्तु; आयुष्मन्तः कुरवः सन्तु सर्वे
  1 [dhṛ]
      pṛcchāmi tvāṃ saṃjaya rājamadhye; kim abravīd vākyam adīnasattvaḥ
      dhanaṃjayas tāta yudhāṃ praṇetā; durātmanāṃ jīvitacchin mahātmā
  2 duryodhano vācam imāṃ śṛṇotu; yad abravīd arjuno yotsyamānaḥ
      yudhiṣṭhirasyānumate mahātmā; dhanaṃjayaḥ śṛṇvataḥ keśavasya
  3 anvatrasto bāhuvīryaṃ vidāna; upahvare vāsudevasya dhīraḥ
      avocan māṃ yotsyamānaḥ kirīṭī; madhye brūyā dhārtarāṣṭraṃ kurūṇām
  4 ye vai rājānaḥ pāṇḍavāyodhanāya; samānītāḥ śṛṇvatāṃ cāpi teṣām
      yathā samagraṃ vacanaṃ mayoktaṃ; sahāmātyaṃ śrāvayethā nṛpaṃ tam
  5 yathā nūnaṃ devarājasya devāḥ; śuśrūṣante vajrahastasya sarve
      tathāśṛṇvan pāṇḍavāḥ sṛñjayāś ca; kirīṭinā vācam uktāṃ samarthām
  6 ity abravīd arjuno yotsyamāno; gāṇḍīvadhanvā lohitapadmanetraḥ
      na ced rājyaṃ muñcati dhārtarāṣṭro; yudhiṣṭhirasyājamīḍhasya rājñaḥ
      asti nūnaṃ karmakṛtaṃ purastād; anirviṣṭaṃ pāpakaṃ dhārtarāṣṭraiḥ
  7 yeṣāṃ yuddhaṃ bhīmasenārjunābhyāṃ; tathāśvibhyāṃ vāsudevena caiva
      śaineyena dhruvam āttāyudhena; dhṛṣṭadyumnenātha śikhaṇḍinā ca
      yudhiṣṭhireṇendra kalpena caiva; yo 'padhyānān nirdahed gāṃ divaṃ ca
  8 taiś ced yuddhaṃ manyate dhārtarāṣṭro; nirvṛtto 'rthaḥ sakalaḥ pāṇḍavānām
      mā tat kārṣīḥ pāṇḍavārthāya hetor; upaihi yuddhaṃ yadi manyase tvam
  9 yāṃ tāṃ vane duḥkhaśayyām uvāsa; pravrājitaḥ pāṇḍavo dharmacārī
      āśiṣyate duḥkhatarām anarthām; antyāṃ śayyāṃ dhārtarāṣṭraḥ parāsuḥ
  10 hriyā jñānena tapasā damena; krodhenātho dharmaguptyā dhanena
     anyāya vṛtāḥ kurupāṇḍaveyān; adhyātiṣṭhad dhārtarāṣṭro durātmā
 11 māyopadhaḥ praṇidhānārjavābhyāṃ; tapo damābhyāṃ dharmaguptyā balena
     satyaṃ bruvan prītiyuktyānṛtena; titikṣamāṇaḥ kliśyamāno 'tivelam
 12 yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā; krodhaṃ yat taṃ varṣapūgān sughoram
     avasraṣṭā kuruṣūdvṛtta cetās; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 13 kṛṣṇa vartmeva jvalitaḥ samiddho; yathā dahet kakṣam agnir nidāghe
     evaṃ dagdhā dhārtarāṣṭrasya senāṃ; yudhiṣṭhiraḥ krodhadīpto 'nuvīkṣya
 14 yadyā draṣṭā bhīmasenaṃ raṇasthaṃ; gadāhastaṃ krodhaviṣaṃ vamantam
     durmarṣaṇaṃ pāṇḍavaṃ bhīmavegaṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 15 mahāsiṃho gāva iva praviśya; gadāpāṇir dhārtarāṣṭrān upetya
     yadā bhīmo bhīmarūpo nihantā; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 16 mahābhaye vītabhayaḥ kṛtāstraḥ; samāgame śatrubalāvamardī
     sakṛd rathena pratiyād rathaughān; padātisaṃghān gadayābhinighnan
 17 sainyān anekāṃs tarasā vimṛdnan; yadā kṣeptā dhārtarāṣṭrasya sainyam
     chindan vanaṃ paraśuneva śūras; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 18 tṛṇaprāyaṃ jvalaneneva dagdhaṃ; grāmaṃ yathā dhārtarāṣṭraḥ samīkṣya
     pakvaṃ sasyaṃ vaidyuteneva dagdhaṃ; parāsiktaṃ vipulaṃ svaṃ balaugham
 19 hatapravīraṃ vimukhaṃ bhayārtaṃ; parāṅmukhaṃ prāyaśo 'dhṛṣṭa yodham
     śastrārciṣā bhīmasenena dagdhaṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 20 upāsaṅgād uddharan dakṣiṇena; paraḥśatān nakulaś citrayodhī
     yadā rathāgryo rathinaḥ pracetā; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 21 sukhocito duḥkhaśayyāṃ vaneṣu; dīrghaṃ kālaṃ nakulo yām aśeta
     āśīviṣaḥ kruddha iva śvasan bhṛśaṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 22 tyaktātmānaḥ pārthivāyodhanāya; samādiṣṭā dharmarājena vīrāḥ
     rathaiḥ śubhraiḥ sainyam abhidravanto; dṛṣṭvā paścāt tapsyate dhārtarāṣṭraḥ
 23 śiśūn kṛtāstrān aśiśu prakāśān; yadā draṣṭā kauravaḥ pañca śūrān
     tyaktvā prāṇān kekayān ādravantas; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 24 yadā gatodvāham akūjanākṣaṃ; suvarṇatāraṃ ratham ātatāyī
     dāntair yuktaṃ sahadevo 'dhirūḍhaḥ; śirāṃsi rājñāṃ kṣepsyate mārgaṇaughaiḥ
 25 mahābhaye saṃpravṛtte rathasthaṃ; vivartamānaṃ samare kṛtāstram
     sarvāṃ diśaṃ saṃpatantaṃ samīkṣya; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 26 hrīniṣedho nipuṇaḥ satyavādī; mahābalaḥ sarvadharmopapannaḥ
     gāndhārim ārcchaṃs tumule kṣiprakārī; kṣeptā janān sahadevas tarasvī
 27 yadā draṣṭā draupadeyān maheṣūñ; śūrān kṛtāstrān rathayuddhakovidān
     āśīviṣān ghoraviṣān ivāyatas; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 28 yadābhimanyuḥ paravīra ghātī; śaraiḥ parān megha ivābhivarṣan
     vigāhitā kṛṣṇa samaḥ kṛtāstras; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 29 yadā draṣṭā bālam abāla vīryaṃ; dviṣac camūṃ mṛtyum ivāpatantam
     saubhadram indra pratimaṃ kṛtāstraṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 30 prabhadrakāḥ śīghratarā yuvāno; viśāradāḥ siṃhasamāna vīryāḥ
     yadā kṣeptāro dhārtarāṣṭrān sa sainyāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 31 vṛddhau virāṭadrupadau mahārathau; pṛthak camūbhyām abhivartamānau
     yadā draṣṭārau dhārtarāṣṭrān sa sainyāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 32 yadā kṛtāstro drupadaḥ pracinvañ; śirāṃsi yūnāṃ samare rathasthaḥ
     kruddhaḥ śaraiś chetsyati cāpamuktais; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 33 yadā virāṭaḥ paravīra ghātī; marmāntare śatrucamūṃ praveṣṭā
     matsyaiḥ sārdham anṛśaṃsarūpais; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 34 jyeṣṭhaṃ mātsyānām anṛśaṃsa rūpaṃ; virāṭa putraṃ rathinaṃ purastāt
     yadā draṣṭā daṃśitaṃ pāṇḍavārthe; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 35 raṇe hate kauravāṇāṃ pravīre; śikhaṇḍinā sattame śaṃtanūje
     na jātu naḥ śatravo dhārayeyur; asaṃśayaṃ satyam etad bravīmi
 36 yadā śikhaṇḍī rathinaḥ pracinvan; bhīṣmaṃ rathenābhiyātā varūthī
     divyair hayair avamṛdnan rathaughāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 37 yadā draṣṭā sṛñjayānām anīke; dhṛṣṭadyumnaṃ pramukhe rocamānam
     astraṃ yasmai guhyam uvāca dhīmān; droṇas tadā tapsyati dhārtarāṣṭraḥ
 38 yadā sa senāpatir aprameyaḥ; parābhavann iṣubhir dhārtarāṣṭrān
     droṇaṃ raṇe śatrusaho 'bhiyātā; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 39 hrīmān manīṣī balavān manasvī; sa lakṣmīvān somakānāṃ prabarhaḥ
     na jātu taṃ śatravo 'nye saheran; yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ
 40 brūyāc ca mā pravṛṇīṣveti loke; yuddhe 'dvitīyaṃ sacivaṃ rathastham
     śiner naptāraṃ pravṛṇīma sātyakiṃ; mahābalaṃ vītabhayaṃ kṛtāstram
 41 yadā śinīnām adhipo mayoktaḥ; śaraiḥ parān megha iva pravarṣan
     pracchādayiṣyañ śarajālena yodhāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 42 yadā dhṛtiṃ kurute yotsyamānaḥ; sa dīrghabāhur dṛḍhadhanvā mahātmā
     siṃhasyeva gandham āghrāya gāvaḥ; saṃveṣṭante śatravo 'syād yathāgneḥ
 43 sa dīrghabāhur dṛḍhadhanvā mahātmā; bhindyād girīn saṃharet sarvalokān
     astre kṛtī nipuṇaḥ kṣiprahasto; divi sthitaḥ sūrya ivābhibhāti
 44 citraḥ sūkṣmaḥ sukṛto yāvad asya; astre yogo vṛṣṇisiṃhasya bhūyān
     yathāvidhaṃ yogam āhuḥ praśastaṃ; sarvair guṇaiḥ sātyakis tair upetaḥ
 45 hiraṇmayaṃ śvetahayaiś caturbhir; yadā yuktaṃ syandanaṃ mādhavasya
     draṣṭā yuddhe sātyaker vai suyodhanas; tadā tapsyaty akṛtātmā sa mandaḥ
 46 yadā rathaṃ hemamaṇiprakāśaṃ; śvetāśvayuktaṃ vānaraketum ugram
     draṣṭā raṇe saṃyataṃ keśavena; tadā tapsyaty akṛtātmā sa mandaḥ
 47 yadā maurvyās talaniṣpeṣam ugraṃ; mahāśabdaṃ vajraniṣpeṣa tulyam
     vidhūyamānasya mahāraṇe mayā; gāṇḍīvasya śroṣyati mandabuddhiḥ
 48 tato mūḍho dhṛtarāṣṭrasya putras; taptā yuddhe durmatir duḥsahāyaḥ
     dṛṣṭvā sainyaṃ bāṇavarṇāndha kāraṃ; prabhajyantaṃ gokulavad raṇāgre
 49 balāhakād uccarantīva vidyut; sahasraghnī dviṣatāṃ saṃgameṣu
     asthicchido marmabhido vamec charāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 50 yadā draṣṭā jyā mukhād vāṇa saṃghān; gāṇḍīvamuktān patataḥ śitāgrān
     nāgān hayān varmiṇaś cādadānāṃs; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 51 yadā mandaḥ parabāṇān vimuktān; mameṣubhir hriyamāṇān pratīpam
     tiryag vidvāṃś chidyamānān kṣuraprais; tadā yuddhaṃ dhārtarāṣṭro 'navapsyat
 52 yadā vipāṭhā mad bhujavipramuktā; dvijāḥ phalānīva mahīruhāgrāt
     pracchettāra uttamāṅgāni yūnāṃ; tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat
 53 yadā draṣṭā patataḥ syandanebhyo; mahāgajebhyo 'śvagatāṃś ca yodhān
     śarair hatān pātitāṃś caiva raṅge; tadā yuddhaṃ dhārtarāṣṭro 'nvatasyat
 54 padātisaṃghān rathasaṃghān samantād; vyāttānanaḥ kāla ivātateṣuḥ
     praṇotsyāmi jvalitair bāṇavarṣaiḥ; śatrūṃs tadā tapsyati mandabuddhiḥ
 55 sarvā diśaḥ saṃpatatā rathena; rajodhvastaṃ gāṇḍivenāpakṛttam
     yadā draṣṭā svabalaṃ saṃpramūḍhaṃ; tadā paścāt tapsyati mandabuddhiḥ
 56 kāṃ dig bhūtaṃ chinnagātraṃ visaṃjñaṃ; duryodhano drakṣyati sarvasainyam
     hatāśvavīrāgrya narendra nāgaṃ; pipāsitaṃ śrāntapatraṃ bhayārtam
 57 ārtasvaraṃ hanyamānaṃ hataṃ ca; vikīrṇakeśāsthi kapālasaṃgham
     prajāpateḥ karma yathārdha niṣṭhitaṃ; tadā dṛṣṭvā tapsyate mandabuddhiḥ
 58 yadā rathe gāṇḍivaṃ vāsudevaṃ; divyaṃ śaṅkhaṃ pāñcajanyaṃ hayāṃś ca
     tūṇāv akṣayyau devadattaṃ ca māṃ ca; draṣṭā yuddhe dhārtarāṣṭraḥ sametān
 59 udvartayan dasyu saṃghān sametān; pravartayan yugam anyad yugānte
     yadā dhakṣyāmy agnivat kauraveyāṃs; tadā taptā dhṛtarāṣṭraḥ saputraḥ
 60 saha bhrātā saha putraḥ sa sainyo; bhraṣṭaiśvaryaḥ krodhavaśo 'lpacetāḥ
     darpasyānte vihite vepamānaḥ; paścān mandas tapsyati dhārtarāṣṭraḥ
 61 pūrvāhne māṃ kṛtajapyaṃ kadā cid; vipraḥ provācodakānte manojñam
     karavyaṃ te duṣkaraṃ karma pārtha; yoddhavyaṃ te śatrubhiḥ savyasācin
 62 indro vā te harivān vajrahastaḥ; purastād yātu samare 'rīn vinighnan
     sugrīva yuktena rathena vā te; paścāt kṛṣṇo rakṣatu vāsudevaḥ
 63 vavre cāhaṃ vajrahastān mahendrād; asmin yuddhe vāsudevaṃ sahāyam
     sa me labdho dasyuvadhāya kṛṣṇo; manye caitad vihitaṃ daivatair me
 64 ayudhyamāno manasāpi yasya; jayaṃ kṛṣṇaḥ puruṣasyābhinandet
     dhruvaṃ sarvān so 'bhyatīyād amitrān; sendrān devān mānuṣe nāsti cintā
 65 sa bāhubhyāṃ sāgaram uttitīrṣen; mahodadhiṃ salilasyāprameyam
     tejasvinaṃ kṛṣṇam atyantaśūraṃ; yuddhena yo vāsudevaṃ jigīṣet
 66 giriṃ ya iccheta talena bhettuṃ; śiloccayaṃ śvetam ati pramāṇam
     tasyaiva pāṇiḥ sa nakho viśīryen; na cāpi kiṃ cit sa gires tu kuryāt
 67 agniṃ samiddhaṃ śamayed bhujābhyāṃ; candraṃ ca sūryaṃ ca nivārayeta
     hared devānām amṛtaṃ prasahya; yuddhena yo vāsudevaṃ jigīṣet
 68 yo rukmiṇīm ekarathena bhojyām; utsādya rājñāṃ viṣayaṃ prasahya
     uvāha bhāryāṃ yaśasā jvalantīṃ; yasyāṃ jajñe rakmiṇeyo mahātmā
 69 ayaṃ gāndharāṃs tarasā saṃpramathya; jitvā putrān nagna jitaḥ samagrān
     baddhaṃ mumoca vinadantaṃ prasahya; sudarśanīyaṃ devatānāṃ lalāmam
 70 ayaṃ kavāṭe nijaghāna pāṇḍyaṃ; tathā kaliṅgān dantakūre mamarda
     anena dagdhā varṣapūgān vināthā; vārāṇasī nagarī saṃbabhūva
 71 yaṃ sma yuddhe manyate 'nyair ajeyam; ekalavyaṃ nāma niṣādarājam
     vegeneva śailam abhihatya jambhaḥ; śete sa kṛṣṇena hataḥ parāsuḥ
 72 tathograsenasya sutaṃ praduṣṭaṃ; vṛṣṇyandhakānāṃ madhyagāṃ tapantam
     apātayad baladeva dvitīyo; hatvā dadau cograsenāya rājyam
 73 ayaṃ saubhaṃ yodhayām āsa svasthaṃ; vibhīṣaṇaṃ māyayā śālvarājam
     saubhadvāri pratyagṛhṇāc chataghnīṃ; dorbhyāṃ ka enaṃ viṣaheta martyaḥ
 74 prāgjyotiṣaṃ nāma babhūva durgaṃ; puraṃ ghoram asurāṇām asahyam
     mahābalo narakas tatra bhaumo; jahārādityā maṇikuṇḍale śubhe
 75 na taṃ devāḥ saha śakreṇa sehire; samāgatāharaṇāya bhītāḥ
     dṛṣṭvā ca te vikramaṃ keśavasya; balaṃ tathaivāstram avāraṇīyam
 76 jānanto 'sya prakṛtiṃ keśavasya; nyayojayan dasyu vadhāya kṛṣṇam
     sa tat karma pratiśuśrāva duṣkaram; aiśvaryavān siddhiṣu vāsudevaḥ
 77 nirmocane ṣaṭ sahasrāṇi hatvā; saṃchidya pāśān sahasā kṣurāntān
     muraṃ hatvā vinihatyaugharākṣasaṃ; nirmocanaṃ cāpi jagāma vīraḥ
 78 tatraiva tenāsya babhūva yuddhaṃ; mahābalenātibalasya viṣṇoḥ
     śete sa kṛṣṇena hataḥ parāsur; vāteneva mathitaḥ karṇikāraḥ
 79 āhṛtya kṛṣṇo maṇikuṇḍale te; hatvā ca bhaumaṃ narakaṃ muraṃ ca
     śriyā vṛto yaśasā caiva dhīmān; pratyājagāmāpratima prabhāvaḥ
 80 tasmai varān adadaṃs tatra devā; dṛṣṭvā bhīmaṃ karma raṇe kṛtaṃ tat
     śramaś ca te yudhyamānasya na syād; ākāśe vā apsu caiva kramaḥ syāt
 81 śastrāṇi gātre ca na te kramerann; ity eva kṛṣṇaś ca tataḥ kṛtārthaḥ
     evaṃrūpe vāsudeve 'prameye; mahābale guṇasaṃpat sadaiva
 82 tam asahyaṃ viṣṇum anantavīryam; āśaṃsate dhārarāṣṭro balena
     yadā hy enaṃ tarkayate durātmā; tac cāpy ayaṃ sahate 'smān samīkṣya
 83 paryāgataṃ mama kṛṣṇasya caiva; yo manyate kalahaṃ saṃprayujya
     śakyaṃ hartuṃ pāṇḍavānāṃ mamatvaṃ; tad veditā saṃyugaṃ tatra gatvā
 84 namaskṛtvā śāṃtanavāya rājñe; droṇāyātho saha putrāya caiva
     śāradvatāyāpratidvandvine ca; yotsyāmy ahaṃ rājyam abhīpsamānaḥ
 85 dharmeṇāstraṃ niyataṃ tasya manye; yo yotsyate pāṇḍavair dharmacārī
     mithyā ghale nirjitā vai nṛśaṃsaiḥ; saṃvatsarān dvādaśa pāṇḍuputrāḥ
 86 avāpya kṛcchraṃ vihitaṃ hy araṇye; dīrghaṃ kālaṃ caikam ajñātacaryām
     te hy akasmāj jīvitaṃ pāṇḍavānāṃ; na mṛṣyante hārtarāṣṭrāḥ padasthāḥ
 87 te ced asmān yudhyamānāñ jayeyur; devair apīndra pramukhaiḥ sahāyaiḥ
     dharmād adharmaś carito garīyān; iti dhruvaṃ nāsti kṛtaṃ na sādhu
 88 na ced imaṃ puruṣaṃ karma baddhaṃ; na ced asmān manyate 'sau viśiṣṭān
     āśaṃse 'haṃ vāsudeva dvitīyo; duryodhanaṃ sānubandhaṃ nihantum
 89 na ced idaṃ karma nareṣu baddhaṃ; na vidyate puruṣasya svakarma
     idaṃ ca tac cāpi samīkṣya nūnaṃ; parājayo dhārtarāṣṭrasya sādhuḥ
 90 pratyakṣaṃ vaḥ kuravo yad bravīmi; yudhyamānā dhārtarāṣṭrā na santi
     anyatra yuddhāt kuravaḥ parīpsan; na yudhyatāṃ śeṣa ihāsti kaś cit
 91 hatvā tv ahaṃ dhārtarāṣṭrān sa karṇān; rājyaṃ kurūṇām avajetā samagram
     yad vaḥ kāryaṃ tat kurudhvaṃ yathāsvam; iṣṭān dārān ātmajāṃś copabhuṅkte
 92 apy evaṃ no brāhmaṇāḥ santi vṛddhā; bahuśrutāḥ śīlavantaḥ kulīnāḥ
     sāṃvatsarā jyotiṣi cāpi yuktā; nakṣatrayogeṣu ca niścayajñāḥ
 93 uccāvacaṃ daivayuktaṃ rahasyaṃ; divyāḥ praśnā mṛgacakrā muhūrtāḥ
     kṣayaṃ mahāntaṃ kurusṛñjayānāṃ; nivedayante pāṇḍavānāṃ jayaṃ ca
 94 tathā hi no manyate 'jātaśatruḥ; saṃsiddhārtho dviṣatāṃ nigrahāya
     janārdanaś cāpy aparokṣa vidyo; na saṃśayaṃ paśyati vṛṣṇisiṃhaḥ
 95 ahaṃ ca jānāmi bhaviṣya rūpaṃ; paśyāmi buddhyā svayam apramattaḥ
     dṛṣṭiś ca me na vyathate purāṇī; yudhyamānā dhārtarāṣṭrā na santi
 96 anālabdhaṃ jṛmbhati gāṇḍivaṃ dhanur; anālabdhā kampati me dhanurjyā
     bāṇāś ca me tūṇamukhād visṛjya; muhur muhur gantum uśanti caiva
 97 saikyaḥ kośān niḥsarati prasanno; hitveva jīrṇām uragas tvacaṃ svām
     dhvaje vāco raudrarūpā vadanti; kadā ratho yokṣyate te kirīṭin
 98 gomāyusaṃghāś ca vadanti rātrau; rakṣāṃsy atho niṣpatanty antarikṣāt
     mṛgāḥ śṛgālāḥ śitikaṇṭhāś ca kākā; gṛdhrā baḍāś caiva tarakṣavaś ca
 99 suparṇapātāś ca patanti paścād; dṛṣṭvā rathaṃ śvetahayaprayuktam
     ahaṃ hy ekaḥ pārthivān sarvayodhāñ; śarān varṣan mṛtyulokaṃ nayeyam
 100 samādadānaḥ pṛthag astramārgān; yathāgnir iddho gahanaṃ nidāghe
    sthūṇākarṇaṃ pāśupataṃ ca ghoraṃ; tathā brahmāstraṃ yac ca śakro viveda
101 vadhe dhṛto vegavataḥ pramuñcan; nāhaṃ prajāḥ kiṃ cid ivāvaśiṣye
    śāntiṃ lapsye paramo hy eṣa bhāvaḥ; sthiro mama brūhi gāvalgaṇe tān
102 nityaṃ punaḥ sacivair yair avocad; devān apīndra pramukhān sahāyān
    tair manyate kalahaṃ saṃprayujya; sa dhārtarāṣṭraḥ paśyata moham asya
103 vṛddho bhīṣmaḥ śāṃtanavaḥ kṛpaś ca; droṇaḥ saputro viduraś ca dhīmān
    ete sarve yadvad ante tad astu; āyuṣmantaḥ kuravaḥ santu sarve


Next: Chapter 48